श्लोक 66
पाण्डुस्तु द्विविधो ज्ञेयश्चित्रपक्षः कलध्वनिः
श्लोक 67
द्वितीयो धवलः प्रोक्तः स कपोतः स्फुटध्वनिः चित्रपक्षः कफहरो वातघ्नो ग्रहणीप्रणुत्
श्लोक 68
धवलः पाण्डुरुद्दिष्टो रक्तपित्तहरो हिमः रसे पाके च मधुरः संग्राही वातशान्तिकृत्
श्लोक 69
मयूरश्चन्द्र की केकी मेघरावो भुजङ्गभुक् शिखी शिखावलो बर्ही शिखण्डी नीलकण्ठकः
श्लोक 70
शुक्लापाङ्गः कलापी च मेघनादानुलास्यपि रसे पाके च मधुरः संग्राही वातशान्तिकृत्
श्लोक 71
पारावतः कलरवः कपोतो रक्तलोचनः
पारावतो गुरुः स्निग्धो रक्तपित्तानिलापहः
संग्राही शीतलस्तज्ज्ञैः कथितो वीर्यवर्द्धनः
श्लोक 72
नातिस्निग्धानि वृष्याणि स्वादुपाकरसानि च वातघ्नान्यतिशुक्राणि गुरूण्यण्डानि पक्षिणाम्
श्लोक 73
छागलो बर्करश्छागो बस्तोऽजश्छेलकः स्तुभः
श्लोक 74
अजा छागी स्तुभा चापि छेलिका च गलस्तनी छागमांसं लघु स्निग्धं स्वादुपाकं त्रिदोषनुत्
श्लोक 75
नातिशीतमदाहि स्यात्स्वादु पीनसनाशनम् परं बलकरं रुच्यं बृहणं वीर्यवर्द्धनम्
श्लोक 76
अजायास्त्वप्रसूताया मांसं पीनसनाशनम् शुष्ककासेऽरुचौ शोषे हितमग्नेश्च दीपनम्
श्लोक 77
अजासुतस्य बालस्य मांसं लघुतरं स्मृतम् हृद्यं ज्वरहरं श्रेष्ठं सुखदं बलदं भृशम्
श्लोक 78
मासंनिष्कासिताण्डस्य छागस्य कफकृद् गुरु स्रोतःशुद्धिकरं बल्यं मांसदं वातपित्तनुत्
श्लोक 79
वृद्धस्य वातलं रूक्षं तथा व्याधिमृतस्य च ऊर्ध्वजत्रुविकारघ्नं छागमुण्डं रुचिप्रदम्
श्लोक 80
अथ मेषः मिए!ढाइ! तस्य नामान्यण्डविहीनस्य तस्य च
मेढ्रो मेढो हुडो मेष उरणोऽप्येडकोऽपि च
अविर्वृष्णिस्तथोर्णायुः कथ्यन्ते तद्गुणा अथ
श्लोक 81
मेषस्य मांसं पुष्टौ स्यात्पित्तश्लेष्मकरं गुरु तस्यैवाण्डविहीनस्य मांसं किञ्चिल्लघु स्मृतम्
श्लोक 82
अथैडकः दिउ!म्बा मेढाइ! तस्य नामानि तद्भेदस्य च
एडकः पृथुशृङ्गः स्यान्मेदः पुच्छस्तु दुम्बकः
एडकस्य पलं ज्ञेयं मेषामिषसमं गुणैः
श्लोक 83
मेदः पुच्छोद्भवं मांसं हृद्यं वृष्यं श्रमापहम् पित्तश्लेष्मकरं किञ्चिद्वातव्याधिविनाशानम्
श्लोक 84
बलीवर्दस्तु वृषभः ऋषभश्च तथा वृषः अनड्वान्सौरभेयोऽपि गौरुक्षा भद्र इत्यपि
श्लोक 85
सुरभिः सौरभेयी च माहेयी गौरुदाहृता
गोमांसं सुगुरु स्निग्धं पित्तश्लेष्मविवर्द्धनम्
बृंहणं वातहृत् बल्यमपथ्यं पीनसप्रणुत्
श्लोक 86
घोटकेऽप्यश्वतुरगास्तुरङ्गमाश्च तुरङ्गाः बाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः
श्लोक 87
अश्वमांसन्तु तुवरं वह्निकृत्कफपित्तलम् वातहृद् बृहणं बल्यं चक्षुष्यं मधुरं लघु
श्लोक 88
महिषो घोटकारिः स्यात्कासरश्च रजस्वलः
श्लोक 89
पीनस्कन्धः कृष्णकायो लुलायो यमवाहनः महिषस्यामिषं स्वादु स्निग्धोष्णं वातनाशनम्
श्लोक 90
निद्रा शुक्रप्रदं बल्यं तनुदार्ढ्यकरं गुरु वृष्यञ्च सृष्टविण्मूत्रं वातपित्तास्रनाशनम्
श्लोक 91
मण्डूकः प्लवगो भेको वर्षाभूर्दर्दुरो हरिः मण्डूकः श्लेष्मलो नातिपित्तलो बलकारकः
श्लोक 92
कच्छपो गूढपात्कूर्मः कमठो दृढपृष्ठकः
कच्छपो बलदो वातपित्तनुत्पुंस्त्वकारकः
श्लोक 93
सद्योहतस्य मांसं स्थाद्व्याधिघाति यथाऽमृतम् वयस्यं बृंहणं सात्म्यमन्यथा तद् विवर्जयेत्
श्लोक 94
स्वयं मृतस्य चाबल्यमतीसारकरं गुरु
श्लोक 95
वृद्धानां दोषलं मांसं बालानां बलदं लघु
श्लोक 96
सर्पदष्टस्य मांसञ्च शुष्कमांस त्रिदोषकृत् त्रिदोषकृद् व्यालदष्टं शुष्कं शूलकरं परम्
श्लोक 97
विषाम्बुरुङ्मृतस्यैतन्मृत्युदोषरुजाकरम्
क्लिन्नमुत्क्लेशजनकं कृशं वातप्रकोपणम्
तोयपूर्णं शिराराजं मृतमप्सु त्रिदोषकृत्
श्लोक 98
विहङ्गेषु पुमाञ्छ्रेष्ठः स्त्री चतुष्पदजातिषु
परार्द्धं लघु पुंसां स्यात्स्त्रीणां पूर्वार्द्धमादिशेत्
देहमध्यं गुरुप्रायं सर्वेषां प्राणिनां स्मृतम्
श्लोक 99
पक्षक्षेपाद्विहङ्गानां तदेव लघु कथ्यते गुरूण्यण्डानि सर्वेषां गुर्वी ग्रीवा च पक्षिणाम्
श्लोक 100
उरः स्कन्धोदरं कुक्षी पादौ पाणी कटी तथा पृष्ठत्वग्यकृदन्त्राणि गुरूणीह यथोत्तरम्
श्लोक 101
लघुवातकरं मांसं खगानां धान्यचारिणाम् मत्स्याशिनां पित्तकरं वातघ्नं गुरु कीर्त्तितम्
श्लोक 102
फलाशिनां श्लेष्मकरं लघु रूक्षमुदीरितम् बृंहणं गुरु वातघ्नं तेषामेव पलाशिनाम्
श्लोक 103
तुल्यजातिष्वल्पदेहा महादेहेषु पूजिताः अल्पदेहेषु शस्यन्ते तथैव स्थूलदेहिनाः
श्लोक 104
रक्तोदरो रक्तमुखो रक्ताक्षो रक्तपक्षतिः कृष्णपुच्छो झषः श्रेष्ठो रोहितः कथितो बुधैः
श्लोक 105
रोहितः सर्वमत्स्यानां वरो वृष्योऽदितार्त्तिजित्
कषायानुरसः स्वादुर्वातघ्नो नातिपित्तकृत्
ऊर्ध्वजत्रुगतान् रोगान् हन्याद्रो हितमुण्डकम्
श्लोक 106
शिलीन्ध्रः श्लेष्मलो बल्यो विपाके मधुरो गुरुः वातपित्तहरो हृद्यः आमवातकरश्च सः
श्लोक 107
भाकुरो मधुरः शीतो वृष्यः श्लेष्मकरो गुरुः
विष्टम्भजनकश्चापि रक्तपित्तहरः स्मृतः
श्लोक 108
मोचिका वातहृद् बल्या बृंहणी मधुरा गुरुः पित्तहृत्कफकृद्रुच्या वृष्या दीप्ताग्नये हिता
श्लोक 109
पाठीनः श्लेष्मलो बल्यो निद्रा लुः पिशिताशनः दूषयेद्रुधिरं पित्तं कुष्ठरोगं करोति च
श्लोक 110
शृङ्गी तु वातशमनी स्निग्धा श्लेष्मप्रकोपणी रसे तिक्ता कषाया च लघ्वी रुच्या स्मृताबुधैः
श्लोक 111
इल्लीसो मधुरः स्निग्धो रोचनो वह्निवर्द्धनः पित्तहृत्कफकृत्किञ्चिल्लघुर्वृष्योऽनिलापहः
श्लोक 112
शष्कुली ग्राहिणी हृद्या मधुरा तुवरा स्मृता
श्लोक 113
गर्गरः पित्तलः किञ्चिद्वातजित्कफकोपनः
श्लोक 114
कविका मधुरा स्निग्धा कफघ्नी रुचिकारिणी कञ्चित्पित्तकरी वातनाशिनी वह्निवर्द्धिनी
श्लोक 115
वर्मिमत्स्यो हरेद्वातं पित्तं रुचिकरो लघुः
श्लोक 116
दण्डमत्स्यो रसे तिक्तः पित्तरक्तं कफं हरेत् वातसाधारणः प्रोक्तः शुक्रलो बलवर्द्धनः
श्लोक 117
एरङ्गो मधुरः स्निग्धो विष्टम्भी शीतलो लघुः
श्लोक 118
महाशफरसंज्ञस्तु तिक्तः पित्तकफापहः शिशिरो मधुरो रुच्यो वातसाधारणः स्मृतः
श्लोक 119
गरघ्नी मधुरा तिक्ता तुवरा वातपित्तहृत् कफघ्नी रुचिकृल्लघ्वी दीपनी बलवीर्यकृत्
श्लोक 120
मद्गुरो वातहृद् बल्यो वृष्यः कफकरो लघुः
श्लोक 121
सपादमत्स्यो मेधाकृन्मेदः क्षयकरश्च सः वातपित्तकरश्चापि रुचिकृत्परमो मतः
श्लोक 122
प्रोष्ठी तिक्ता कटुः स्वादुः शुक्रदा कफवातजित् स्निग्धाऽस्यकण्ठरोगघ्नी रोचनी च लघुः स्मृता
श्लोक 123
क्षुद्र मत्स्याः स्वादुरसा दोषत्रयविनाशनाः लघुपाका रुचिकरा बलदास्ते हिता मताः
श्लोक 124
अतिसूक्ष्माः पुंस्त्वहरा रुच्याः कासानिलापहाः
श्लोक 125
मत्स्यगर्भो भृशं वृष्यः स्निग्धः पुष्टिकरो लघुः कफमेदःप्रदो बल्यो ग्लानिकृन्मेहनाशनः
श्लोक 126
शुष्कमत्स्या नवा बल्या दुर्जरा विड्विबन्धिनः
श्लोक 127
दग्धमत्स्यो गुणैः श्रेष्ठः पुष्टिकृद् बलवर्द्धनः
श्लोक 128
कौपमत्स्याः शुक्रमूत्रकुष्ठश्लेष्मविवर्द्धनाः
सरोजा मधुराः स्निग्धा बल्या वातविनाशनाः
नादेया बृंहणा मत्स्या गुरवोऽनिलनाशनाः
रक्तपित्तकरा वृष्याः स्निग्धोष्णाः स्वल्पवर्चसः
चौञ्ज्याः पित्तकराः स्निग्धा मधुरा लघवो हिमाः
तडागा गुरवो वृष्याः शीतला मलमूत्रदाः
ताडागवन्निर्झरजा बलायुर्मतिदृक्कराः
श्लोक 129
हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः
वसन्ते ते तु नादेया ग्रीष्मे चौञ्ज्यसमुद्भवाः
तडागजाता वर्षासु तास्वपथ्या नदीभवाः
नैर्झरा शरदि श्रेष्ठा विशेषोऽयमुदाहृतः