श्लोक 1
इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूरिरसोऽपि च गुडमूलोऽसिपत्रश्च तथा मधुतृणः स्मृतः
श्लोक 2
इक्षवो रक्तपित्तघ्ना बल्या वृष्याः कफप्रदाः स्वादुपाकरसाः स्निग्धाः गुरवो मूत्रला हिमाः
श्लोक 3
पौण्ड्रको भीरुकश्चापि वंशकः शतपोरकः कान्तारतापसेक्षुश्च काण्डेक्षुः सूचिपत्रकः
श्लोक 4
नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् मनोगुप्ता च इत्येता जातयस्तत्र कीर्त्तिताः
श्लोक 5
वातपित्तप्रशमनो मधुरो रसपाकयोः सुशीतो वृंहणो बल्यः पौण्ड्रको भीरुकस्तथा
श्लोक 6
कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः
श्लोक 7
कान्तारेक्षुर्गुरुर्वृष्यः श्लेष्मलो वृंहणः सरः
श्लोक 8
दीर्घपोरः सुकठिनः सक्षारो वंशकः स्मृतः
श्लोक 9
शतपर्वा भवेत्किञ्चित्कोशकारगुणान्वितः विशेषात्किञ्चिदुष्णश्च सक्षारः पवनापहः
श्लोक 10
तापसेक्षुर्भवेन्मृद्वी मधुरा श्लेष्मकोपनी तर्पणी रुचिकृच्चापि वृष्या च बलकारिणी
श्लोक 11
एवं गुणैस्तु काण्डेक्षुः स तु वातप्रकोपणः
श्लोक 12
सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः वातलाः कफपित्तघ्नाः सकषाया विदाहिनः
श्लोक 13
मनोगुप्ता वातहरी तृष्णाऽमयविनाशिनी सुशीता मधुराऽतीव रक्तपित्तप्रणाशिनी
श्लोक 14
बालइक्षुः कफं कुर्य्यान्मेदोमेहकरश्च सः
युवा तु वातहृत् स्वादुरीषत्तीक्ष्णश्च पित्तनुत्
रक्तपित्तहरो वृद्धः क्षतहृद्बलवीर्यकृत्
श्लोक 15
मूले तु मधुरोऽत्यर्थं मध्येऽपि मधुरः स्मृतः अग्रे ग्रन्थिषु विज्ञेय इक्षुः पटुरसोजनैः
श्लोक 16
दन्तनिष्पीडितस्येक्षो रसः पित्तास्रनाशनः शर्करासमवीर्यः स्यादविदाही कफप्रदः
श्लोक 17
मूलाग्रजन्तुग्रन्थ्यादिपीडनान्मलसङ्कराद्
किञ्चित्कालविधृत्या च विकृतिं याति यान्त्रिकः
तस्माद्विदाही विष्टम्भी गुरुः स्याद्यान्त्रिको रसः
श्लोक 18
रसः पर्युषितो नेष्टो ह्यम्लो वातापहो गुरुः कफपित्तकरः शोषी भेदनश्चातिमूत्रलः
श्लोक 19
पक्वो रसो गुरुः स्निग्धः सुतीक्ष्णः कफवातनुत् गुल्मानाहप्रशमनः किञ्चित्पित्तकरः स्मृतः
श्लोक 20
इक्षोर्विकारास्तृड्दाहमूर्छापित्तास्रनाशनः
गुरवो मधुरा बल्याः स्निग्धा वातहराः सराः
वृष्या मोहहराः शीता वृंहणा विषहारिणः
श्लोक 21
इक्षो रसस्तु यः पक्वः किञ्चिद्गाढो बहुद्र वः
स एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया
फाणितं गुर्वभिष्यन्दि वृंहणं कफशुक्रकृत्
वातपित्तश्रमान्हन्ति मूत्रवस्तिविशोधनम्
श्लोक 22
इक्षो रसो यः सम्पक्वो घनः किञ्चिद्द्र वान्वितः
श्लोक 23
मन्दं यत्स्यन्दते तस्मात्तन्मत्स्यण्डी निगद्यते
मत्स्यण्डी भेदिनी बल्या लघ्वी पित्तानिलापहा
मधुरा बृंहणी वृष्या रक्तदोषापहा स्मृता
श्लोक 24
इक्षो रसो यः सम्पन्नो जायते लोष्टवद् दृढः
श्लोक 25
स गुडो गौडदेशे तु मत्स्यण्ड्येव गुडो मतः
गुडो वृष्यो गुरुः स्निग्धो वातघ्नो मूत्रशोधनः
नातिपित्तहरो मेदःकफकृमिबलप्रदः
श्लोक 26
गुडो जीर्णो लघुः पथ्योऽनभिष्यन्द्यग्निपुष्टिकृत् पित्तघ्नो मधुरो वृष्यो वातघ्नोऽसृक्प्रसादनः
श्लोक 27
गुडो नवः कफश्वासकासकृमिकरोऽग्निकृत्
श्लोक 28
श्लेष्माणमाशु विनिहन्ति सहार्द्र केण पित्तं निहन्ति च तदेव हरीतकीभिः शुण्ठ्या समं हरति वातमशेषमित्थं दोषत्रयक्षयकराय नमो गुडाय
श्लोक 29
खण्डन्तु मधुरं वृष्यं चक्षुष्यं बृंहणं हिमम् वातपित्तहरं स्निग्धं बल्यं वान्तिहरं परम्
श्लोक 30
खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता
सिता सुमधुरा रुच्या वातपित्तास्रदाहहृत्
मूर्च्छाच्छर्दिज्वरान्हन्ति सुशीता शुक्रकारिणी
श्लोक 31
भवेत्पुष्पसिता शीता रक्तपित्तहरी लघुः सितोपला सरा लघ्वी वातपित्तहरी हिमा
श्लोक 32
मधुजा शर्करा रूक्षा कफपित्तहरा गुरुः छर्द्यतीसारतृड्दाहरक्तहृत्तुवरा हिमा
श्लोक 33
यथा यथैषां नैर्मल्यं मधुरत्वं यथा यथा स्नेहलाघवशैत्यादि सरत्वञ्च तथा तथा