श्लोक 1
अथ बाले समुत्पन्ने विदधीत विधिं तथा यथैव कुलवृद्धस्त्रीव्यवहारपरम्परा
श्लोक 2
प्रसूता हितमाहारं विहारं च समाचरेत् व्यायामं मैथुनं क्रोधं शीतसेवां विवर्जयेत्
श्लोक 3
मिथ्याचारात्सूतिकाया यो व्याधिरुपजायते स कृच्छ्रसाध्योऽसाध्यो वा भवेत्तत्पथ्यमाचरेत्
श्लोक 4
सर्वतः परिशुद्धा स्यात्स्निग्धपथ्याऽल्पभोजना स्वेदाभ्यङ्गपरा नित्यं भवेन्मासमतन्द्रि ता
श्लोक 5
प्रसूता सार्धमासान्ते दृष्टे वा पुनरार्त्तवे सूतिकानामहीना स्यादिति धन्वन्तरेर्मतम्
श्लोक 6
व्युपद्र वां विशुद्धां च विज्ञाय वरवर्णिनीम् ऊर्ध्वं चतुर्भ्यो मासेभ्यो नियमं परिहारयेत्
श्लोक 7
रसप्रसादो मधुरः पक्वाहारनिमित्तजः कृत्स्नाद्देहात्स्तनौ प्राप्तः स्तन्यमित्यभिधीयते
श्लोक 8
स्तन्यं त्रिरात्रात्स्त्रीणां वा चतूरात्रादनन्तरम् प्रवर्त्तयन्ति विवृता धमन्यो हृदये स्थिताः
श्लोक 9
पयः पुत्रस्य संस्पर्शाद्दर्शनात्स्मरणादपि ग्रहणादप्युरोजस्य शुक्रवत्सम्प्रवर्त्तते स्नेहो निरन्तरस्तस्य प्रवाहे हेतुरुच्यते
श्लोक 10
अवात्सल्याद्भयाच्छोकात्क्रोधादत्यपतर्पणात् स्त्रीणां स्तन्यं भवेत्स्वल्पं गर्भान्तरविधारणात्
श्लोक 11
शालिषष्टिकगोधूमान्मांसक्षुद्र झषानपि कालशाकमलाबूं च नारिकेलं कसेरुकम्
श्लोक 12
शृङ्गाटकं वरीं चापि विदारीकन्दमेव च लशुनं दुग्धवृद्धयै स्त्री सेवेत सुमना भवेत्
श्लोक 13
कलमस्य तण्डुलानां कल्कं या क्षीरपेषितं पिबति सा भवति भृशं तरुणी क्षीरभरेणैव तुङ्गकुचयुगला
श्लोक 14
कलमः कलिविख्यातो जायते स बृहद्ध्रदे काश्मीरदेश एवोक्तो महातण्डुलसंज्ञकः
श्लोक 15
विदारिकन्दस्य रसं पिबेत्स्तन्यस्य वृद्धये तच्चूर्णं तस्य वृर्द्ध्य्थं पिबेद्वा क्षीरसंयुतम्
श्लोक 16
धात्र्! या गुरुभिराहारैर्विहारैर्दोषलैस्तथा देहे दोषाः प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति
श्लोक 17
मिथ्याऽहारविहारिण्या दुष्टा वातादयः स्त्रियाः दूषयन्ति पयस्तेन शरीरं व्याधयः शिशोः
श्लोक 18
कषायं सलिलप्लावि स्तन्यं मारुतदूषितम् पित्तादम्लं च कटुकं राज्योऽम्भसि तु पीतिकाः
श्लोक 19
कफदुष्टं तु यत्तोये निमज्जति च पिच्छिलम् द्वन्द्वजं तु द्विलिङ्गं स्यात्त्रिलिङ्गं सान्निपातिकम्
श्लोक 20
धात्री क्षीरविशुर्द्ध्य्थं मुद्गयूषरसाशिनी भार्ङ्गीदारुवचाः पिष्ट्वा पिबेत्साऽतिविषास्तथा
श्लोक 21
पाठामूर्वाऽब्दभूनिम्बदारुशुण्ठीकलिङ्गकैः सारिवामत्स्यपित्ताऽख्यै क्वाथः स्तन्यविशोधनः
श्लोक 22
पटोलनिम्बासनदारुपाठा मूर्वां गुडूचीं कटुरोहिणीं च सनागरां च क्वथितां च तोये धात्री पिबेत्स्तन्यविशुद्धिहेतोः
श्लोक 23
नीरे स्यन्यं यदेकि स्वादविवर्णमतन्तुमत् पाण्डुरं तनु शीतं च तद्दुग्धं शुंद्धमादिशेत्
श्लोक 24
पीताय यदि बालस्य विदध्यादुपमातरम् सुविचार्य गुणान्दोषान्कुर्याद्धात्रीं तदेदृशीम्
श्लोक 25
सवर्णां मध्यवयसां सच्छीलां मुदितां सदा शुद्धदुग्धां बहुक्षीरां सवत्सामतिवत्सलाम्
श्लोक 26
स्वाधीनामल्पसन्तुष्टां कुलीनां सज्जनात्मजाम् कैतवेन परित्यक्तां निजपुत्रशदृशं शिशौ
श्लोक 27
शोकाकुलाक्षु धार्ता च श्रान्ता व्याधिमती सदा अत्युच्चा नितरां नीचा स्थूलातीव भृशं कृशा
श्लोक 28
गर्भिणी ज्वरिणी चापि लम्बोन्नतपयोधरा अजीर्णभोजिनी चापि तथा पथ्यविवर्जिता
श्लोक 29
आसक्ता क्षुद्र कार्येषु दुःखार्ता चञ्चलाऽपि च एतासां स्तन्यपानेन शिशुर्भवति सामयः
श्लोक 30
तत्र माता प्रशस्ताङ्गी चारुवस्त्रा पुरोमुखी उपविश्यासने सम्यग्दक्षिणं स्तनमम्बुना
श्लोक 31
प्रक्षाल्येषत्परिस्राव्य मन्त्राभ्यामभिमन्त्रितम् उदङ्मुखं शिशुं क्रोडे शनैः सन्धाय पाययेत्
श्लोक 32
अस्रावितं स्तनं बालः पिबन्स्तन्येन भूयसा
पूर्णस्रोता वमीकासश्वासैर्भवति पीडितः
श्लोक 33
क्षीरनीरनिधिस्तेऽस्तु स्तनयोः क्षीरपूरकः सदैव सुभगो बालो भवत्वेष महाबलः
श्लोक 34
पयोऽमृतसमं पीत्वा कुमारस्ते शुभानने दीर्घमायुरवाप्नोतु देवाः प्राप्यामृतं यथा
श्लोक 35
क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा दद्यादास्तन्यपर्याप्तेर्बालेभ्यो वीक्ष्य मात्रया
श्लोक 36
यथोक्तविधिना बालं मासि षष्ठेऽष्टमेऽपि च अन्नं सम्प्राशयेत्किञ्चित्ततस्तद्वर्धयेत्क्रमात्
श्लोक 37
बालमङ्के सुखं दध्यान्न चैनं तर्जयेत्क्वचित् सहसा बोधये न्नैव नायोग्यमुपवेशयेत्
श्लोक 38
नाकृष्य स्थापयेत्क्रोडे न क्षिप्रं शयने क्षिपेत् रोदयेन्न क्वचित्कार्ये विधिमावश्यकं विना
श्लोक 39
तच्चित्तमनुवर्त्तेत तं सदैवानुमोदयेत् विआ!तातपतडिद्वृष्टिधूमानलजलादितः निम्नोच्चस्थानतश्चापि रक्षेद्बालं प्रयत्नतः
श्लोक 40
अभ्यङ्गोद्वर्त्तन स्नानं नेत्रयोरञ्जनं तथा वसनं मृदु यत्तच्च तथा मृद्वनुलेपनम् जन्मप्रभृति पथ्यानि बालस्यैतानि सर्वथा
श्लोक 41
कवलः पञ्चमाद्वर्षादष्टमान्नस्यकर्म च विरेकः षोडशाद्वर्षाद्विंशतेश्चैव मैथुनम्
श्लोक 42
वयस्तु त्रिविधं बाल्यं मध्यमं वार्धकं तथा ऊनषोडशवर्षस्तु नरो बालो निगद्यते
श्लोक 43
त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशी तथाऽन्नभुक् दुग्धाशी वर्षपर्यन्तं दुग्धान्नाशी शरद्द्वयम्
श्लोक 44
तदुत्तरं स्यादन्नाशी एवं बालस्त्रिधा मतः मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः
श्लोक 45
चतुर्धा मध्यमं वृद्धियुवपूर्णक्षयान्वितम् भवेदाविंशतेर्वृद्धिर्युवा त्वान्त्रिंशतो मतः
श्लोक 46
चत्वारिंशत्समा यावत्तिष्ठेद्वीर्यादिपूरितः ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः
श्लोक 47
ततस्तु सप्ततेरूर्ध्वं क्षीणधातुरसादिकः क्षीयमाणेन्द्रि यबलः क्षीणरेता दिने दिने
श्लोक 48
बलीपलितखालित्ययुक्तः कर्मसु चाक्षमः कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः
श्लोक 49
बाल्ये विवर्धते श्लेष्मा पित्तं स्यान्मध्यमेऽधिकम् वार्धके वर्द्धते वायुर्विचार्यैतदुपक्रमेत्
श्लोक 50
बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ बुद्धिः कर्मेन्द्रि यं चेतो जीवितं दशतो ह्रसेत्
श्लोक 51
सप्त प्रकृतयो नॄणां वातात्पित्तात्कफात्तथा संसर्गात्सन्निपाताच्च भवन्ति भिषजां मते
श्लोक 52
शुक्रशोणितसंयोगे यो दोषस्तूत्कटो भवेत् प्रकृतिर्जायते तेन तस्या लक्षणमुच्यते
श्लोक 53
शुक्रासृग्गर्भिणीभोज्यचेष्टागर्भाशयार्त्तिषु यः स्याद्दोषोऽधिकस्तेन प्रकृतिः सप्तधोदिता
श्लोक 54
जागरूकोऽल्पकेशश्च स्फुटितांघ्रिकरः कृशः शीघ्रगो बहुवाग्रूक्षः स्वप्ने वियति गच्छति एवंविधः स विज्ञेयो वातप्रकृतिको नरः
श्लोक 55
पित्तप्रकृतिको लोको यादृशोऽथ निगद्यते अकालपलितो गौरः क्रोधी स्वेदी च बुद्धिमान्
श्लोक 56
बहुभुक्ताम्रनेत्रश्च स्वप्ने ज्योतींषि पश्यति एवंविधो भवेद्यस्तु पित्तप्रकृतिको नरः
श्लोक 57
श्यामकेशः क्षमी स्थूलो बहुवीर्यो महाबलः स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः
श्लोक 58
दृश्यते प्रकृतौ यत्र रूपं दोषद्वयस्य तु द्विसंसर्गेण जानीयात्सर्वलिङ्गैस्त्रिदोषजम्
श्लोक 59
विभुत्वादाशुकारित्वाद्वलित्वादन्यकोपनात् स्वातन्त्र्! याद्बहुरोगत्वाद्दोषाणां प्रबलोऽनिलः
श्लोक 60
प्रायोऽत एव पवनाध्युषिता मनुष्या दोषात्मकाः स्फुटितधूसरकेशगात्राः शीतद्विषश्चलधृतिस्मृतिबुद्धिचेष्टासौहार्ददृष्टिगतयोऽतिबहुप्रलापाः
श्लोक 61
अल्पपित्तबलजीवितनिद्रा ! सन्नसक्तचलजर्जरवाचः नास्तिका बहुभुजः सविलासा गीतहास्यमृगयाकलिलोलाः
श्लोक 62
मधुराम्लपटूष्णसात्म्यकांक्षाः कृशदीर्घाकृतयः सशब्दयाताः न दृढा न जितेन्द्रि या न चार्या न च कान्तादयिता बहुप्रजा वा
श्लोक 63
नेत्राणि चैषां खरधूसराणि वृत्तान्यचारूणि मृतोपमानि उन्मीलितानीव भवन्ति सुप्ते शैलद्रुमांस्ते गगनं च यान्ति
श्लोक 64
अधन्या मत्सराध्माताः स्तेना प्रोद्बद्धपिण्डिकाः श्वशृगालोष्ट्रगृध्राखुकाकानूकाश्च वातिकाः
श्लोक 65
पित्तं वह्निर्वह्निजं वा यदस्मात्पित्तोद्रि क्तस्तीक्ष्णतृष्णाबुभुक्षः गौरोष्णाङ्गस्ताम्रहस्ताङ्घ्रिवक्त्रः शूरो मानी पिङ्गकेशोऽल्परोमा
श्लोक 66
दयितमाल्यविलेपनमण्डनः सुचरितः शुचिराश्रितवत्सलः विभवसाहसबुद्धिबलान्वितो भवति भीषु गतिर्द्विषतामपि
श्लोक 67
मेधावी प्रशिथिलसन्धिबन्धमांसो नारीणामनभिमतोऽल्पशुक्रकामः आवासः पलिततरंगनीलिकानां भुक्तान्नं मधुरकषायतिक्तशीतम्
श्लोक 68
धर्मद्वेषी स्वेदनः पूतिगन्धिर्भूर्युच्चारक्रोधपानाशनेर्ष्यः सुप्तं पश्येत्कर्णिकारान् पलाशान् दिग्दाहोल्काविद्युदर्कानलांश्च
श्लोक 69
तनूनि पिङ्गानि चलानि चैषां तन्वल्पपक्ष्माणि हिमप्रियाणि क्रोधेन मद्येन रवेश्च भासा रागं व्रजन्त्याशु विलोचनानि
श्लोक 70
मध्यायुषो मध्यबलाः पण्डिताः क्लेशभीरवः व्याघ्रर्क्षकपिमार्जारवृकानूकाश्च पैत्तिकाः
श्लोक 71
श्लेष्मा सोमं श्लेष्मलस्तेन सौम्यो गूढस्निग्धश्लिष्टसन्ध्यस्थिमांसः क्षुत्तृड्दुःखक्लेशधर्मैरतप्तो बुद्ध्या युक्तः सात्त्विकः सत्यसन्धः
श्लोक 72
प्रियंगुदूर्वाशरकाण्डदर्भगोरोचनापद्मसुवर्णवर्णः प्रलम्बबाहुः पृथुपीनवक्षा महाललाटो घननीलकेशः
श्लोक 73
मृद्वङ्गः समसुविभक्तचारुदेहो बह्वोजोरतिरसशुक्रपुत्रभृत्यः धर्मात्मा वदति न निष्ठुरं च जातु प्रच्छन्नं वहति दृढं चिरं च वैरम्
श्लोक 74
समदद्विरदेन्द्र तुल्ययातो जलदाम्भोधिमृदङ्गसिंहघोषः स्मृतिमानभियोगवान्विनीतो न च बाल्येऽप्यतिरोदनो न लोलः
श्लोक 75
तिक्तं कषायं कटुकोष्णरूक्षमल्पं स भुंक्ते बलवांस्तथाऽपि रक्तान्तसुस्निग्धविशालदीर्घसुव्यक्तशुक्लासितपक्ष्मलाक्षः
श्लोक 76
अल्पव्याहारक्रोधपानाशनेर्ष्यः प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः श्राद्धो गम्भीरः स्थूललक्ष्यः क्षमावानार्योनिद्रा लुर्दीर्घसूत्रः कृतज्ञः
श्लोक 77
ऋजुर्विपश्चित्सुभगः सलज्जो भक्तो गुरूणां स्थिरसौहृदश्च स्वप्ने सपद्मान्सविहङ्गमालांस्तोयाशयान्पश्यति तोयदांश्च
श्लोक 78
ब्रह्मरुद्रे न्द्र वरुणतार्क्ष्यहंसगजाधिपैः श्लेष्मप्रकृतयस्तुल्यास्तथा सिंहाश्वगोवृषैः
श्लोक 79
विषजातो यथा कीटो न विषेण प्रबाध्यते तद्वत्प्रकृतयो मर्त्यं शक्नुवन्ति न बाधितुम्
श्लोक 80
प्रकोपो वाऽन्यभावो वा शमो वा नोपजायते प्रकृतीनां स्वभावेन जायते तु गतायुषः