भावप्रकाशः/पूर्वखण्डे प्रकरण‌ 3 contd.

श्लोक 174

मूत्रञ्चोपस्थमार्गेण पुरीषं गुदमार्गतः अपानवायुना क्षिप्तं बहिर्याति शररीतः

श्लोक 175

रसस्तु हृदयं याति समानमरुतेरितः स तु व्यानेन विक्षिप्तः सर्वान् धातून् विवर्द्धयेत्

श्लोक 176

केदारेषु यथा कुल्याः पुष्णन्ति विविधौषधीः तथा कलेवरे धातून् सर्वान् वर्द्धयते रसः

श्लोक 177

स्थूलः सूक्ष्मस्तन्मलश्च तत्र तत्र त्रिधा रसः स्वं स्थूलॐऽश परं सूक्ष्मस्तन्मलो याति तन्मलम्

श्लोक 178

धातौ रसादौ मज्जान्ते प्रत्येकं क्रमतो रसः अहोरात्रात्स्वयं पञ्च सार्द्धदण्डं च तिष्ठति

श्लोक 179

स्वाग्निभिः पच्यमानेषु मज्जान्तेषु रसादिषु षट्सु धातुषु जायन्ते मलानि मुनयो जगुः

श्लोक 180

यथा सहस्रधा ध्माते न मलं किल काञ्चने तथा रसे मुहुः पक्वे न मलं शुक्रताङ्गते

श्लोक 181

ओजः सर्वशरीरस्थं स्निग्धं शीतं स्थिरं सितम् सोमात्मकं शरीरस्य बलपुष्टिकरं मतम्

श्लोक 182

गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरं तथा प्रसन्नं पिच्छिलं सूक्ष्ममोजो दशगुणं स्मृतम्

श्लोक 183

अष्टविन्दुप्रमाणं तदीषद्र क्तं सपीतकम् अग्नीषोमात्मकत्वेन द्विरूपं वर्णितन्तु तत्

श्लोक 184

ओजश्च तेजो धातूनां शुक्रान्तानां परं स्मृतम् हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम्

श्लोक 185

यस्य प्रवृद्धौ देहस्य तुष्टिपुष्टिबलोदयाः यन्नाशे नियतो नाशो यस्मिंस्तिष्ठति जीवनम्

श्लोक 186

निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः उत्साहप्रतिभाधैर्यलावण्यसुकुमारताः

श्लोक 187

ततः स्थूलो भागो रसो मासेन पुंसां शुक्रं स्त्रीणान्त्वार्त्तवं शुक्रञ्च भवति उक्तञ्च सुश्रुते एवं मासेन रसः शुक्रो भवति स्त्रीणामार्त्तवञ्चेति चकारात् स्त्रीणामपि शुक्रं भवति अत एवोक्तं सुश्रुते योषितोऽपि स्रवत्येव शुक्रं पुंसः समागमे तत्र गर्भस्य किञ्चित्तुन करोतीति न चिन्त्यते

श्लोक 188

स्त्रीणां गर्भोपयोगि स्यादार्त्तवं सर्वसम्मतम् तासामपि बलं वर्णं शुक्रं पुष्टिं करोति हि

श्लोक 189

रसाद्र क्तं ततो मांसं मांसान्मेदः प्रजायते मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः

श्लोक 190

रसः शरीरे शब्दार्च्चिर्जलसन्तानवत् त्रिधा सञ्चरत्यनुरूपोऽय नित्यमेव हि देहिनाम्

श्लोक 191

वाजीकरिण्य ओषध्यः स्वप्रभावगुणोच्छ्रयात् विरेचयन्ति ताः शुक्रं विरेकिद्र व्यवन्नृणाम्

श्लोक 192

दुग्धं माषाश्च भल्लात फलमज्जामलानि च जनकानि निगद्यन्ते रेचनानि च रेतसः

श्लोक 193

बालानां शुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते

श्लोक 194

तेषां तदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा

श्लोक 195

रोमराज्यादयः पुंसां नारीणामपि यौवने जायतेऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स च

श्लोक 196

वार्द्धके वर्द्धमानेन वायुना रसशोषणात् न तथा धातुवृद्धिः स्यात्ततस्तत्रानिलं जयेत्

श्लोक 197

शुक्रं सौम्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम् गर्भबीजं वपुःसारो जीवस्याश्रय उत्तमः

श्लोक 198

जीवो वसति सर्वस्मिन्देहे तत्र विशेषतः वीर्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणात्

श्लोक 199

स्फटिकाभं द्र वं स्निग्धं मधुरं मधुगन्धि च शुक्रमिच्छन्ति केचित्तु तैलक्षौद्र निभञ्च तत्

श्लोक 200

यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा एवं हि सकले काये शुक्रं तिष्ठति देहिनाम्

श्लोक 201

द्व्यङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्त्तते

श्लोक 202

कृत्स्नदेहस्थितं शुक्रं प्रसन्नमनसस्तथा स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्त्तते

श्लोक 203

शुक्रं कामेन कामिन्या दर्शनात् स्पर्शनादपि शब्दसंश्रवणाद्ध्य्नाआ!त् संयोगाच्च प्रवर्त्तते

श्लोक 204

रसादेव रजः स्त्रीणां मासि मासि त्र्! यहं स्रवेत् तद्वर्षाद् द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम्

श्लोक 205

मासेनोपचितं काले धमनीभ्यस्तदार्त्तवम् ईषद्विवर्णं कृष्णञ्च वायुर्योनिमुखं नयेत्

श्लोक 206

शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम् तदार्त्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत्

श्लोक 207

अतिरिक्ता गुणा रक्ते बह्नेर्मांसे तु पार्थिवाः मेदस्यपां भुवश्चास्थ्नि पृथिव्यनिलतेजसाम्

श्लोक 208

मज्ज्ञि शुक्रे च सोमस्य मूत्रे च शिखिनोगुणाः भुवस्तथाऽत्तवे त्वग्ने रसे क्षीरे तथाऽम्भसः

श्लोक 209

कफः पित्तं मलः खेषु प्रस्वेदो नखलोम च नेत्रविट्त्वक्षु च स्नेहो धातूनां क्रमशो मलाः

श्लोक 210

वनितानां प्रसूतानां धमनीभ्यां स्तनौ गतात् रसादेव हि जायेत स्तन्यं स्तनयुगाशयम्

श्लोक 211

शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्त्तिता मेदसस्ताप्यमानस्य स्नेहो वा कथिता वसा

श्लोक 212

स्तन्यं रजो वसा स्वेदो दन्ताः केशास्तथैव च ओजश्च सप्तधातूनां क्रमात् सप्तोपधातवः

श्लोक 213

उरोरक्ताशयस्तस्मादधः श्लेष्माशयः स्मृतः आमाशयस्तु तदधस्तल्लिङ्गं चरकोऽवदत्

श्लोक 214

आमाशयादधः पक्वाशयादूर्ध्वन्तु या कला ग्रहणी नामिका सैव कथितः पाचकाशयः

श्लोक 215

ऊर्ध्वमग्न्याशयो नाभेर्मध्यभागे व्यवस्थितः तस्योपरि तिलं ज्ञेयं तदधः पवनाशयः

श्लोक 216

पक्वाशयस्तुतदधः स एव तु मलाशयः तदधः कथितो वस्तिः स हि मूत्राशयो मतः

श्लोक 217

कफाऽमपित्तवातानामाशया मलमूत्रयोः पुरुषेभ्योऽधिकाश्चान्ये नारीणामाशयास्त्रयः

श्लोक 218

धरा गर्भाशयः प्रोक्तः पित्तपक्वाशयान्तरे
स्तनौ प्रवृद्धौ तावेव बुधैः स्तन्याशयौ मतौ

श्लोक 219

स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान्विदुः

श्लोक 220

धात्वाशयान्तरे धातोर्यः क्लेदस्त्वधितिष्ठति देहोष्मणाऽभिपक्वश्च सा कलेत्यभिधीयते

श्लोक 221

आद्या मांसधरा प्रोक्ता द्वितीया रक्तधारिणी मेदोधरा तृतीया तु चतुर्थी श्लेष्मधारिणी

श्लोक 222

पञ्चमी तु मलं धत्ते षष्ठी पित्तधरा मता रेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः

श्लोक 223

सन्निपातः शिरास्नायुसन्धिमांसास्थिसम्भवः मर्माणि तेषु तिष्ठन्ति प्राणाः खलु विशेषतः

श्लोक 224

सप्तोत्तरशतं सन्ति देहे मर्माणि देहिनाम्
तान्येकादश मांसे स्युरष्टावस्थिषु सन्ति हि

श्लोक 225

सन्धीनां विंशतिस्तानि स्नायूनां सप्तविंशतिः चत्वारिंशतत्तथैकञ्च शिरामर्माणि तत्र तु

श्लोक 226

द्वाविंशतिः सक्थियुगे तावत्येव भुजद्वये द्वादशोरसि कुक्षौ च पृष्ठदेशे चतुर्दश

श्लोक 227

ग्रीवायामूर्ध्वभागे तु सप्तत्रिंशन्मतानि हि मर्माणि तानि सन्तीह पञ्चधा च भवन्ति हि

श्लोक 228

सद्यः प्राणहराणि स्युर्मर्माण्येकोनविंशतिः मर्मदेशास्त्रयस्त्रिंशत् स्युः कालान्तरमारकाः

श्लोक 229

चत्वारिंशच्च चत्वारि वैकल्यं जनयन्ति हि मर्माष्टकं रुजाकारि विशल्यघ्नं त्रिकं मतम्

श्लोक 230

शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठशिरा गुदम् हृदयं वस्तिनाभी च सद्यो घ्नन्ति हतानि चेत्

श्लोक 231

वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्र वस्तयः वृहत्यौ पार्श्वयोः सन्धी कटीकतरुणे च ये नितम्बाविति चैतानि कालान्तरहराणि तु

श्लोक 232

लोहिताक्षाणिजानूर्वी कूर्चा विटपकूर्पराः कुकुन्दरे कक्षधरे विधुरे सकृकाटिके

श्लोक 233

अंसांसफलकापाङ्गा नीले मन्ये फणे तथा वैकल्यकरणान्याहुरावर्त्तौ द्वौ तथैव च

श्लोक 234

गुल्फौ द्वौ मणिबन्धौ द्वौ तथा कूर्चशिरांसि च रुजाकराणि जानीयादष्टावेतानि बुद्धिमान्

श्लोक 235

उत्क्षेपौ स्थपनी चैव विशल्यघ्नं त्रिकम्मतम्

श्लोक 236

सप्तरात्रान्तरे हन्युः सद्यः प्राणहराणि हि कालान्तरप्राणहरं पक्षे मासे च मारकम्

श्लोक 237

सद्यः प्राणहरञ्चान्ते विद्धं कालेन मारयेत् कालान्तरप्राणहरमन्ते विद्धन्तु दुःखदम्

श्लोक 238

मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम् प्रायेण ते कृच्छ्रतमा भवन्ति वैद्येन यत्नैरपि साध्यमानाः

श्लोक 239

अथ सन्धयः ते द्विविधाश्चेष्टावन्तः स्थिराश्च शाखासु हन्वोः कट्याञ्च चेष्टावन्तो भवन्ति हि शेषास्तु सन्धयः सर्वे स्थिरास्तज्ज्ञैरुदाहृताः

श्लोक 240

कथिता देहिनां देहे सन्धयो द्वे शते दश शाखासु तेऽष्टषष्टिश्च कोष्ठे त्वेकोनषष्टिका

श्लोक 241

ग्रीवाया ऊर्ध्वदेशे तु त्र्! यशीतिस्ते प्रकीर्त्तिताः प्रथमं परिगण्यन्ते तेषु शाखागता इह

श्लोक 242

कोरोदूखलसामुद्गाः प्रतरस्तूणसेवनी काकतुण्डं मण्डलञ्च शङ्खावर्त्तोऽष्टसन्धयः

श्लोक 243

अस्थ्नां तु सन्धयो ह्येते केवलाः समुदाहृताः पेशीस्नायु शिराणान्तु सन्धिसंख्या न विद्यते

श्लोक 244

सन्धिबन्धनकारिण्यो दोषधातुवहाः शिराः नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः

श्लोक 245

शरीरं सकलञ्चैतच्छिराभिः पोष्यते सदा प्रणालीभिरिवारामाः कुल्याभिः क्षेत्रधान्यवत्

श्लोक 246

प्रसारणाकुञ्चनादिक्रियाभिः सततं तनौ शिरा एवोपकुर्वन्ति ताः स्युः सप्तशतानि तु

श्लोक 247

यथा द्रुमदले साक्षाद् दृश्यन्ते प्रतताः शिराः तथैव दैहिनो देहे वर्त्तन्ते सकले शिराः

श्लोक 248

नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिरुपाश्रिता शिराभिरावृता नाभिश्चक्रनाभिरिवारकैः

श्लोक 249

क्रियाणामप्रतीघातममोहं बुद्धिकर्मणाम् करोत्यन्यान् गुणांश्चापि स्वाः शिराः पवनश्चरन्

श्लोक 250

यदा तु कुपितो वायुः स्वाः शिराः प्रतिपद्यते तदाऽस्य विविधा रोगा जायन्ते वातसम्भवाः

श्लोक 251

भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम् करोत्यन्यान् गुणांश्चापि पित्तमात्मशिराश्चरद्

श्लोक 252

यदा तु कुपितं पित्तं सेवते स्ववहाः शिराः तदाऽस्यविविधा रोगा जायन्ते पित्तसम्भवाः

श्लोक 253

स्नेहमङ्गेषु सन्धीनां स्थैर्यं बलमरोगाताम् करोत्यन्यान् गुणांश्चापि वलासःस्वाःशिराश्चरन्

श्लोक 254

यदा तु कुपितः श्लेष्मा स्वाः शिराः प्रतिपद्यते तदाऽस्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः

श्लोक 255

धातूनां पूरणं वर्णस्पर्शज्ञानमसंशयम् स्वशिरासु चरद्र क्तं कुर्याच्चान्यान् गुणानपि

श्लोक 256

यदा तु कुपितं रक्तं सेवते स्ववहाः शिराः तदाऽस्य विविधा रोगा जायन्ते रक्तसम्भवाः

श्लोक 257

तत्रारुणा वातवहाः पूर्यन्ते वायुना शिराः पित्तादुष्णाश्च नीलाश्च शीता गौर्यः स्थिराः कफात् असृग्धरास्तु ता रक्ताः स्युश्च नात्युष्णशीतलाः

श्लोक 258

मेदसः स्नेहमादाय शिरा स्नायुत्वमाप्नुयात् शिराणां हि मृदुः पाकः स्नायूनान्तु ततः खरः

श्लोक 259

स्नायवो बन्धनानिस्युर्देहमांसास्थिमेदसाम् सन्धीनामपि यत्तास्तु शिराभ्यः सुदृढाः स्मृताः

श्लोक 260

नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता नियुक्ताऽगाधसलिले भवेद्भारसहा भृशम्