कृतान्नवर्गः contd.

श्लोक 93

एषा हरीसा बलकृद्वातपित्तापहा गुरुः शीतोष्णा शुक्रदा स्निग्धा सरा सन्धानकारिणी

श्लोक 94

शुद्धमांसविधानेन मांसं सम्यक्प्रसाधितम् पुनस्तदाज्ये सम्भृष्टं तलितं प्रोच्यते बुधैः

श्लोक 95

तलितं बलमेधाऽग्निमांसौजःशुक्रवृद्धिकृत् तर्पणं लघु सुस्निग्धं रोचनं दृढताकरम्

श्लोक 96

कालखण्डादिमांसानि ग्रथितानि शलाकया घृतं सलवणं दत्त्वा निर्धूमे दहने पचेत्

श्लोक 97

तत्तु शूल्यमिति प्रोक्तं पाककर्मविचक्षणैः

श्लोक 98

शूल्यं पलं सुधातुल्यं रुच्यं बह्निकरं लघु कफवातहरं बल्यं किञ्चित्पित्तकरं हि तत्

श्लोक 99

शुद्धमांसं तनूकृत्य कर्त्तितं स्वेदितं जले लवङ्गहिङ्गुलवणमरिचार्द्र कसंयुतम्

श्लोक 100

एलाजीरकधान्याकनिम्बूरससमन्वितम् घृते सुगन्धे तद् भृष्टं पूरणं प्रोच्यते बुधैः

श्लोक 101

शृङ्गाटकं समितया कृतं पूरणपूरितम् पुनः सर्पिषि सभृष्टं मांसशृङ्गाटकं वदेत्

श्लोक 102

मांसशृङ्गाटकं रुच्यं बृंहणं बलकृद् गुरु वातपित्तहरं वृष्यं कफघ्नं वीर्यवर्धनम्

श्लोक 103

सिद्धमांसरसो रुच्यः श्रमश्वासक्षयापहः
प्रीणनो वातपित्तघ्नः क्षीणानामल्परेतसाम्
विश्लिष्टभग्नसन्धीनां शुद्धानां शुद्धिकाङ्क्षिणाम्

श्लोक 104

स्मृत्योजोबलहीनानां ज्वरक्षीणक्षतोरसाम् शस्यते स्वरहीनानां दृष्ट्यायुःश्रवणार्थिनाम्

श्लोक 105

प्रकाराः कथिताः सन्ति बहवो मांससम्भवाः ग्रन्थविस्तरभीतेस्ते मया नात्र प्रकीर्त्तिताः

श्लोक 106

हिङ्गुजीरयुते तैले क्षिपेच्छाकं सुखण्डितम्

श्लोक 107

लवणं चात्र चूर्णादि सिद्धे हिङ्गूदकं क्षिपेत् इत्येवं सर्वशाकानां साधनेऽभिहितो विधिः

श्लोक 108

समितां मर्दयेदाज्यैर्जलेनापि च सन्नयेत्
तस्यास्तु वटिकां कृत्वा पचेत्सर्पिषि नीरसम्
एलालवङ्गकर्पूरमरिचाद्यैरलङ्कृते

श्लोक 109

मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत् अयं प्रकारः संसिद्धौ मण्ठ इत्यभिधीयते

श्लोक 110

मण्ठस्तु बृंहणो वृष्यो बल्यः सुमधुरो गुरुः पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः

श्लोक 111

समिताशर्करासर्पिर्निर्मिता अपरेऽपि ये प्रकारा अमुना तुल्यास्तेऽपि चेत्तद्गुणाः स्मृताः

श्लोक 112

पर्पट्यः साज्यसमिता निर्मिता घृतभर्जिताः कुट्टिताश्चालिताः शुद्धशर्कराभिर्विमर्दिताः

श्लोक 113

तत्र चूर्णं क्षिपेदेलालवङ्गमरिचानि च नारिकेरं सकर्पूरं चारबीजान्यनेकधा

श्लोक 114

घृताक्तसमिता पुष्टरोटिका रचिता ततः तस्यान्तःपूरणं तस्य कुर्यान्मुद्रा दृढां सुधीः

श्लोक 115

सर्पिषि प्रचुरे तान्तु सुपचेन्निपुणो जनः प्रकारज्ञैः प्रकारोऽय सम्पाव इति कीर्त्तितः

श्लोक 116

मण्ठकेन समो ज्ञेयः सम्पावोऽपि गुणैर्जनैः

श्लोक 117

घृताढ्यया समितया लम्बं कृत्वा पुटं ततः लवङ्गोषणकर्पूरयुतया सितयाऽन्वितम्

श्लोक 118

पचेदाज्येन सिद्धैषा ज्ञेया कर्पूरनालिका सम्पावसदृशा ज्ञेया गुणैः कर्पूरनालिका

श्लोक 119

समिताया घृताढ्याया वर्त्तीर्दीर्घाः समाचरेत् तास्तु सन्निहिता दीर्घाः पीठस्योपरि धारयेत्

श्लोक 120

वेल्लयेद्वेल्लनेनैता यथैका पर्पटी भवेत् ततश्छुरिकया तान्तु संलग्नामेव कर्त्तयेत्

श्लोक 121

ततस्तु वेल्लयेद्भूयः सट्टकेन च लेपयेत् शालिचूर्णं घृतं तोयं मिश्रितं सट्टकं वदेत्

श्लोक 122

ततः संवृत्य तल्लोप्त्रद्यं विदधीत पृथक्पृथक् पुनस्तां वेल्लययेल्लोप्त्रद्यं यथा स्यान्मण्डलाकृतिः

श्लोक 123

ततस्तां सुपचेदाज्ये भवेयुश्च स्फुटाः स्फुटाः सुगन्धया शर्करया तद्धूलनमाचरेत्

श्लोक 124

सिद्धैषा फेनिकानाम्नी मण्ठकेन समा गुणैः ततः किञ्चिल्लघुरियं विशेषोऽयमुदाहृतः

श्लोक 125

समिताया घृताक्ताया लोप्त्रद्यं कृत्वा च वेल्लयेत् आज्ये तां भर्जयेत्सिद्धा शष्कुली फेनिकागुणा

श्लोक 126

वृताढ्यया समितया कृत्वा सूत्राणि तानि तु
निपुणो भर्जयेदाज्ये खण्डपाकेन योजयेत्
युक्तेन मोदकान् कुर्यात्ते गुणैर्मण्ठका यथा

श्लोक 127

मुद्गानां धूमसीं सम्यग्घोलयेन्निर्मलाऽम्बुना

श्लोक 128

कटाहस्य घृतस्योर्ध्वं झर्झरं स्थापयेत्ततः घूमसीन्तु द्र वीभूतां प्रक्षिपेज्झर्झरोपरि

श्लोक 129

पतन्ति बिन्दवस्तस्मात्तान्सुपक्वान्समुद्धरेत् सितापाकेन संयोज्य कुर्याद्धस्तेन मोदकान्

श्लोक 130

लघुर्ग्राही त्रिदोषघ्नः स्वादुः शीतो रुचिप्रदः चक्षुष्यो ज्वरहृद्बल्यस्तर्पणो मुद्गमोदकः

श्लोक 131

एवमेव प्रकारेण कार्या वेसनमोदकाः

श्लोक 132

ते बल्या लघवः शीताः किञ्चिद्वातकरास्तथा विष्टम्भिनो ज्वरघ्नाश्च पित्तरक्तकफापहाः

श्लोक 133

तण्डुलचूर्णविमिश्रितनष्टक्षीरेण सान्द्र पिष्टेन दृढकूपिकां विदध्यात्ताञ्च पचेत्सर्पिषा सम्यक्

श्लोक 134

अथ तां कोरितमध्यां घनपयसा पूर्णगर्भाञ्च
सट्टकमुद्रि तवदनां तप्तघृते सुपक्ववदनाञ्च
अथ पाण्डुखण्डपाके स्नपयेत्कर्पूरवासिते कुशलः
अथ दुग्धकूपिका सा बल्या पित्तानिलापहाचैव

श्लोक 135

वृष्या शीता गुर्वी शुक्रकरी च तर्पणी रुच्या विदधाति कायपुष्टिं दृष्टिं दूरप्रसारिणीं सुचिरम्

श्लोक 136

श्लोक 137

नूतनं घटमानीय तस्यान्तः कुशलो जनः प्रस्थार्द्धपरिमाणेन दध्नाऽम्लेन प्रलेपयेत्

श्लोक 138

द्विप्रस्थां समितां तत्र दध्यम्ल प्रस्थसम्मितम् घृतमर्द्धशरावञ्च घोलयित्वा घटे क्षिपेत्

श्लोक 139

आतपे स्थापयेत्तावद् यावद्याति तदम्लताम् ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रे भाजने तु तत्

श्लोक 140

परिभ्राम्य परिभ्राम्य सुसन्तप्ते घृते क्षिपेत् पुनः पुनः स्तदावृत्त्या विदध्यान्मण्डलाकृतिम्

श्लोक 141

तां सुपक्वां घृतान्नीत्वा सितापाके तनुद्र वे कर्पूरादिसुगन्धे च स्नापयित्वोद्धरेत्ततः

श्लोक 142

एषा कुण्डलिनी नाम्ना पुष्टिकान्तिबलप्रदा धातुवृद्धिकरी वृष्या रुच्या चेन्द्रि यतर्पणी

श्लोक 143

आदौ माहिषमम्लमम्बुरहितं दध्याढकं शर्करां
शुभ्रां प्रस्थयुगोन्मितां शुचिपटे किञ्चिच्च किञ्चित्क्षिपेत्
दुग्धेनार्द्धघटेन मृण्मयनवंस्थाल्यां दृढं स्रावये
देलाबीजलवङ्गचन्द्र मरिचैर्योग्यैश्च तद्योजयेत्

श्लोक 144

भीमेन प्रियभोजनेन रचिता नाम्ना रसाला स्वयं
श्रीकृष्णेन पुरा पुनः पुनरियं प्रीत्या समास्वादिता
एषा येन वसन्तवर्जितदिने संसेव्यते नित्यश
स्तस्य स्यादतिवीर्य्यवृद्धिरनिशं सर्वेन्द्रि याणां बलम्

श्लोक 145

ग्रीष्मे तथाशरदि ये रविशोषिताङ्गा ये च प्रमत्तवनितासुरतातिखिन्नाः ये चापि मार्गपरिसर्पणशीर्णगात्रास्तेषामियं वपुषि पोषणमाशु कुर्यात्

श्लोक 146

रसाला शुक्रला वल्या रोचनी वातपित्तजित्

श्लोक 147

दीपनी बृंहणी स्निग्धा मधुरा शिशिरा सरा रक्तपित्तं तृषां दाहं प्रतिश्यायं विनाशयेत्

श्लोक 148

जलेन शीतलेनैव घोलिता शुभ्रशर्करा एलालवङ्गकर्पूरमरिचैश्च समन्विता

श्लोक 149

शर्करोदकनाम्ना तत्प्रसिद्धं विदुषां मुखैः शर्करोदकमाख्यातं शुक्रलं शिशिरं सरम्

श्लोक 150

बल्यं रुच्यं लघु स्वादु वातपित्तप्रणाशनम् मूर्च्छाछर्दितृषादाहज्वरशान्तिकरं परम्

श्लोक 151

आम्रमामं जले स्विन्नं मर्दितं दृढपाणिना सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम्

श्लोक 152

प्रपाणकमिदं श्रेष्ठं भीमसेनेन निर्मितम् सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रि वतर्पणम्

श्लोक 153

अम्लिकायाः फलं पक्वं मर्दितं वारिणा दृढम् शर्करामरिचैर्मिश्रं लवङ्गेन्दुसुवासितम्

श्लोक 154

अम्लिकाफलसम्भूतं पानकं वातनाशनम् पित्तश्लेष्मकरं किञ्चित्सुरुच्यं वह्निबोधनम्

श्लोक 155

भागैकं निम्बुजं तोयं षड्भागं शर्करोदकम् लवङ्गमरिचैर्मिश्रं पानं पानकमुत्तमम्

श्लोक 156

निम्बूकफलभवं पानमत्यम्लं वातनाशनम् वह्निदीप्तिकरं रुच्यं समस्ताहारपाचकम्

श्लोक 157

शिलायां साधु सम्पिष्टं धान्याकं वस्त्रगालितम्
शर्करोदकसंयुक्तं कर्पूरादिसुसंस्कृतम्
नूतने मृण्मये पात्रे स्थितं पित्तहरं परम्

श्लोक 158

काञ्जिकं रोचनं रुच्यं पाचनं वह्निदीपनम्

श्लोक 159

शूलाजीर्णविबन्धघ्नं कोष्ठशुद्धिकरं परम् न भवेत्काञ्जिकं यत्र तत्र जालि प्रदीयते

श्लोक 160

आममाम्रफलं पिष्टं राजिकालवणान्वितम् मृष्टहिङ्गुयुतं पूतं घोलितं जालिरुच्यते

श्लोक 161

जालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी मन्दं मन्दन्तु पीता सा रोचनी वह्निबोधिनी

श्लोक 162

तुर्यांशेन जलेन संयुतमतिस्थूलं सदम्लं दधि
प्रायोमाहिषमम्बुकेन विमले मृद्भाजने गालयेत्
भृष्टं हिंगुच जीरकञ्चलवणं राजीञ्च किञ्चिन्मितां
पिष्टां तत्र विमिश्रयेद्भवति तत्तक्रं न कस्य प्रियम्

श्लोक 163

तक्रं रुचिकरं वह्निदीपनं पाचनं परम् उदरे ये गदास्तेषां नाशनं तृप्तिकारकम्

श्लोक 164

विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मानवः तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत्

श्लोक 165

धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः

श्लोक 166

यवजाः सक्तवः शीता दीपना लघवः सराः कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्त्तिताः

श्लोक 167

ते पीता बलदा वृष्या बृंहणा भेदनास्तथा तर्पणा मधुरा रुच्याः परिणामे बलावहाः

श्लोक 168

कफपित्तश्रमक्षुत्तृड्व्रणनेत्रामयापहाः प्रशस्ता घर्मदाहाध्वव्यायामार्त्तशरीरिणाम्

श्लोक 169

निस्तुषैश्चणकैर्भृष्टैस्तुर्यांशैश्च यवैः कृताः सक्तवः शर्करासर्पिर्युक्ता ग्रीष्मेऽपि पूजिता

श्लोक 170

सक्तवः शालिसम्भूता वह्निदा लघवो हिमाः मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदा

श्लोक 171

न भुक्त्वा न रदैश्छित्वा न निशायां न वा बहून् नजलान्तरितानद्भिः सक्तूनद्यान्न केवलान्

श्लोक 172

पृथक्पानं पुनर्दानं सामिषं पयसा निशि दन्तच्छेदनमुष्णञ्च सप्त सक्तुषु वर्जयेत्

श्लोक 173

यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम्
धानाः स्युर्दुर्जरा रुक्षास्तृट्प्रदा गुरवश्च ताः
तथा मेहकफच्छर्दिनाशिन्यः सम्प्रकीर्त्तिताः

श्लोक 174

येषां स्युस्तण्डुलास्तानि धान्यानि सतुषाणि च भृष्टानि स्फुटितान्याहुर्लाजा इति मनीषिणः

श्लोक 175

लाजाः स्युर्मधुराः शीता लघवो दीपनाश्च ते
स्वल्पमूत्रमला रूक्षा बल्याः पित्तकफच्छिदः
छर्द्यतीसारदाहास्रमेहमेदस्तृषाऽपहाः

श्लोक 176

शालयः सतुषा आद्रा र्! भृष्टा अस्फुटितास्ततः कुट्टिताश्चिपिटाःप्रोक्तास्ते स्मृताः पृथुका अपि

श्लोक 177

पृथुका गुरवो वातनाशनाः श्लेष्मला अपि सक्षीरा बृंहणा वृष्या बल्या भिन्नमलाश्च ते

श्लोक 178

अर्द्धपक्वैः शमीधान्यैस्तृणभृष्टैश्च होलकः
होलकोऽल्पानिलोः मेदः कफदोषत्रयापहः
भवेद् यो होलको यस्य स च तत्तद्गुणो भवेत्

श्लोक 179

मञ्जरी त्वर्द्धपक्वा वा यवगोधूमयोर्भवेत्
तृणानलेन संभृष्टा बुधैरूचीति सा स्मृता
ऊची कफप्रदा बल्या लघ्वी पित्तानिलापहा

श्लोक 180

अर्धस्विन्नास्तु गोधूमा अन्येऽपि चणकादयः

श्लोक 181

कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषु पण्डितैः कुल्माषागुरवो रूक्षा वातला भिन्नवर्चसः

श्लोक 182

पललन्तु समाख्यातं सैक्षवं तिलपिष्टकम्
पललं मलकृद् वृष्यं वातघ्नं कफपित्तकृत्
बृंहणं च गुरु स्निग्धं मूत्राधिक्यनिवर्त्तकम्

श्लोक 183

तिलकिट्टन्तु पिण्याकस्तथा तिलखलि स्मृता पिण्याको लेखनो रूक्षो विष्टम्भी दृष्टिदूषणः

श्लोक 184

तुण्डुलो मेहजन्तुघ्नः स नवस्त्वतिदुर्जरः