श्लोक 62
चिचिण्डः श्वेतराजिः स्यात्सुदीर्घो गृहकूलकः
चिचिण्डो वातपित्तघ्नो बल्यः पथ्यो रुचिप्रदः
शोषणोऽतिहितः किञ्चिद् गुणैर्न्यूनः पटोलतः
श्लोक 63
कारवेल्लं कटिल्लं स्यात्कारवेल्ली ततोलघुः कारवेल्लं हिमं भेदि लघुतिक्तमवातलम्
श्लोक 64
ज्वरपित्तकफास्रघ्नं पाण्डुमेहकृमीन् हरेत् तद्गुणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः
श्लोक 65
महाकोशातकी प्रोक्ता हस्तिघोषा महाफला
श्लोक 66
धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः महाकोशातकीस्निग्धा रक्तपित्तानिलापहा
श्लोक 67
धामार्गवः पीतपुष्पो जालिनी कृतवेधना राजकोशातकी चेति तथोक्ता राजिमत्फला
श्लोक 68
राजकोशातकी शीता मधुरा कफवातकृत् पितघ्नी दीपनी श्वासज्वरकासकृमिप्रणुत्
श्लोक 69
पटोलः कुलकस्तिक्तः पाण्डुकः कर्कशच्छदः राजीफलः पाण्डुफलो राजेयश्चामृतफलः
श्लोक 70
बीजगर्भः प्रतीकश्च कुष्ठहा कासभञ्जनः
पटोलं पाचनं हृद्यं वृष्यं लघ्वग्निदीपनम्
स्निग्धोष्णं हन्ति कासास्रज्वरदोषत्रयक्रिमीन्
श्लोक 71
पटोलस्य भवेन्मूलं विरेचनकरं सुखात्
श्लोक 72
नालं श्लेष्महरं पत्रं पित्तहारी फलं पुनः दोषत्रयहरं प्रोक्तं तद्वतिक्ता पटोलिका
श्लोक 73
बिम्बी रक्तफला तुण्डी तुण्डीकेरी च बिम्बिका ओष्ठोपमफला प्रोक्ता पीलुपर्णी च कथ्यते
श्लोक 74
बिम्बीफलं स्वादु शीतं गुरु पित्तास्रवातजित् स्तभनं लेखनं रुच्यं विबन्धाध्मानकारकम्
श्लोक 75
शिम्बिः शिम्बी पुस्तशिम्बी तथा पुस्तकशिम्बिका
शिम्बीद्वयं च मधुरं रसे पाके हिमं गुरु
बल्यं दाहकरं प्रोक्तं श्लेष्मलं वातपित्तजित्
श्लोक 76
कोलशिम्बिः कृष्णफला तथा पर्यङ्कपट्टिका
श्लोक 77
कोलशिम्बिः समीरघ्नी गुर्व्युष्णा कफपित्तकृत् शुक्राग्निसादकृत् वृष्या रुचिकृद् बद्धविड् गुरुः
श्लोक 78
शोभाञ्जनफलं स्वादु कषायं कफपित्तनुत् शूलकुष्ठक्षयश्वासगुल्महृद् दीपनं परम्
श्लोक 79
वृन्ताकं स्त्री तु वार्त्ताकुर्भण्टाकी भाण्टिकाऽपि च
वृन्ताकं स्वादु तीक्ष्णोष्णं कटुपाकमपित्तलम्
ज्वरवातबलासघ्नं दीपनं शुक्रलं लघु
श्लोक 80
तद्बालं कफपित्तघ्नं वृद्धं पित्तकरं गुरु
श्लोक 81
वृन्ताकं पित्तलं किञ्चिदङ्गारपरिपाचितम् कफमेदोऽनिलामघ्नमत्यर्थं लघु दीपनम्
श्लोक 82
तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम्
अपरं श्वेतवृन्ताकं कुक्कुटाण्डसमं भवेत्
तदर्शःसु विशेषेण हितं हीनं च पूर्वतः
श्लोक 83
डिण्डिशो रोमशफलो मुनिनिर्मित इत्यपि
श्लोक 84
डिण्डिशो रुचिकृद्भेदी पित्तश्लेष्मापहः स्मृतः सुशीतो वातलो रूक्षो मूत्रलश्चाश्मरीहरः
श्लोक 85
पिण्डारं शीतलं बल्यं पित्तघ्नंरुचिकारकम् पाके लघु विशेषेण विषशान्तिकरं स्मृतम्
श्लोक 86
कर्कोटकी पीतपुष्पा महाजालीति चोच्यते
कर्कोटी मलहृत्कुष्ठहृल्लासारुचिनाशिनी
श्वासकासज्वरान्हन्ति कटुपाका च दीपनी
श्लोक 87
डोडिका विषमुष्टिश्च डोडित्यपि सुमुष्टिका
श्लोक 88
डोडिका पुष्टिदा वृष्या रुच्या वह्निप्रदा लघुः हन्ति पित्तकफार्शांसि कृमिगुल्मविषामयान्
श्लोक 89
कण्टकारीफलं तिक्तं कटुकं दीपनं लघु रूक्षोष्णं श्वासकासघ्नं ज्वरानिलकफापहम्
श्लोक 90
इति फल शाकानि
तीक्ष्णोष्णं सार्षपं नालं वातश्लेष्मव्रणापहम्
कण्डूकृमिहरं दद्रुकुष्ठघ्नं रुचिकारकम्
श्लोक 91
इति नालशाकानि
अथ कन्दशाकानि
सूरणः कन्द ओलश्च कन्दलोऽशोघ्न इत्यपि
सूरणो दीपनो रूक्षः कषायः कण्डुकृत् कटुः
श्लोक 92
विष्टम्भी विशदो रुच्यः कफार्शः कृन्तनो लघुः विशेषादर्शसे पथ्यः प्लीहगुल्मविनाशनः
श्लोक 93
सर्वेषां कन्दशाकानां सूरणः श्रेष्ठ उच्यते
दद्रू णां कुष्ठिनां रक्तपित्तिनां न हितो हि सः
सन्धानयोगं सम्प्राप्तः सूरणो गुणवत्तरः
श्लोक 94
आरूकं वीरसेनञ्च वीरं वीरारुकं तथा आरुकमप्यालुकं तत्कथितं वीरसेनकम्
श्लोक 95
काष्ठालुकशङ्खालुकहस्त्यालुकानि कथ्यन्ते पिण्डालुकमघ्वालुक रक्तालुकानि चोक्तानि
श्लोक 96
आलुकं शीतलं सर्वं विष्टम्भि मधुरं गुरु
श्लोक 97
सृष्टमूत्रमलं रूक्षं दुर्जरं रक्तपित्तनुत् कफानिलकरं बल्यं वृष्यं स्वल्पाग्निवर्द्धनम्
श्लोक 98
रक्तालुभेदो या दीर्घा तन्वी च प्रथिताऽलुकी
आलुकी बलकृत्स्निग्धा गुर्वी हृत्कफनाशिनी
विष्टम्भकारिणी तैले तलिताऽतिरुचिप्रदा
श्लोक 99
मूलकं द्विविधं प्रोक्तं तत्रैकं लघुमूलकम् शालामर्कटकं विस्रं शालेयं मरुसम्भवम्
श्लोक 100
चाणक्यमूलकं तीक्ष्णं तथा मूलकपोतिका नेपालमूलकं चान्यत्तद्भवेद्गजदन्तवत्
श्लोक 101
लघुमूलं कटूष्णं स्याद्रुच्यं लघु च पाचनम् दोषत्रयहरं स्वर्यं ज्वरश्वासविनाशनम्
श्लोक 102
नासिकाकण्ठरोगघ्नं नयनामयनाशनम्
श्लोक 103
महत्तदेव रूक्षोष्णं गुरु दोषत्रयप्रदस् स्नेहसिद्धं तदेव स्याद् दोषत्रयविनाशनम्
श्लोक 104
गृञ्जनं गाजरं प्रोक्तं तथा नारङ्गवर्णकम्
गाजरं मधुरं तीक्ष्णं तिक्तोष्णं दीपनं लघु
संग्राहि रक्तपित्तार्शोग्रहणीकफवातजित्
श्लोक 105
शीतलः कदलीकन्दो बल्यः केश्योऽम्लपित्तजित् वह्निकृद्दाहहारी च मधुरो रुचिकारकः
श्लोक 103
मानकः स्यान्महापत्रः कथ्यन्ते तद्गुणा अथ मानकः शोथहृच्छीतो रक्तपित्तहरो लघुः
श्लोक 107
वाराही पित्तला बल्या कट्वी तिक्ता रसायनी आयुःशुक्राग्निकृन्मेहकफकुष्ठानिलापहा
श्लोक 108
गजकर्णा तु तिक्तोष्णा तथा वातकफाञ्जयेत् शीतज्वरहरी स्वादुः पाके तस्यास्तु कन्दकः
श्लोक 109
पाण्डुशोथकृमिप्लीहगुल्मानाहोदरापहः ग्रहण्यर्शोविकारघ्नी वनसूरणकन्दवत्
श्लोक 110
केमुकं कटुकं पाके तिक्तं ग्राहि हिमं लघु
श्लोक 111
दीपनं पाचनं हृद्यं कफपित्तज्वरापहम् कुष्ठकासप्रमेहास्रनाशनं वातलं कटु
श्लोक 112
कसेरु द्विविधं तत्तु महद्रा जकसेरुकम् मुस्ताकृति लघु स्याद्यत्तच्चिचोढमिति स्मृतम्
श्लोक 113
कसेरुकद्वयं शीतं मधुरं तुवरं गुरु
पित्तशोणितदाहघ्नं नयनामयनाशनम्
ग्राहि शुक्रानिलश्लेष्मारुचिस्तन्यकरं स्मृतम्
श्लोक 114
पद्मादिकन्दः शालूकं करहाटश्च कथ्यते
श्लोक 115
मृणालमूलं भिस्साण्डं जलालूकञ्च कथ्यते शालूकं शीतलं वृष्यं पित्तदाहास्रनुद् गुरु
श्लोक 116
दुर्जरं स्वादुपाकश्च स्तन्यानिलकफप्रदम् संग्राहि मधुरं रूक्षं भिस्साण्डमपि तद्गुणम्
श्लोक 117
बालं ह्यनार्त्तवं जीर्णं व्याधितं कृमिभक्षितम्
कन्दं विवर्जयेत्सर्वं यद्वाऽग्न्यादिविदूषितम्
अतिजीर्णमकालोत्थं रूक्षसिद्धमदेशजम्
श्लोक 118
कर्कशं कोमलं चातिशीतव्यालादिदूषितम् संशुष्कं सकलं शाकं नाश्नीयान्मूलकं विना
श्लोक 119
इति कन्द शाकानि
उक्तं संस्वेदजं शाकं भूमिच्छत्रं शिलीन्ध्रकम्
क्षितिगोमयकाष्ठेषु वृक्षादिषु तदुद्भवेत्
श्लोक 120
सर्वे संस्वेदजाः शीता दोषलाः पिच्छिलाश्च ते गुरवश्छर्द्यतीसारज्वरश्लेष्मामयप्रदाः
श्लोक 121
श्वेताशुचिस्थलीकाष्ठवंशगोमयसम्भवाः नातिदोषकरास्ते स्युः शेषास्तेभ्यो विगर्हिताः