अष्टाङ्गसंग्रहः उत्तरस्थानम्  50 contd.

श्लोक 142

कथं वा सर्वएवैते योगा रागाग्निदीपनाः।
क्लिष्टसङ्कल्पजननाः प्रोक्ताः संसारवर्द्धनाः॥

श्लोक 143

त्रिकालदर्शिभिर्दिव्यैः सत्वदोषषिवर्जितैः।
पूर्वाचार्यैः कृतं वर्त्म को लङ्घयित्मुमर्हति॥

श्लोक 144

प्रक्रान्ते सर्वथा सर्वमुक्तं भवति सूदितम्।
नाहि लेशाभिधानेन लभ्यः सर्वार्थसङ्ग्रहः॥

श्लोक 145

तथा च गर्दभीक्षीरं मांसमश्वस्य हस्तिनाम्।
मद्दासागरतोयं च प्रोक्तं निरुपयोग्यपि॥

श्लोक 146

अद्यत्वेऽपि विशेषेण भूरितन्त्रार्थसङ्ग्रहात्।
सङ्ग्रहाद्यन्नबुध्येत तज्ज्ञानमतिदुर्लभम्॥

श्लोक 147

यथा प्रतिज्ञातमिति क्रमेण वेदोयमष्टाङ्गनिधेर्निबद्धः।
अभ्यस्यतो मार्गमिवार्यसत्यं सञ्जायते स्वार्थपरार्थसिद्धिः॥

श्लोक 148

पितामहमुखोद्गीर्णमित्यायुर्वेदवाङ्मयम्।
जीवितारोग्यधर्मार्थसुखगौरवकीर्त्तिकृत्॥

श्लोक 149

अलङ्कृतं युक्तिपदैः सद्रत्नैरिव काञ्चनम्।
षट्त्रिंशतार्थदुर्गेषु भिषजां सङ्क्रमैरिव॥

श्लोक 150

तत्राधिकरणं योगो हेत्वर्थोर्थः पदस्य च।
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्॥

श्लोक 151

उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः।
प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः॥

श्लोक 152

पूर्वपक्षविधानानुमतव्याख्यानसंशयाः।
अतीतानागतापेक्षा स्वसंज्ञोह्य समुच्चयाः॥

श्लोक 153

निदर्शनं निर्वचनं नियोगोऽथ विकल्पनम्।
प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः॥

श्लोक 154

सरसः सुप्तपद्मस्य रविदीधितयो यथा।
यथा गृहस्य दीपाभास्तथा तन्त्रस्य युक्तयः॥

श्लोक 155

अधीयानोऽपि तन्त्राणि तन्त्रयुक्त्यविचक्षणः।
नाधिगच्छति तन्त्रार्थमर्थं भाग्यक्षये यथा॥

श्लोक 156

वाक्यार्थयोजनोदता युक्तयस्त्विष्टसिद्धिदाः।
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधकाः॥

श्लोक 157

लीनव्यत्यासलेशोक्तिगदितानां प्रकाशकाः।
वाक्यन्यायोदधेः सारं गृहीत्वैवं व्यवस्थिताः॥

श्लोक 158

एतदागमसिद्धत्वात् प्रत्यक्षफलदर्शनात्।
प्रयोज्यं मन्त्रवत्तन्त्रं तन्त्रज्ञानविशारदैः॥

श्लोक 159

पित्तामहेन लोकस्य स्मृत्वा तदिदमव्ययम्।
अकालमृत्युरक्षार्थमलौहं वर्म निर्मितम्॥

श्लोक 160

सुज्ञातमेतदमृतं स्वस्थास्वस्थसुखास्पदम्।
यथेप्सितफलाशेषपुरुषार्थप्रसाधनम्॥

श्लोक 161

इदं शास्त्रमदृष्टीनामेवमालोककार्यपि।
मण्डलं भास्करस्येव न प्रकाशाय जायते॥

श्लोक 162

ध्रुवं वैद्येषु कल्याणमायुर्वेदानुसारिषु।
इतरेष्वितरच्छत्रविषज्वलनकर्मसु॥

श्लोक 163

कुर्यात् प्रयुक्तं शस्त्रादि सशेषमपि रोगिणम्।
न त्वेवं भेषजं मोहादनालोचितयोजितम्॥

श्लोक 164

सदा दोषौषधादीनि वीक्ष्य द्वादश तत्वतः।
कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलैः॥

श्लोक 165

मात्रादि सम्यगज्ञात्वा यदृच्छाप्रतिपादितः।
हिनस्ति व्याधितं योगो घृतमाक्षिकयोरिव॥

श्लोक 166

दृष्ट्वा विषेष्यमृततां घृतादौ मारणात्मताम्।
शास्त्रतत्वं न विज्ञाय स दुरात्मा चिकित्सति॥

श्लोक 167

सुगीतश्चैष कस्यापि महाश्लोको महात्मनः।
वैद्याश्चाश्रुतशास्त्रार्था मूर्खाश्च प्रभाविष्णवः।
अकालमृत्यवो ह्येते विचरन्ति महीतले॥

श्लोक 168

लोभयन्त्यातुरं मूढा ये चित्रैः कर्मकौशलैः।
तेभ्यो रक्षेत्सदात्मानमात्मा यस्मात् सुदुर्लभः॥

श्लोक 169

ते ध्रुणाक्षरवत्कञ्चिदुत्तार्य नियतायुषम्।
घ्नन्ति वैद्याभिमानेन शतान्यनियतायुषाम्॥

श्लोक 170

रोगार्तस्य विषण्णस्य यत्नलभ्यसुखायुषः।
अवैद्यो निर्घृणःक्रूरो यः करोति भिषग्जितम्॥

श्लोक 171

पापस्य मृत्युदूतस्य दुर्मतेस्त्यक्तधर्मणः।
नरो नरकपाती स्यात्तस्य सम्भाषणादपि॥

श्लोक 172

अतन्त्रीकृततन्त्रार्थः शास्त्रमात्रोपजीविनः।
राज्ञां प्रमादाद्राष्ट्राणि चरन्ति व्याधवृत्तयः॥

श्लोक 173

तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान्।
सेवेत शमविज्ञानज्ञानपूर्णान् भिषक्तमान्॥

श्लोक 174

अन्नपानानि पथ्यानि व्याधिनिर्घातमौषधम्।
रसायनानि वृष्याणि प्राप्यन्ते वैद्यसंश्रयात्॥

श्लोक 175

अराजका यथा देशा भर्तृहीना यथा गृहाः।
आतुराद्यास्तथा पादाः शोच्या वैद्यानधिष्ठिताः॥

श्लोक 176

प्राणाचार्यं बुधस्तस्माद्दयालुं विजितेन्द्रियम्।
अश्विनाविव देवेन्द्रः पूजयेदादृतः सदा॥

श्लोक 177

यज्ञस्य हि शिरश्छिन्नमश्विभ्यां सन्धितं पुनः।
पातिता दशनाः पूष्णो भगस्य च विलोचने॥

श्लोक 178

राजयक्ष्मार्दितश्चन्द्रस्ताभ्यामेव चिकित्सितः।
सोमान्निपतितो वज्री भुजस्तम्भे च दारुणे॥

श्लोक 179

भार्गवश्चवनः कामी वृद्धः सन् विकृतिं गतः।
वीर्यवर्णबलोपेतः कृतस्ताभ्यां पुनर्युवा॥

श्लोक 180

एभिश्चान्यैश्च बहुभिः कर्माभीर्भिषगुत्तमौ।
बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम्॥

श्लोक 181

अश्विभ्यां सहितः सोमं प्रातः पिबति वासवः।
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते॥

श्लोक 182

अश्विनोः कल्प्यते भागो यज्ञेषु ब्राह्मणैरपि।
अश्विनावग्निरिन्द्रश्च वेदेषु सुतरां स्तुताः॥

श्लोक 183

वैद्यवित्यश्विनौ तस्मात् पूज्येते विबुधैरपि।
अजरैरमरैर्नित्यं सुखितैरेवमादृतैः॥

श्लोक 184

व्याधिमृत्युजराग्रस्तैर्दुःखप्रायैः सुखार्थिभिः।
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः॥

श्लोक 185

शीलवान् मतिमान् युक्तो द्विजातिर्वेदपारगः।
प्राणिभिः पितृवत्पूज्यः प्राणाचार्यः स हि स्मृतः॥

श्लोक 186

विद्यासमाप्तौ भिषजां द्वितीया जातिरुच्यते।
न वैद्यो वैद्यशब्दं हि लभते पूर्वजन्मना॥

श्लोक 187

विद्यासमाप्तावाष वा ब्रह्मं वा भिषजं ध्रुवम्।
तस्वमाविशति ज्ञानात्तेन वैद्यो द्विजः स्मृतः॥

श्लोक 188

नावध्यायेन्न चाक्रोशेदहितं न समाचरेत्।
प्राणाचार्यं बुधः कच्छिदिच्छन्नायुरनश्वरम्॥

श्लोक 189

भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्।
आबाधेभ्योऽभिसंरक्षेत् ज्ञानं धर्मनुस्मरन्॥

श्लोक 190

कुर्वते ये तु वृत्यर्थं चिकित्सापण्यविक्रयम्।
ते हित्वा काञ्चनं राशिं पांसुराशिमुपासते॥

श्लोक 191

रोगाख्यान्दारुणान्पाशानन्तकान्तिककर्षिणः।
यश्छित्वा यच्छति प्राणान्दाता नास्त्येव तत्समः॥

श्लोक 192

न जीवितप्रदानाद्धि दानमन्यद्विशिष्यते।
तस्मादुपाचरेत् स्वेन स्वेन निःस्वतपस्विनः॥

श्लोक 193

सत्वार्थमीहमानस्य वैद्यस्यैवं महामतेः।
वर्तन्ते सन्निधानेन नियतं सिद्धिदेवताः॥

श्लोक 194

क्वचिद्धर्मः क्वचिन्मित्रं क्वचिदर्थः क्वचिद्यशः।
कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला॥

श्लोक 195

नित्यमादरवान् वैद्यस्तस्मादार्तानुपाचरेत्।
प्राणान्सहात्मनः कीर्त्या निहन्त्येषामनादरात॥

श्लोक 196

सर्वत्र मैत्री करुणातुरेषु निरामदेहेषु नृषु प्रमोदः।
मनस्युपेक्षापकृतिं व्रजत्सु वैद्यस्य सद्वृत्तमलं तनोति॥

श्लोक 197

सामिषेणापि चित्तेन जीवितोच्छेदकारिणः।
यो निहन्त्यामयान् वैद्यः सोपि केनोपमीयताम्॥

श्लोक 198

किमुत निरामिषेण मनसा करुणामृदुना कृपणविशिष्टयोः सदृशमादरमुद्वहता।
अतिगुरु बोधिसत्वचरितं सततं विदधच्छमयति रोगजालमपि योतिविरोधि मिथः॥

श्लोक 199

दाहः शूलं तृडाध्मानं क्षुत्क्षामत्वमरोचकम्।
कः प्राकृतो जयेद्रोगान् नित्यमन्योन्यरोधिनः॥

श्लोक 200

मारुतामग्रहोन्भादमदान् सुसदृशाकृतीन्।
को जानीयाच्चिकित्सेद्वादूरभित्नक्रियाक्रमान्॥

श्लोक 201

प्राणाचार्थं वेदपारं प्रयातं बुध्या युक्तं पूजयेन्नित्यमस्मात्।
यस्मिन्यस्य प्राणयात्रा निबद्धा तस्मै यच्छन् को धनानां धनायेत्॥

श्लोक 202

आयुर्वेदं श्लोकलक्षेण पूव ब्रह्माम्नासीदग्निवेशादयस्तु।
कृत्स्नज्ञेयप्राप्तसाराः स्वतन्त्रास्तस्यैकैकं नैकधाङ्गं वितेनुः॥

श्लोक 203

भिषग्वरो वाग्भट इत्यभून्मे पितामहो नामधरोऽस्मि यस्य।
सुतोभवत्तस्य च सिंहगुप्तस्तस्याप्यहं सिन्धुषु लब्धजन्मा॥

श्लोक 204

समधिगम्य गुरोरवलोकितात् गुरुतराच्च पितुः प्रतिभा मया।
सुबहुभेषजशास्त्रविलोचनात् सुविहितोऽङ्गविभागविनिर्णयः॥

श्लोक 205

पूर्वोक्तमेव वदता किमिवोदितं स्याच्छ्रद्धालुतुष्टिजननं न भवत्यपूर्वम्।
सङ्क्षिप्तसंशयितविस्तृतविप्रकीर्णः कृत्स्नोर्थराशिरिति साधु स एव दृष्टः॥

श्लोक 206

आयुर्वेदोदधेः पारमपारस्य प्रयाति कः।
विश्वव्याध्यौषधिज्ञानसारस्त्वेष समुच्चितः॥

श्लोक 207

स्मृत्वेदमुदितं पूर्वं श्रुत्वेदानीं द्वयोः पुनः।
स्मर्त्तुः श्रोतुश्च सुतरां श्रद्धातुं कस्य युज्यते॥

श्लोक 208

अथवा श्रुतमप्येतत् स्मर्तुरेव क्रमागतम्।
अभिधातृविशेषेण किं तथापि प्रयोजनम्॥

श्लोक 209

ऊर्ध्वमेति मदनं त्रिवृताधो वस्तुमात्रक इति प्रतिपाद्ये।
मद्विधो यदि वदेदथवात्रिः कथ्यतां क इव कर्मणि भेदः॥

श्लोक 210

साध्वसाध्विति विवेकवियुक्तो लोकपङ्क्तिकृतभक्तिविशेषः।
बालिशो भवति नो खलु विद्वान् सूक्त एव रमते मतिरस्य॥

श्लोक 211

इति मुनिवचनानां जीवितोपाश्रयाणामभिलषितसमृद्धौ कल्पवृक्षोपमानाम्।
यदुदितमिह पुण्यं कुर्वतो मेनुवादं भवतु विगतरोगो निर्वृतस्तेन लोकः॥