श्लोक 91
शाल्य्-ओदनं क्षतोरस्कः क्षीण-शुक्र-बलेन्द्रियः ।
वात-पित्तार्दिते ऽभ्यङ्गो गात्र-भेदे घृतैर् मतः ॥ ९१ ॥
श्लोक 92
तैलैश् चानिल-रोग-घ्नैः पीडिते मातरिश्वना ।
हृत्-पार्श्वार्तिषु पानं स्याज् जीवनीयस्य सर्पिषः ॥ ९२ ॥
श्लोक 93
हृत-पार्श्वार्तौ तु पानं स्याज् कुर्याद् वा वात-रोग-घ्नं पित्त-रक्ता-विरोधि यत् ।
यष्ट्य्-आह्व-नागबलयोः क्वाथे क्षीर-समे घृतम् ॥ ९३ ॥
श्लोक 94
पयस्या-पिप्पली-वांशी-कल्कैः सिद्धं क्षते हितम् ।
जीवनीयो गणः शुण्ठी वरी वीरा पुनर्नवा ॥ ९४ ॥
श्लोक 95
बला-भार्गी-स्वगुप्तर्द्धि-शठी-तामलकी-कणाः ।
शृङ्गाटकं पयस्या च पञ्च-मूलं च यल् लघु ॥ ९५ ॥
श्लोक 96
द्राक्षाक्षोटादि च फलं मधुर-स्निग्ध-बृंहणम् ।
तैः पचेत् सर्पिषः प्रस्थं कर्षांशैः श्लक्ष्ण-कल्कितैः ॥ ९६ ॥
श्लोक 97
क्षीर-धात्री-विदारीक्षु-च्छाग-मांस-रसान्वितम् ।
प्रस्थार्धं मधुनः शीते शर्करार्ध-तुला-रजः ॥ ९७ ॥
श्लोक 98
पलार्धकं च मरिच-त्वग्-एला-पत्त्र-केसरम् ।
विनीय प्रसृतं तस्माल् लिह्यान् मात्रां यथा-बलम् ॥ ९८ ॥
श्लोक 99
लिह्यान् मात्रां यथानलम् अमृत-प्राशम् इत्य् एतन् नराणाम् अमृतं घृतम् ।
सुधामृत-रसं प्राश्यं क्षीर-मांस-रसाशिना ॥ ९९ ॥
श्लोक 100
नष्ट-शुक्र-क्षत-क्षीण-दुर्-बल-व्याधि-कर्शितान् ।
स्त्री-प्रसक्तान् कृशान् वर्ण-स्वर-हीनांश् च बृंहयेत् ॥ १०० ॥
श्लोक 101
दुर्-बल-व्याधि-कर्षितान् कास-हिध्मा-ज्वर-श्वास-दाह-तृष्णास्र-पित्त-नुत् ।
पुत्र-दं छर्दि-मूर्छा-हृद्-योनि-मूत्रामयापहम् ॥ १०१ ॥
श्लोक 102
श्वदंष्ट्रोशीर-मञ्जिष्ठा-बला-काश्मर्य-कट्तृणम् ।
दर्भ-मूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम् ॥ १०२ ॥
श्लोक 103
पालिकानि पचेत् तेषां रसे क्षीर-चतुर्-गुणे ।
कल्कैः स्वगुप्ता-जीवन्ती-मेदर्षभक-जीवकैः ॥ १०३ ॥
श्लोक 104
शतावर्य्-ऋद्धि-मृद्वीका-शर्करा-श्रावणी-बिसैः ।
प्रस्थः सिद्धो घृताद् वात-पित्त-हृद्-रोग-शूल-नुत् ॥ १०४ ॥
श्लोक 105
पित्त-हृद्-द्रव-शूल-नुत् मूत्र-कृच्छ्र-प्रमेहार्शः-कास-शोष-क्षयापहः ।
धनुः-स्त्री-मद्य-भाराध्व-खिन्नानां बल-मांस-दः ॥ १०५ ॥
श्लोक 106
मधुकाष्ट-पल-द्राक्षा-प्रस्थ-क्वाथे पचेद् घृतम् ।
पिप्पल्य्-अष्ट-पले कल्के प्रस्थं सिद्धे च शीतले ॥ १०६ ॥
श्लोक 107
पृथग् अष्ट-पलं क्षौद्र-शर्कराभ्यां विमिश्रयेत् ।
सम-सक्तु क्षत-क्षीण-रक्त-गुल्मेषु तद् धितम् ॥ १०७ ॥
श्लोक 108
धात्री-फल-विदारीक्षु-जीवनीय-रसाद् घृतात् ।
गव्याजयोश् च पयसोः प्रस्थं प्रस्थं विपाचयेत् ॥ १०८ ॥
श्लोक 109
सिद्ध-शीते सिता-क्षौद्रं द्वि-प्रस्थं विनयेत् ततः ।
यक्ष्मापस्मार-पित्तासृक्-कास-मेह-क्षयापहम् ॥ १०९ ॥
श्लोक 110
सिद्ध-पूते सिता-क्षौद्रं ३. -कास-मेह-ज्वरापहम् वयः-स्थापनम् आयुष्यं मांस-शुक्र-बल-प्रदम् ।
घृतं तु पित्ते ऽभ्यधिके लिह्याद् वाते ऽधिके पिबेत् ॥ ११० ॥
श्लोक 111
लिह्याद् वाताधिके पिबेत् लीढं निर्वापयेत् पित्तम् अल्प-त्वाद् धन्ति नानलम् ।
आक्रामत्य् अनिलं पीतम् ऊष्माणं निरुणद्धि च ॥ १११ ॥
श्लोक 112
क्षाम-क्षीण-कृशाङ्गानाम् एतान्य् एव घृतानि तु ।
त्वक्क्षीरी-शर्करा-लाज-चूर्णैः स्त्यानानि योजयेत् ॥ ११२ ॥
श्लोक 113
त्वक्क्षीरी-पिप्पली-लाज- -चूर्णैः पानानि योजयेत् सर्पिर्-गुडान् स-मध्व्-अंशान् कृत्वा दद्यात् पयो ऽनु च ।
रेतो वीर्यं बलं पुष्टिं तैर् आशु-तरम् आप्नुयात् ॥ ११३ ॥
श्लोक 114
वीत-त्वग्-अस्थि-कूष्माण्ड-तुलां स्विन्नां पुनः पचेत् ।
घट्टयन् सर्पिषः प्रस्थे क्षौद्र-वर्णे ऽत्र च क्षिपेत् ॥ ११४ ॥
श्लोक 115
क्षौद्र-वर्णे तु निक्षिपेत् खण्डाच् छतं कणा-शुण्ठ्योर् द्वि-पलं जीरकाद् अपि ।
त्रि-जात-धान्य-मरिचं पृथग् अर्ध-पलांशकम् ॥ ११५ ॥
श्लोक 116
अवतारित-शीते च दत्त्वा क्षौद्रं घृतार्धकम् ।
खजेनामथ्य च स्थाप्यं तन् निहन्त्य् उपयोजितम् ॥ ११६ ॥
श्लोक 117
कास-हिध्मा-ज्वर-श्वास-रक्त-पित्त-क्षत-क्षयान् ।
उरः-संधान-जननं मेधा-स्मृति-बल-प्रदम् ॥ ११७ ॥
श्लोक 118
अश्विभ्यां विहितं हृद्यं कूष्माण्डक-रसायनम् ।
पिबेन् नागबला-मूलस्यार्ध-कर्षाभिवर्धितम् ॥ ११८ ॥
श्लोक 119
यार्ध-कर्षादि-वर्धितम् ंयार्ध-कर्ष-विवर्धितम् पलं क्षीर-युतं मासं क्षीर-वृत्तिर् अन्-अन्न-भुक् ।
एष प्रयोगः पुष्ट्य्-आयुर्-बल-वर्ण-करः परम् ॥ ११९ ॥
श्लोक 120
मण्डूकपर्ण्याः कल्पो ऽयं यष्ट्या विश्वौषधस्य च ।
पाद-शेषं जल-द्रोणे पचेन् नागबला-तुलाम् ॥ १२० ॥
श्लोक 121
तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत् ।
पलार्धिकैश् चातिबला-बला-यष्टी-पुनर्नवैः ॥ १२१ ॥
श्लोक 122
प्रपौण्डरीक-काश्मर्य-प्रियाल-कपिकच्छुभिः ।
अश्वगन्धा-सिताभीरु-मेदा-युग्म-त्रिकण्टकैः ॥ १२२ ॥
श्लोक 123
काकोली-क्षीर-काकोली-क्षीरशुक्ला-द्वि-जीरकैः ।
मृणाल-बिस-खर्जूर-शृङ्गाटक-कसेरुकैः ॥ १२३ ॥
श्लोक 124
क्षीरशुक्ला-द्वि-जीवकैः एतन् नागबला-सर्पिः पित्त-रक्त-क्षत-क्षयान् ।
जयेत् तृड्-भ्रम-दाहांश् च बल-पुष्टि-करं परम् ॥ १२४ ॥
श्लोक 125
वर्ण्यम् आयुष्यम् ओजस्यं वली-पलित-नाशनम् ।
उपयुज्य च षण् मासान् वृद्धो ऽपि तरुणायते ॥ १२५ ॥
श्लोक 126
उपयुज्य तु षण्-मासाद् दीप्ते ऽग्नौ विधिर् एष स्यान् मन्दे दीपन-पाचनः ।
यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे ॥ १२६ ॥
श्लोक 127
दश-मूलं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् ।
हस्ति-पिप्पल्य्-अपामार्ग-पिप्पली-मूल-चित्रकान् ॥ १२७ ॥
श्लोक 128
भार्गीं पुष्कर-मूलं च द्वि-पलांशं यवाढकम् ।
हरीतकी-शतं चैकं जल-पञ्चाढके पचेत् ॥ १२८ ॥
श्लोक 129
द्वि-पलांशान् यवाढकम् जले पञ्चाढके पचेत् यव-स्वेदे कषायं तं पूतं तच् चाभया-शतम् ।
पचेद् गुड-तुलां दत्त्वा कुडवं च पृथग् घृतात् ॥ १२९ ॥
श्लोक 130
यवे स्विन्ने कषायं तं तैलात् स-पिप्पली-चूर्णात् सिद्ध-शीते च माक्षिकात् ।
लेहं द्वे चाभये नित्यम् अतः खादेद् रसायनात् ॥ १३० ॥
श्लोक 131
लेहे द्वे चाभये नित्यम् तद् वली-पलितं हन्याद् वर्णायुर्-बल-वर्धनम् ।
पञ्च-कासान् क्षयं श्वासं स-हिध्मं विषम-ज्वरम् ॥ १३१ ॥
श्लोक 132
मेह-गुल्म-ग्रहण्य्-अर्शो-हृद्-रोगा-रुचि-पीनसान् ।
अगस्त्य-विहितं धन्यम् इदं श्रेष्ठं रसायनम् ॥ १३२ ॥
श्लोक 133
दश-मूलं बलां मूर्वां हरिद्रे पिप्पली-द्वयम् ।
पाठाश्वगन्धापामार्ग-स्वगुप्तातिविषामृताः ॥ १३३ ॥
श्लोक 134
हरिद्रा-पिप्पली-द्वयम् स्वगुप्तातिविषामृतम् बाल-बिल्वं त्रिवृद्-दन्ती-मूलं पत्त्रं च चित्रकात् ।
पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात् ॥ १३४ ॥
श्लोक 135
बोट-स्थविर-भल्लात-विकङ्कत-शतावरीः ।
पूति-करञ्ज-शम्याक-चन्द्रलेखा-सहाचरम् ॥ १३५ ॥
श्लोक 136
चन्द्रलेखा-सहाचरात् शौभाञ्जनक-निम्ब-त्वग्-इक्षुरं च पलांशकम् ।
पथ्या-सहस्रं स-शतं यवानां चाढक-द्वयम् ॥ १३६ ॥
श्लोक 137
पचेद् अष्ट-गुणे तोये यव-स्वेदे ऽवतारयेत् ।
पूते क्षिपेत् स-पथ्ये च तत्र जीर्ण-गुडात् तुलाम् ॥ १३७ ॥
श्लोक 138
पूते क्षिपेत् स-पथ्यां च तैलाज्य-धात्री-रसतः प्रस्थं प्रस्थं ततः पुनः ।
अधिश्रयेन् मृदाव् अग्नौ दर्वी-लेपे ऽवतार्य च ॥ १३८ ॥
श्लोक 139
शीते प्रस्थ-द्वयं क्षौद्रात् पिप्पली-कुडवं क्षिपेत् ।
चूर्णी-कृतं त्रि-जाताच् च त्रि-पलं निखनेत् ततः ॥ १३९ ॥
श्लोक 140
धान्ये पुराण-कुम्भ-स्थं मासं खादेच् च पूर्व-वत् ।
रसायनं वसिष्ठोक्तम् एतत् पूर्व-गुणाधिकम् ॥ १४० ॥
श्लोक 141
स्वस्थानां निष्-परीहारं सर्वर्तुषु च शस्यते ।
पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले ॥ १४१ ॥
श्लोक 142
कुडवांशानि वृक्षाम्लं दाडिमं पत्त्रम् आर्जकात् ।
एकैकां मरिचाजाज्योर् धान्यकाद् द्वे चतुर्थिके ॥ १४२ ॥
श्लोक 143
दाडिमं पत्त्रम् आर्जकम् शर्करायाः पलान्य् अत्र दश द्वे च प्रदापयेत् ।
कृत्वा चूर्णम् अतो मात्राम् अन्न-पानेषु दापयेत् ॥ १४३ ॥
श्लोक 144
रुच्यं तद् दीपनं बल्यं पार्श्वार्ति-श्वास-कास-जित् ।
एकां षो-डशिकां धान्याद् द्वे द्वे चाजाजि-दीप्यकात् ॥ १४४ ॥
श्लोक 145
पार्श्वार्ति-श्वास-कास-नुत् ताभ्यां दाडिम-वृक्षाम्ले द्विर् द्विः सौवर्चलात् पलम् ।
शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्च पलानि च ॥ १४५ ॥
श्लोक 146
शुण्ठ्याः कर्षं कपित्थस्य तच् चूर्णं षो-डश-पलैः शर्कराया विमिश्रयेत् ।
षाडवो ऽयं प्रदेयः स्याद् अन्न-पानेषु पूर्व-वत् ॥ १४६ ॥
श्लोक 147
विधिश् च यक्ष्म-विहितो यथावस्थं क्षते हितः ।
निवृत्ते क्षत-दोषे तु कफे वृद्ध उरः शिरः ॥ १४७ ॥
श्लोक 148
दाल्यते कासिनो यस्य स ना धूमान् पिबेद् इमान् ।
द्वि-मेदा-द्वि-बला-यष्टी-कल्कैः क्षौमे सु-भाविते ॥ १४८ ॥
श्लोक 149
दाल्येते कासिनो यस्य स धूमान् ना पिबेद् इमान् वर्तिं कृत्वा पिबेद् धूमं जीवनीय-घृतानुपः ।
मनःशिला-पलाशाजगन्धा-त्वक्क्षीरि-नागरैः ॥ १४९ ॥
श्लोक 150
तद्-वद् एवानु-पानं तु शर्करेक्षु-गुडोदकम् ।
पिष्ट्वा मनःशिलां तुल्याम् आर्द्रया वट-शुङ्गया ॥ १५० ॥
श्लोक 151
स-सर्पिष्कं पिबेद् धूमं तित्तिरि-प्रतिभोजनम् ।
क्षय-जे बृंहणं पूर्वं कुर्याद् अग्नेश् च वर्धनम् ॥ १५१ ॥
श्लोक 152
तित्तिरि-प्रतिभोजितम् बहु-दोषाय स-स्नेहं मृदु दद्याद् विरेचनम् ।
शम्याकेन त्रिवृतया मृद्वीका-रस-युक्तया ॥ १५२ ॥
श्लोक 153
तिल्वकस्य कषायेण विदारी-स्व-रसेन च ।
सर्पिः सिद्धं पिबेद् युक्त्या क्षीण-देहो विशोधनम् ॥ १५३ ॥
श्लोक 154
पित्ते कफे धातुषु च क्षीणेषु क्षय-कास-वान् ।
घृतं कर्कटकी-क्षीर-द्वि-बला-साधितं पिबेत् ॥ १५४ ॥
श्लोक 155
विदारीभिः कदम्बैर् वा ताल-सस्यैश् च साधितम् ।
घृतं पयश् च मूत्रस्य वैवर्ण्ये कृच्छ्र-निर्गमे ॥ १५५ ॥
श्लोक 156
शूने स-वेदने मेढ्रे पायौ स-श्रोणि-वङ्क्षणे ।
घृत-मण्डेन लघुनानुवास्यो मिश्रकेण वा ॥ १५६ ॥
श्लोक 157
जाङ्गलैर् प्रतिभुक्तस्य वर्तकाद्या बिले-शयाः ।
क्रम-शः प्रसहास् तद्-वत् प्रयोज्याः पिशिताशिनः ॥ १५७ ॥
श्लोक 158
औष्ण्यात् प्रमाथि-भावाच् च स्रोतोभ्यश् च्यावयन्ति ते ।
कफं शुद्धैश् च तैः पुष्टिं कुर्यात् सम्यग् वहन् रसः ॥ १५८ ॥
श्लोक 159
चविका-त्रि-फला-भार्गी-दश-मूलैः स-चित्रकैः ।
कुलत्थ-पिप्पली-मूल-पाठा-कोल-यवैर् जले ॥ १५९ ॥
श्लोक 160
शृतैर् नागर-दुःस्पर्शा-पिप्पली-शठि-पौष्करैः ।
पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर् विपाचयेत् ॥ १६० ॥
श्लोक 161
सिद्धे ऽस्मिंश् चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च ।
दत्त्वा युक्त्या पिबेन् मात्रां क्षय-कास-निपीडितः ॥ १६१ ॥
श्लोक 162
द्वौ पञ्च लवणानि तु कासमर्दाभया-मुस्ता-पाठा-कट्फल-नागरैः ।
पिप्पल्या कटु-रोहिण्या काश्मर्या सुरसेन च ॥ १६२ ॥
श्लोक 163
अक्ष-मात्रैर् घृत-प्रस्थं क्षीर-द्राक्षा-रसाढके ।
पचेच् छोष-ज्वर-प्लीह-सर्व-कास-हरं शिवम् ॥ १६३ ॥
श्लोक 164
वृष-व्याघ्री-गुडूचीनां पत्त्र-मूल-फलाङ्कुरात् ।
रस-कल्कैर् घृतं पक्वं हन्ति कास-ज्वरा-रुचीः ॥ १६४ ॥
श्लोक 165
द्वि-गुणे दाडिम-रसे सिद्धं वा व्योष-संयुतम् ।
पिबेद् उपरि भुक्तस्य यव-क्षार-युतं नरः ॥ १६५ ॥
श्लोक 166
पिबेद् उपरि भक्तस्य यव-क्षार-घृतं नरः यव-क्षार-युतं घृतम् पिप्पली-गुड-सिद्धं वा छाग-क्षीर-युतं घृतम् ।
एतान्य् अग्नि-विवृद्ध्य्-अर्थं सर्पींषि क्षय-कासिनाम् ॥ १६६ ॥
श्लोक 167
स्युर् दोष-बद्ध-कण्ठोरः-स्रोतसां च विशुद्धये ।
प्रस्थोन्मिते यव-क्वाथे विंशतिं विजयाः पचेत् ॥ १६७ ॥
श्लोक 168
स्विन्ना मृदित्वा तास् तस्मिन् पुराणात् षट्-पलं गुडात् ।
पिप्पल्या द्वि-पलं कर्षं मनोह्वाया रसाञ्जनात् ॥ १६८ ॥
श्लोक 169
दत्त्वार्धाक्षं पचेद् भूयः स लेहः श्वास-कास-जित् ।
श्वाविधां सूचयो दग्धाः स-घृत-क्षौद्र-शर्कराः ॥ १६९ ॥
श्लोक 170
स लेहः श्वास-कास-नुत् श्वास-कास-हरा बर्हि-पादौ वा मधु-सर्पिषा ।
एरण्ड-पत्त्र-क्षारं वा व्योष-तैल-गुडान्वितम् ॥ १७० ॥
श्लोक 171
लेहयेत् क्षारम् एवं वा सुरसैरण्ड-पत्त्र-जम् ।
लिह्यात् त्र्य्-ऊषण-चूर्णं वा पुराण-गुड-सर्पिषा ॥ १७१ ॥
श्लोक 172
पद्मकं त्रि-फला व्योषं विडङ्गं देवदारु च ।
बला रास्ना च तच्-चूर्णं समस्तं सम-शर्करम् ॥ १७२ ॥
श्लोक 173
समस्त-सम-शर्करम् खादेन् मधु-घृताभ्यां वा लिह्यात् कास-हरं परम् ।
तद्-वन् मरिच-चूर्णं वा स-घृत-क्षौद्र-शर्करम् ॥ १७३ ॥
श्लोक 174
तद्-वन् मरिच-चूर्णं च पथ्या-शुण्ठी-घन-गुडैर् गुटिकां धारयेन् मुखे ।
सर्वेषु श्वास-कासेषु केवलं वा विभीतकम् ॥ १७४ ॥
श्लोक 175
पत्त्र-कल्कं घृत-भृष्टं तिल्वकस्य स-शर्करम् ।
पेया वोत्कारिका छर्दि-तृट्-कासामातिसार-जित् ॥ १७५ ॥
श्लोक 176
पेया चोत्कारिका छर्दि-तृट्-कासामातिसार-नुत् कण्टकारी-रसे सिद्धो क्षीरं यूषान् रसान् अपि ।
स-गौरामलकः साम्लः सर्व-कास-भिषग्-जितम् ॥ १७६ ॥
श्लोक 177
वात-घ्नौषध-निःक्वाथे क्षीरं यूषान् रसान् अपि ।
वैष्किरान् प्रातुदान् बैलान् दापयेत् क्षय-कासिने ॥ १७७ ॥
श्लोक 178
क्षत-कासे च ये धूमाः सानु-पाना निदर्शिताः ।
क्षय-कासे ऽपि ते योज्या वक्ष्यते यच् च यक्ष्मणि ॥ १७८ ॥
श्लोक 179
वक्ष्यन्ते ये च यक्ष्मणि बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम् ।
व्यत्यासात् क्षय-कासिभ्यो बल्यं सर्वं प्रशस्यते ॥ १७९ ॥
श्लोक 180
संनिपातोद्भवो घोरः क्षय-कासो यतस् ततः ।
यथा-दोष-बलं तस्य संनिपात-हितं हितम् ॥ १८० ॥