आम्रादिफलवर्गः contd.

श्लोक 73

पच्यमानं सुमधुरं सौवीरं बदरं महत् सौवीरं बदरं शीतं भेदनं गुरु शुक्रलम्

श्लोक 74

बृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् सौवीरं लघु सम्पक्वं मधुरं कोलमुच्यते

श्लोक 75

कोलन्तु बदरं ग्राहि रुच्यमुष्णञ्च वातहृत् कफपित्तकरं चापि गुरु सारकमीरितम्

श्लोक 76

कर्कन्धूः क्षुद्र वदरं कथितं पूर्वसूरिभिः अम्लं स्यात्क्षुद्र वदरं कषायं मधुरं मनाक्

श्लोक 77

स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् शुष्कं भेद्यग्निकृत्सर्वं लघु तृष्णाक्लमास्रजित्

श्लोक 78

प्राचीनामलकं लोके पानीयामलकं स्मृतम् प्राचीनामलकं दोषत्रयजिज्ज्वरघाति च

श्लोक 79

सुगन्धमूला लवली पाण्डुः कोमलवल्कला

श्लोक 80

लवलीफलमश्मार्शःकफपित्तहरं गुरु विशदं रोचनं रूक्षं स्वाद्वम्लं तुवरं रसे

श्लोक 81

करमर्दः सुषेणः स्यात्कृष्णपाकफलस्तथा तस्माल्लघुफला या तु सा ज्ञेया करमर्दिका

श्लोक 82

करमर्दद्वयं त्वाममम्लं गुरु तृषाहरम्
उष्णं रुचिकरं प्रोक्तं रक्तपित्तकफप्रदम्
तत्पक्वं मधुरं रुच्यं लघु पित्तसमीरजित्

श्लोक 83

प्रियालस्तु खरस्कन्धश्चारो बहुलवल्कलः राजादनस्तापसेष्टः सन्नकद्रुर्धनुष्पटः

श्लोक 84

चारः पित्तकफास्रघ्नस्तत्फलं मधुरं गुरु स्निग्धं सरं मरुत्पित्तदाहज्वरतृषाऽपहम्

श्लोक 85

प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः हृद्योऽतिदुर्जरः स्निग्धो विष्टम्भी चामवर्द्धनः

श्लोक 86

राजादनः फलाध्यक्षो राजन्या क्षीरिकाऽपि च

श्लोक 87

क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु तृष्णामूर्च्छामदभ्रान्तिक्षयदोषत्रयास्रजित्

श्लोक 88

विकङ्कतः स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः
स एव यक्षवृक्षश्च कण्टकी व्याघ्रपादपि
विकङ्कतफलं पक्वं मधुरं सर्वदोषजित्

श्लोक 89

पद्मबीजं तु पद्माक्षं गालोड्यं पद्मकर्कटी पद्मबीजं हिमं स्वादु कषायं तिक्तकं गुरु

श्लोक 90

विष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम् कफवातकरं बल्यं ग्राहि पित्तास्रदाहनुत्

श्लोक 91

मखान्नं पद्मबीजाभं पानीयफलमित्यपि मखान्नं पद्मबीजस्य गुणैस्तुल्यं विनिर्दिशेत्

श्लोक 92

शृङ्गाटकं जलफलं त्रिकोणफलमित्यपि

श्लोक 93

शृङ्गाटकं हिमं स्वादु गुरु वृष्यं कषायकम् ग्राही शुक्रानिलश्लेष्मप्रदं पित्तास्रदाहनुत्

श्लोक 94

उक्तं कुमुदबीजन्तु बुधैः कैरविणीफलम् भवेत्कुमुद्वतीबीजं स्वादु रूक्षं हिमं गुरु

श्लोक 95

मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः

श्लोक 96

मधूकपुष्पं मधुरं शीतलं गुरु बृंहणम् बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम्

श्लोक 97

फलं शीतं गुरु स्वादु शुक्रलं वातपित्तनुत् अहृद्यं हन्ति तृष्णाऽस्रदाहश्वासक्षतक्षयान्

श्लोक 98

परूषकं तु परुषमल्पास्थि च परापरम् परूषकं कषायाम्लमामं पित्तकरं लघु

श्लोक 99

तत्पक्वं मधुरं पाके शीतं विष्टम्भि बृंहणम् हृद्यन्तु पित्तदाहास्रज्वरक्षयसमीरहृत्

श्लोक 100

तूतस्तूलश्च पूगश्च क्रमुको ब्रह्मदारु च
तूतं पक्वं गुरु स्वादु हिमं पित्तानिलापहम्
तदेवामं गुरु सरमम्लोष्णं रक्तपित्तकृत्

श्लोक 101

दाडिमः करको दन्तबीजो लोहितपुष्पकः तत्फलं त्रिविधं स्वादु स्वाद्वम्लं केवलाम्लकम्

श्लोक 102

तत्तु स्वादु त्रिदोषघ्नं तृड्दाहज्वरनाशनम् हृत्कण्ठमुखगन्धघ्नं तर्पणं शुक्रलं लघु

श्लोक 103

कषायानुरसं ग्राहि स्निग्धं मेधाबलावहम्

श्लोक 104

स्वाद्वम्लं दीपनं रुच्यं किञ्चित्पित्तकरं लघु अम्लन्तु पित्तजनकमामं वातकफापहम्

श्लोक 105

अथ बहुवारः इ!लिसोडांइ! तस्य नामानि
बहुवारस्तु शीतः स्यादुद्दालो बहुवारकः
शेलुः श्लेष्मातकश्चापि पिच्छिलो भूतवृक्षकः

श्लोक 106

बहुवारो विषस्फोटव्रणवीसर्पकुष्ठनुत् मधुरस्तुवरस्तिक्तः केश्यश्च कफपित्तहृत्

श्लोक 107

फलमामन्तु विष्टम्भि रूक्षं पित्तकफास्रजित् तत्पक्वं मधुरं स्निग्धं श्लेष्मलं शीतलं गुरु

श्लोक 108

पयः प्रसादी कतकः कतकं तत्फलं च तत्
कतकस्य फलं नेत्र्! यं जलनिर्मलताकरम्
वातश्लेष्महरं शीतं मधुरं तुवरं गुरु

श्लोक 109

द्रा क्षास्वादुफला प्रोक्ता तथा मधुरसाऽपि च मृद्वीका हारहूरा च गोस्तनी चापि कीर्त्तिता

श्लोक 110

द्रा क्षा पक्वा सरा शीता चक्षुष्या बृंहणी गुरुः स्वादुपाकरसा स्वर्या तुवरा सृष्टमूत्रविट्

श्लोक 111

कोष्ठमारुतकृद् वृष्या कफपुष्टिरुचिप्रदा

श्लोक 112

हन्ति तृष्णाज्चरश्वासवातवातास्रकामलाः कृच्छ्रास्रपित्तसंमोहदाहशोषमदात्ययान्

श्लोक 113

आमा स्वल्पगुणा गुर्वी सैवाम्ला रक्तपित्तकृत् वृष्या स्याद् गोस्तनी द्रा क्षा गुर्वी च कफपित्तनुत्

श्लोक 114

अबीजाऽन्या स्वल्पतरा गोस्तनीसदृशी गुणैः
द्रा क्षा पर्वतजा लघ्वी साऽम्ला श्लेष्माम्लपित्तकृत्
द्रा क्षा पर्वतजा यादृक् तादृशी करमर्दिका

श्लोक 115

भूमिखर्जूरीका स्वाद्वी दुरारोहाः मृदुच्छदा तथा स्कन्धफला काककर्कटी स्वादुमस्तका

श्लोक 116

पिण्डखर्जूरिका त्वन्या सा देशे पश्चिमे भवेत् खर्जुरी गोस्तनाकारा परद्वीपादिहागता

श्लोक 117

जायते पश्चिमे देशे सा छोहारेति कीत्तर्यते खर्जूरीत्रितयं शीतं मधुरं रसपाकयोः

श्लोक 118

स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भशुक्रदम्

श्लोक 119

कोष्ठमारुतहृद् बल्यं वान्तिवातकफापहम् ज्वरातिसारक्षुत्तृष्णाकासश्वासनिवारकम्

श्लोक 120

मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत् महतीभ्यां गुणैरल्पास्वल्पखर्जूरिका स्मृता

श्लोक 121

खर्जूरीतरुतोयं तु मदपित्तकरं भवेत् वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत्

श्लोक 122

सुलेमानी तु मृदुला दलहीनफला च सा सुलेमानी श्रमभ्रान्तिदाहमूर्च्छाऽस्रपित्तहृत्

श्लोक 123

वातादौ वातवैरी स्यान्नेत्रोपमफलस्तथा वातादः उष्णः सुस्निग्धो वातघ्नः शुक्रकृद् गुरुः

श्लोक 124

वातादमज्जा मधुरो वृष्यः पित्तानिलापहः स्निग्धोष्णः कफकृन्नेष्टो रक्तपित्तविकारिणाम्

श्लोक 125

मुष्टिप्रमाणं बदरं सेवं सिवितिकाफलम्

श्लोक 126

सेवं समीरपित्तघ्नं बृंहणं कफकृद् गुरु रसे पाके च मधुरं शिशिरं रुचिशुक्रकृत्

श्लोक 127

अमृतफलं लघु वृष्यं सुस्वादु त्रीन्हरेद्दोषान् देशेषु मुद्गलानां-बहुलं तल्लभ्यते लोकैः

श्लोक 128

पीलुर्गुडफलः स्रंसी तथा शीतफलोऽपि च
पीलु श्लेष्मसमीरघ्नं पित्तलं भेदि गुल्मनुत्
स्वादु तिक्तञ्च यत्पीलु तन्नात्युष्णं त्रिदोषहृत्

श्लोक 129

पीलुः शैलभवोऽक्षोटः कर्परालश्च कीर्तितः अक्षोटकोपि वातादसदृशः कफपित्तकृत्

श्लोक 130

बीजपूरो मातुलुङ्गो रुचकः फलपूरकः बीजपूरफलं स्वादु रसेऽम्ल दीपनं लघु

श्लोक 131

रक्तपित्तहरं कण्ठजिह्वाहृदयशोधनम् श्वासकासारुचिहरं हृद्यं तृष्णाहरं स्मृतम्

श्लोक 132

बीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्कटी

श्लोक 133

मधुकर्कटिका स्वाद्वी रोचनी शीतला गुरुः रक्तपित्तक्षयश्वासकासहिक्काभ्रमापहा

श्लोक 134

स्याज्जम्बीरो दन्तशठो जम्भजम्भीरजम्भलाः जम्बीरमुष्णं गुर्वम्लं वातश्लेष्मविबन्धनुत्

श्लोक 135

शूलकासकफोत्क्लेशच्छर्दितृष्णाऽमदोषजित्
आस्यवैरस्यहृत्पीडावह्निमान्द्यक्रिमीन् हरेत्
स्वल्पजम्बीरिका तद्वत्तृष्णाच्छर्दिनिवारिणी

श्लोक 136

निम्बूः स्त्री निम्बुकं क्लीबे निम्बूकमपि कीर्त्तितम् निम्बूकमम्लं वातघ्नं दीपनं पाचनं लघु

श्लोक 137

निम्बुकं कृमिसमूहनाशनं तीक्ष्णमम्लमुदरग्रहापहम् वातपित्तकफशूलिने हितं कष्टनष्टरुचिरोचनं परम्

श्लोक 138

त्रिदोषवह्निक्षयवातरोगनिपीडितानां विषविह्वलानाम् मन्दानले बद्धगुदे प्रदेयं विषूचिकायां मुनयो वदन्ति

श्लोक 139

मिष्टनिम्बूफलं स्वादु गुरु मारुतपित्तनुत्

श्लोक 140

गलरोगविषध्वंसिकफोत्क्लेशि च रक्तहृत् शोषारुचितृषाच्छर्दिहरं बल्यञ्च बृंहणम्

श्लोक 141

कर्मरङ्गं शिरालं च बृहदम्लं रुजाकरम् कर्मरङ्गं हिमं ग्राहि स्वाद्वम्लं कफवातहृत्

श्लोक 142

अम्लिका चुक्रिकाऽम्ली च चुका दन्तशठाऽपि च अम्ला च चिञ्चिका चिञ्चा तिन्तिडीका च तिन्तिडी

श्लोक 143

अम्लिकाऽम्ला गुरुर्वातहरी पित्तकफास्रकृत् पक्वा तु दीपनी रूक्षा सरोष्णा कफवातनुत्

श्लोक 144

स्यादम्लवेतसश्चुक्रं शतवेधि सहस्रनुत् अम्लवेतसमत्यम्लं भेदनं लघु दीपनम्

श्लोक 145

हृद्रो गशूलगुल्मघ्नं पित्तलं लोमहर्षणम् रूक्षं विण्मूत्रदोषघ्नं प्लीहोदावर्त्तनाशनम्

श्लोक 146

हिक्काऽनाहारुचिश्वासकासाजीर्णवमिप्रणुत्
कफवातामयध्वंसिच्छागमांसद्र वत्वकृत्
चणकाम्लगुणं ज्ञेयं लोहसूचीद्र वत्वकृत्

श्लोक 147

वृक्षाम्लं तिन्तिडीकञ्चचुक्रं स्यादम्लवृक्षकम् वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम्

श्लोक 148

पक्वन्तु गुरु संग्राहि कटुकं तुवरं लघु

श्लोक 149

अम्लोष्णं रोचनं रूक्षं दीपनं कफवातकृत् तृष्णाऽशोग्रहणीगुल्मशूलहृद्रो गजन्तुजित्

श्लोक 150

अम्लवेतसवृक्षाम्लबृहज्जम्बीरनिम्बुकैः चतुरम्लं हि पञ्चाम्लं बीजपूरयुतैर्भवेत्

श्लोक 151

फलेषु परिपक्वं यद् गुणवत्तदुदाहृतम्
बिल्वादन्यत्र विज्ञेयमामं तद्धि गुणाधिकम्
फलेषु सरसं यत्स्याद् गुणवत्तदुदाहृतम्

श्लोक 152

द्रा क्षाबिल्वशिवाऽदीनां फलं शुष्कं गुणाधिकम् फलतुल्यगुणं सर्वं मज्जानमपि निर्दिशेत्

श्लोक 153

फलं हिमाग्निदुर्वातव्यालकीटादिदूषितम् अकालजं कुभूमीजं पाकातीतं न भक्षयेत्