परिभाषादिप्रकरणम् / भेषजविधानप्रकरणम्

श्लोक 1

स्वरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम्

श्लोक 2

अहतात्तत्क्षणाकृष्टाद् द्र व्यात्क्षुण्णात्समुद्भवेत् वस्त्रनिष्पीडितो यश्च स्वरसो रस उच्यते

श्लोक 3

कुडवं चूर्णितं द्र व्यं क्षिप्तञ्च द्विगुणे जले अहोरात्रं स्थितं तस्माद्भवेद्वा रस उत्तमः

श्लोक 4

आदाय शुष्कद्र व्यं वा स्वरसानामसंभवे जलेऽष्टगुणिते साध्यं पादशिष्टं च गृह्यते

श्लोक 5

स्वरस्य गुरुत्वाच्च पलमर्द्धं प्रयोजयेत् निशोषितं चाग्निसिद्धं पलमात्रं रसं पिबेत्

श्लोक 6

सितामधुगुडक्षाराञ्जीरकं लवणं तथा घृतं तैलञ्च चूर्णादीन् कोलमात्रान् रसे क्षिपेत्

श्लोक 7

कण्डितं तण्डुलपलं जलेऽष्टगुणिते क्षिपेत् भावयित्वा जलं ग्राह्यं देयं सर्वत्र कर्मसु

श्लोक 8

क्षुण्णं द्र व्यपलं सम्यक् षड्भिर्नीरपलैः प्लुतम्
निशोषितं हिमः स स्यात्तथा शीतकषायकः
तस्य मानं मतं पाने पलद्वयमितं बुधैः

श्लोक 9

जले चतुष्पले शीते क्षुण्णं द्र व्यपलं क्षिपेत् मृत्पात्रे मन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत्

श्लोक 10

क्षुण्णे द्र व्यपले सम्यग्जलमुष्णं विनिक्षिपेत् मृत्पात्रे कुडवोन्मानं ततस्तु स्रावयेत्पटात्

श्लोक 11

स स्याच्चूर्णद्र वः फाण्टस्तन्मानं द्विपलोन्मितम् क्षौद्रं सितागुडादींस्तु कर्षमात्रान्विनिक्षिपेत्

श्लोक 12

द्र व्यमाद्र रं! शिलापिष्टं शुष्कं वा सजलं भवेत् तदेव कल्को विज्ञेयस्तन्मानं कर्षसम्मितम्

श्लोक 13

कल्के मधुघृतं तैलं देयं द्बिगुणमात्रया सितां गुडं समं दद्याद् द्र वो देयश्चतुर्गुणः

श्लोक 14

अत्यन्तशुष्कं यद् द्र व्यं सुपिष्टं वस्त्रगालितम् तत्स्याच्चूर्णं रजः क्षोदस्तन्मात्रा कर्षसम्मिता

श्लोक 15

चूर्णे गुडः समो देयः शर्करा द्विगुणा मता चूर्णेषु भर्जितं हिङ्गु देयं नोत्क्लेदकृद्भवेत्

श्लोक 16

लिहेच्चूर्णं द्र वैः सर्वैर्घृताद्यैर्द्विगुणोन्मितैः पिबेच्चतुर्गुणैरेवं चूर्णमालोडितं द्र वैः

श्लोक 17

चूर्णावलेहगुटिकाकल्कानामनुपानकम् पित्तवातकफातङ्के त्रिद्व्येकपलमाहरेत्

श्लोक 18

यथा तैलं जले क्षिप्तं क्षणेनैव विसर्पति अनुपानबलादङ्गे तथा सर्पति भेषजम्

श्लोक 19

द्र वेण यावता सम्यक् चूर्णं सर्वं प्लुतं भवेत् भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः

श्लोक 20

पुटपाकस्य कल्कस्य स्वरसो गृह्यते यतः अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया

श्लोक 21

पुटपाकस्य पाकोऽय लेपस्याङ्गारवर्णता लेपश्च द्व्यङ्गुलं स्थूलं कुर्याद् द्व्यङ्गुलमात्रकम्

श्लोक 22

काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम्

श्लोक 23

पलमात्रो रसो ग्राह्यः कर्षमानं मधु क्षिपेत् कल्कचूर्णद्र वाद्यास्तु देयाः कोलमिता बुधैः

श्लोक 24

अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा अथवा क्वथनेनैव सिद्धमुष्णोदकं भवेत्

श्लोक 25

श्लेष्मामवातमेदोघ्नं वस्तिशोधनदीपनम् कासश्वासज्वरान् हन्ति पीतमुष्णोदकं निशि

श्लोक 26

क्षीरमष्टगुणं द्र व्यात्क्षीरान्नीरं चतुर्गुणम् क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत्

श्लोक 27

पानीयं षोडशगुणं क्षुण्णे द्र व्यपले क्षिपेत् मृत्पात्रे क्वाथयेद् ग्राह्यमष्टमांशावशेषितम्

श्लोक 28

कर्षादौ तु पलं यावद् दद्यात्षोडशिकं जलम्
ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत्
चतुर्गुणमतश्चोर्ध्वं यावत् प्रस्थादिकं जलम्

श्लोक 29

तज्जलं पाययेद्धीमान्कोष्णं मृद्वग्निसाधितम् शृतः क्वाथः कषायश्च निर्यूहः स निगद्यते

श्लोक 30

मात्रोत्तमा पलेन स्यात्त्रिभिरक्षैस्तु मध्यमा जघन्या च पलार्द्धेन स्नेहक्वाथौषधेषु च

श्लोक 31

क्वाथ्यद्र व्यपले वारि द्विरष्टगुणमिष्यते चतुर्भागावशिष्टन्तु पेयं जलचतुष्टयम्

श्लोक 32

दीप्तानलं महाकायं पाययेदञ्जलि जलम् अन्ये त्वर्द्धं परित्यज्य प्रसृतिं तु चिकित्सकाः

श्लोक 33

क्वाथत्यागमनिच्छन्तस्त्वष्टभागावशेषितम् पारम्पर्योपदेशेन वृद्धवैद्याः पलद्वयम्

श्लोक 34

क्वाथे क्षिपेत्सितामंशैश्चतुर्थाष्टमषोडशैः वातपित्तकफातङ्के विपरीतं लघु स्मृतम्

श्लोक 35

जीरकं गुग्गुलं क्षारं लवणं च शिलाजतु हिङ्गु त्रिकटुकञ्चैव क्वाथे शाणोन्मितं क्षिपेत्

श्लोक 36

क्षीरं घृतं गुडं तैलं मूत्रं चान्यद् द्र वं तथा कल्कं चूर्णादिकं क्वाथे निक्षिपेत् कर्षसम्मितम्

श्लोक 37

तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः औषधं हेमरजतमृद्भाजनपरिस्थितम्

श्लोक 38

पिबेत् प्रसन्नहृदयः पीत्वा पात्रमधोमुखम् विधायाचम्य सलिलं ताम्बूलाद्युपयोजयेत्

श्लोक 39

क्वाथादेर्यत्पुनः पाकाद् घनत्वं सा रसक्रिया सोऽवलेहश्च लेहश्च तन्मात्रा स्यात्पलोन्मिता

श्लोक 40

सिता चतुर्गुणा कार्या चूर्णाच्च द्विगुणो गुडः द्र वं चतुर्गुणं दद्यादिति सर्वत्र निश्चयः

श्लोक 41

सुपक्वे तन्तुमत्त्वं स्यादवलेहेऽप्सु मज्जनम् स्थिरत्वं पीडिते मुद्रा गन्धवर्णरसोद्भवः

श्लोक 42

दुग्धमिक्षुरसं यूषं पञ्चमूलकषायकम् वासाक्वाथं यथायोग्यमनुपानं प्रशस्यते

श्लोक 43

वटका अथ कथ्यन्ते तन्नाम गुटिका वटी मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते

श्लोक 44

लेहवत्साध्यते वह्नौ गुडो वा शर्कराऽथवा गुग्गुल्लुर्वा क्षिपेत्तत्र चूर्णं तन्निर्मिता वटी

श्लोक 45

कुर्यादवह्निसिद्धेन क्वचिद् गुग्गुलुना वटीम् द्र वेण मधुना वाऽपि गुटिकां कारयेद् बुधः

श्लोक 46

सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः चूर्णे चूर्णसमः कार्यो गुग्गुलुर्मधु तत्समम्

श्लोक 47

द्र वं तु द्विगुणं देयं मोदकेषु भिषग्वरैः

श्लोक 48

कर्षप्रमाणं तन्मात्रा बलं दृष्ट्वा प्रयुज्यते

श्लोक 49

कल्काच्चतुर्गुणीकृत्य घृतं वा तैलमेव च चतुर्गुणद्र वे साध्यं तस्य मात्रा पलोन्मिता

श्लोक 50

निक्षिप्य क्वाथयेत्तोयं क्वाथ्यद्र व्याच्चतुर्गुणम् पादशिष्टं गृहीत्वा तु स्नेहं तेनैव साधयेत्

श्लोक 51

चतुर्गुणं मृदुद्र व्ये कठिनेऽष्टगुणं जलम्
मृद्वादिक्वाथ्यसंघाते दद्यादष्टगुणं पयः
अत्यन्त कठिने द्र व्ये नीरं षोडशिकं मतम्

श्लोक 52

प्रस्थादितः क्षिपेन्नीरं खारीं यावच्चतुर्गुणम्

श्लोक 53

अम्बुक्वाथरसैर्यत्र पृथक् स्नेहस्य साधनम् कल्कस्यांशं तत्र दद्याच्चतुर्थ षष्ठमष्टमम्

श्लोक 54

दुग्धेदध्नि रसे तक्रे कल्को देयोऽष्टमांशकः कल्काच्च सम्यक् पाकार्थं तोयमत्र चतुर्गुणम्

श्लोक 55

द्र वाणि यत्र स्नेहेषु पञ्चादीनि भवन्ति हि तत्र स्नेहसमान्याहुर्यथापूर्वं चतुर्गुणम्

श्लोक 56

द्र व्येण केवलेनैव स्नेहपाको भवेद् यदि तत्राम्बुपिष्टः कल्कः स्याज्जलं चात्र चतुर्गुणम्

श्लोक 57

क्वाथेन केवलेनैव पाको यत्रोदितः क्वचित् क्वाथ्यद्र व्यस्य कल्कोऽपि तत्र स्नेहे प्रयुज्यते

श्लोक 58

कल्कहीनस्तु यः स्नेहः स साध्यः केवले द्र वे

श्लोक 59

पुष्पकल्कस्तु यः स्नेहस्तत्र तोयं चतुर्गुणम् स्नेहात् स्नेहाष्टमांशश्च पुष्पकल्कः प्रयुज्यते

श्लोक 60

वर्त्तिवत्स्नेहकल्कः स्याद् यदाऽङ्गुल्या विवर्त्तितः शब्दहीनोऽग्निनिक्षिप्तःस्नेहः सिद्धो भवेत्तदा

श्लोक 61

यदा फेनोद्गमस्तैले फेनशान्तिश्च सर्पिषि वर्णगन्धरसोत्पत्तिः स्नेहः सिद्धो भवेत्तदा

श्लोक 62

स्नेहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरस्तथा ईषत्सरसकल्कस्तु स्नेहपाको मृदुर्भवेत्

श्लोक 63

मध्यपाकस्य सिद्धिश्च कल्के नीरसकोमले ईषत्कठिनकल्कश्च स्नेहपाको भवेत्खरः

श्लोक 64

तदूर्ध्वं दग्धपाकः स्याद्दाहकृन्निष्प्रयोजनः आमपाकश्च निर्वीर्यो वह्निमान्द्यकरो गुरुः

श्लोक 65

नस्यार्थं स्यान्मृदुः पाको मध्यमः सर्वकर्मसु अभ्यङ्गार्थः खरः प्रोक्तो युञ्ज्यादेवं यथोचितम्

श्लोक 66

घृततैलगुडादींश्च साधयेन्नैकवासरे प्रकुर्वुन्त्युषितास्त्वेते विशेषाद् गुणसञ्चयम्

श्लोक 67

द्र वेषु चिरकालस्थं द्र व्यं यत्सन्धितं भवेत् आसवारिष्टभेदैस्तु प्रोच्यते भेषजोचितम्

श्लोक 68

यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः अरिष्टः क्वाथसाध्यः स्यात्तयोर्मानं पलोन्मितम्

श्लोक 69

अनुक्तमानारिष्टेषु द्र वाद् द्रो णं गुडात्तुलाम् क्षौद्रं क्षिपेद् गुडादर्द्धं प्रक्षेपं दशमांशिकम्

श्लोक 70

ज्ञेयः शीतरसः सीघुरपक्वमधुरद्र वैः सिद्धः पक्वरसः सीधुः सम्पक्वमधुरद्र वैः

श्लोक 71

परिपक्वान्नसन्धानात्समुत्पन्नां सुरां जगुः सुरामण्डः प्रसन्ना स्यात्ततः कादम्वरी घना

श्लोक 72

तदधो जगलो ज्ञेयो मेदको जगलाद्घनः वक्कसो हृतसारः स्यात्सुराबीजं तु किण्वकम्

श्लोक 73

यत्तालखर्जूररसैः सन्धिता सा हि वारुणी

श्लोक 74

कन्दमूलफलादीनि सस्नेहलवणानि च यत्र द्र वेऽभिषूयन्ते तच्छुक्तमभिधीयते

श्लोक 75

विनष्टमम्लतां यातं मद्यं वा मधुरद्र वः विनष्टः सन्धितो यस्तु तच्चुक्रमभिधीयते

श्लोक 76

गुडाम्बुना सतैलेन कन्दशाकफलैस्तथा
संधितं चाम्लतां यातं गुडचुक्रं प्रचक्ष्यते
एवमेव हि शुक्तं स्यान्मृद्वीकासम्भवं तथा

श्लोक 77

तुषाम्बु सन्धितं ज्ञेयमामैर्विदलितैर्यवः यवैस्तु निस्तुषैः पक्वैः सौवीरं साधितं भवेत्

श्लोक 78

आरनालन्तु गोधूमैरामैः स्यान्निस्तुस्तुषीकृतैः पक्वैर्वा संहितं तत्तु सौवीरसदृशं गुणैः

श्लोक 79

कुल्माषधान्यमण्डादिसहितं काञ्जिकं विदुः
शिण्डाकी संहिता ज्ञेया मूलकैः सर्षपादिभिः