मूत्रवर्गः

श्लोक 1

गोमूत्रं कटु तीक्ष्णोष्णं क्षारं तिक्तकषायकम् लघ्वग्निदीपनं मेध्यं पित्तकृत्कफवातहृत्

श्लोक 2

शूलगुल्मोदरानाहकण्ड्वक्षिमुखरोगजित्
किलासगदवातामवस्तिरुक्कुष्ठनाशनम्
कासश्वासापहं शोथकामलापाण्डुरोगहृत्

श्लोक 3

कण्डूकिलासगदशूलमुखाक्षिरोगान्गुल्मातिसारमरुदामयमूत्ररोधान् कासं सकुष्ठजठरकृमिपाण्डुरोगान्गोमूत्रमेकमपि पीतमपाकरोति

श्लोक 4

सर्वेष्वपि च मूत्रेषु गोमूत्रं गुणतोऽधिकम् अतोऽविशेषात्कथने मूत्रं गोमूत्रमुच्यते

श्लोक 5

प्लीहोदरश्वासकासशोथवर्चोग्रहापहम्

श्लोक 6

शूलगुल्मरुजाऽनाहकामलापाण्डुरोगहृत् कषायं तिक्ततीक्ष्णं च पूरणात्कर्णशूलहृत्

श्लोक 7

नरमूत्रं गरं हन्ति सेवितं तद्र सायनम् रक्तपामाहरं तीक्ष्णं सक्षारलवणं स्मृतम्

श्लोक 8

गोऽजाऽविमहिषीणां तु स्त्रीणां मूत्रं प्रशस्यते खरोष्ट्रेभनराश्वानां पुंसां मूत्रं हितं स्मृतम्