श्लोक 72
पिष्ट्वा वराहमांसानि दत्वा मरिचसैन्धवे।
कोलवद्गुटिकाः कृत्वा तप्ते सर्पिषि वर्त्तयेत्॥
श्लोक 73
वर्त्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे।
घृताढ्ये गन्धपिशुने दधिदाडिमसारिके॥
श्लोक 74
यथा न भिन्द्याद्गुटिकास्तथा तं साधयेद्रसम्।
तं पिबन्भक्षयंस्ताश्च बली बालेयवद्व्रजेत्।
मांसानि बलयुक्तानि तथान्यान्यपि कल्पयेत्॥
श्लोक 75
माषानंकुरितान्शुद्धान् निस्तुषान्साजहाफलान्।
घृताढ्ये माहिषरसे दधिदाडिमसारिके॥
श्लोक 76
प्रक्षिप्य साधयेद्युक्त्या धान्यजीरकनागरैः।
पीतो भुक्तश्च स रसः कुरुते शुक्रमक्षयम्॥
श्लोक 77
हंसबर्हिणदक्षाण्डान् भृष्टांस्तप्तेन सर्पिषा।
सुरानुपानान् यः खादेत् स तृप्तस्तर्प्पयेत्स्त्रियः॥
श्लोक 78
आर्द्राणि मत्स्यमांसानिशफरीर्वा सुभर्जिताः।
तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम्॥
श्लोक 79
घृतभृष्टान् रसे छागे रोहितान् फलसारिके।
अनुपीतरसान् सिद्धानपत्यार्थी प्रयोजयेत्॥
श्लोक 80
घृतं माषान् सबस्ताण्डान् फलाम्ले माहिषे रसे।
स्वादौ वा साधयेत् पूतं तद्रसं भर्जयेत् घृते॥
श्लोक 81
ईषल्लवणितं युक्तं धान्यजीरकनागरैः।
पीतः स वृष्यो बल्यश्च बृंहणश्च परं रसः॥
श्लोक 82
चटकांस्तैत्तिरे तद्वत्तित्तिरीन् कौक्कुटे रसे।
कल्पयेच्छिखिनो हांसे हंसान् वा शिखिजे रसे॥
श्लोक 83
तृप्तिं चटकमांसानां गत्वा योनु पयः पिबेत्।
प्रभूतकालसंरुद्धाः सन्तर्पयति योषितः॥
श्लोक 84
घृताढ्यं कुक्वुटं शूल्यं शीतं खादेत् समाक्षिकम्।
पिबेच्चानन्तरं क्षीरं य इच्छेच्छुक्रमक्षयम्॥
श्लोक 85
पिप्पलीलवणैर्युक्तौ बस्ताण्डौ क्षीरसर्पिषा।
साधितौ भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम्॥
श्लोक 86
बस्ताण्डसिद्धे गोदुग्धे भावितानसकृत्तिलान्।
यः खादेत्ससितान् गच्छेत् स स्त्राशतमपूववत्॥
श्लोक 87
भुक्त्वा यो माषसूपेन घृताड्यं षष्टिकौदनम्।
पयः पिबति जागर्ति कृत्स्नां रात्रिं स वेगवान्॥
श्लोक 88
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम्।
शृङ्गाटकानि मृद्वीका पचेत्तत् प्रसृतोन्मितम्॥
श्लोक 89
क्षीरप्रस्थं जलप्रस्थमेतत् क्षीरावशेषितम्।
शुचिना वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः॥
श्लोक 90
शर्करायास्तुगाक्षीर्याः सर्पिषोऽभिनवस्य च।
तत्पिबेत् क्षौद्रसंयुक्तं भुञ्जानः षष्टिकौदनम्।
तथा जरापरीतोपि पुत्रैः स परिवार्यते॥
श्लोक 91
द्राक्षाखर्जरखर्जूरीमस्तकान्यजहाफलम्।
पयस्याभीरुमाषांश्च मधुकानि च साधयेत्॥
श्लोक 92
तोयाढके पलांशानि पादशेषेण तेन च।
क्षीरप्रस्थं पचेत् क्षीरशेषेणाद्यात् घृतान्वितम्।
षष्टिकान्नं सिताज्येन योगोऽयं शुक्रकृत् परम्॥
श्लोक 93
जीवकर्षभकौ मेदा जीवन्ती श्रावणीद्वयम्।
खर्जूरं मधुकं द्राक्षां विदारीं विश्वभेषजम्॥
श्लोक 94
शृङ्गाटकानि चपला नवं सर्पिःपयो जलम्।
घृतावशेषितं सिद्धं शर्करामाक्षिकान्वितम्॥
श्लोक 95
षष्टिकौदनसंयुक्तमुपयोज्यं यथाबलम्।
तद्वृष्यं बलकृद्वर्ण्यं कण्ठ्यं देहस्य बृंहणम्॥
श्लोक 96
गृष्टिर्बष्कयणी नीरुगूर्ध्वशृङ्गी चतुःस्तनी।
सान्द्रस्वादुबहुक्षीरा रूपशीलसमन्विता॥
श्लोक 97
इक्षुभिर्माषपर्णेन या सुपुष्टार्जुनेन वा।
तत्क्षीरं ससिताक्षौद्रघृतं पुत्र्यं रतिप्रदम्॥
श्लोक 98
शुक्रलैर्जीवनीयाख्यैर्बृंहणैर्बलवर्द्धनैः।
वयसः स्थापनैश्चेतत् पयः सिद्धं पृथक्पृथक्॥
श्लोक 99
युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम्।
पर्यायेणोपयोक्तव्यमिच्छता शुक्रमक्षयम्॥
श्लोक 100
मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्।
माषान् श्वदंष्ट्रां क्षीरीकां गोधूमान् शालिषष्टिकान्॥
श्लोक 101
तत्क्षीरेर्द्धोदके सिद्धान् कार्षिकानाढकोन्मिते।
विसर्जयेत्पयश्शेषं तत्पूतं क्षौद्रसर्पिषा।
सितया च युतं पीत्वा वृद्धोपि तरुणायते॥
श्लोक 102
मण्डलैर्जातरूपस्य सुतप्तैस्तत्पयः शृतम्।
सिद्धं पुंसवनं वृष्यं ससिताघृतमाक्षिकम्।
रूप्यायस्ताम्नसीसानामयमेव पृथग्विधिः॥
श्लोक 103
चूर्णिताः पिप्पलीस्त्रिंशत् प्रकुञ्चे तैलसर्पिषोः।
भृष्टाः सशर्कराक्षौद्राः क्षीरेणालोडिताः पिबेत्।
अश्नंश्च षष्टिकं क्षीरसर्पिर्भ्यां वाजिवद्भवेत्॥
श्लोक 104
चन्द्रांशुशुभ्रं पयसा घृताढ्यं षष्टिकौदनम्।
शर्करामधुसंयुक्तं भुञ्जानो ना वृषायते॥
श्लोक 105
दध्नः सरेण सघृतो भक्षितः षष्टिकौदनः।
सैलातुगोषणक्षौद्रः शर्कराढ्येन शुक्रकृत्॥
श्लोक 106
अध्यण्डामार्षभींचैव स्वयड्गुप्ताफलानि च।
पादलेपं नरः कृत्वा निशि वेगैर्न हीयते॥
श्लोक 107
वर्षाभूमूलमृद्वीकास्वयङ्गुप्ताफलानि च।
सिद्धश्चरणलेपोयं भुवं पद्भ्यां तु न स्पृशेत्॥
श्लोक 108
घृतक्षीराशनो नित्यं निर्व्याधिर्नित्यगो युवा।
सङ्कल्पप्रवणो इत्यं नरः स्त्रीषु वृषायते॥
श्लोक 109
आत्मगुप्ताफलं माषा गोधूमः शालिषष्टिकम्।
इक्षुरिक्षुरकः क्षीरं क्षौद्रं द्राक्षा सितोपला॥
श्लोक 110
उच्चटा शरमूलानि विदारी सशतावरी।
जीवनीयानि स्वर्जूरं मोचचोचफलानि च॥
श्लोक 111
एभिर्भक्ष्याणि पेयानि लेह्यानि च घृतानि च।
नित्यमासेवमानस्य स्त्रीषु हर्षो विवर्द्धते॥
श्लोक 112
जीवनीयघृतक्षीरमधुतैलसितारसैः।
रसक्षीराशिनः क्षिप्रं वृषं कुर्वन्ति बस्तयः॥
श्लोक 113
सिद्धबस्तिविकल्पोक्तान् बलशुक्रसुतप्रदान्।
युञ्जीत बस्तीन् पुत्रार्थी पुत्रकामोदितं च यत्॥
श्लोक 114
यत्किञ्चिन्मधुरं स्निग्धं बृंहणं बलवर्द्धनम्।
मनसो हर्षणं यच्च तत्सव वृष्यमुच्यते॥
श्लोक 115
द्रव्यैरेवंविधैस्तस्मात् भावितः प्रमदां व्रजेत्।
आत्मवेगेन चोदीर्णः स्रीगुणैश्च प्रहर्षितः॥
श्लोक 116
इष्टाह्येकैकशोप्यर्था हर्षप्रीतिकराः परम्।
किं पुनः स्त्रीशरीरे ये सङ्घघातेन प्रतिष्ठिताः॥
श्लोक 117
रुचिभेदेन लोकस्य दैवयोगाञ्च योषिताम्।
तं तं प्राप्य विवर्द्धन्ते नरं रूपादयो गुणाः॥
श्लोक 118
तस्माद्या यस्य हृदयं विशतीव वराङ्गना।
तुल्यस्वभावा या हारिमृजारूपगुणान्विता॥
श्लोक 119
पाशभूतैर्वहन्त्यङ्गैर्लावण्यमिव मूर्तिमत्।
आलपन्त्यमृतेनेव या गात्राणि निषिञ्चति॥
श्लोक 120
पिबन्तीव च पश्यन्ती स्पृशन्ती लिम्पतीव या।
नित्यमुत्सवभूता या या समानमनःशया॥
श्लोक 121
नयत्युत्सुकतां चेतो नित्यं सन्निहितापि या।
यया वियुक्तो निःस्त्रीकमरतिर्मन्यते जगत्॥
श्लोक 122
प्रगल्भा रीतसङ्ग्रामे स्वस्था लज्जामयी च या।
बहुशोपि च यां गत्वा तत्पूर्वमिव गच्छति॥
श्लोक 123
चरितैर्निर्विकारा या विकारैरिव निर्मिता।
कान्तानुवृत्तिपरमा सा स्त्री वृष्ट्यतमा मता॥
श्लोक 124
अभ्यञ्जनोद्वर्तनसेकगन्धस्रक्चित्रवस्त्राभरणप्रकाराः।
सुगन्धिपुष्पोत्कररेणुकीर्णा मृदुर्मनोज्ञा विपुला च शय्या॥
श्लोक 125
प्राज्ञाः कलाज्ञा वशगा विनीताः प्रियंवदाः प्रीतिकरा वयस्याः।
विस्रम्भसत्वप्रकृतिक्रियैक्याच्छरीरमात्रेण पृथक्त्वभूताः॥
श्लोक 126
कान्ता वनान्ताः परपुष्टघुष्टा रम्याः स्रवन्त्यः सततं स्रवन्त्यः।
मद्यं मदामोदकरं विशेषाध्दृद्या प्रसन्ना सुरभिः प्रसन्ना॥
श्लोक 127
शकाङ्गनागण्डतलाभिपाण्डुताम्बुलपत्रं परिवारशोभि।
प्रसाधनं स्त्रीमुखपङ्कजानां यदायुधं मूर्तमिवात्मजस्य॥
श्लोक 128
हिमाचलोद्धूनितदुग्धसिन्धुसमुद्भवत्फेनचयावदातम्।
सौधं सुधाशुभ्रतराः कराश्च चन्द्रस्य कुर्वन्ति परं वृषत्वम्॥
श्लोक 129
बन्धेन पूर्वोपहितेन पुंसः खिन्नस्य वृत्तिः करणान्तरेण।
संवाहनं स्पर्शसुखैः करैश्च करोत्यपूर्वामिव मन्मथेच्छाम्॥
श्लोक 130
प्रायोगिकाधिकरणोदिताचित्रचेष्टासंशीलनोद्भवदनल्परसार्द्रचित्तः।
वृष्योपयोगपरिबृंहितदेहधातुर्नारीमनांसि वशमानयति प्रसह्य॥
श्लोक 131
तस्मान्नित्यं स्त्रीषु वाञ्छन् प्रियत्वं वृष्यैर्योगैर्जातकामोऽपि कामी।
सत्वंअ सात्म्यं देशकालौ च बुध्वा चातुष्षष्टे चेष्टिते व्याप्रियेत॥
श्लोक 132
वलयस्वनसङ्कुलमुष्टिरवद्विगुणीकृतमेखलिकानिनदः।
चलनूपुरशब्दयुतोऽपि मुहुः शममावहते न रतातिशयः॥
श्लोक 133
सर्वार्थसिद्धिः प्रथमोनुरागः शृङ्गारगान्धर्वकथाविशेषाः।
सीत्कारगर्भं हसितं सहावं छिन्नाक्षरं विभ्रमवच्च गीतम्॥
श्लोक 134
सव्याजसन्दीर्शतचारुगात्रं वृत्तं प्रियाणामवलोकितं च।
चूताङ्कुरं पुष्पफलं यथर्तु विद्युत्वदुद्योतितगर्जितानि॥
श्लोक 135
विहङ्गभृङ्गस्तनितानुयातं स्त्रीकूजितं भूषणशिञ्जितानि।
काले यथास्वं वपुषश्च शुद्धिः सङ्कल्पयोनेर्धुरमुद्वहन्ति॥
श्लोक 136
स्रोतस्सु शुद्वेष्वमले शरीरे वृष्यं यदाद्यं मितमत्ति काले।
वृषायते तेन परं मनुष्यस्तद्बृंहणं देहबलप्रदं च॥
श्लोक 137
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न च वृष्ययोगाः।
सिध्यन्ति देहे कलुषे प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः॥
श्लोक 138
उपदिष्टे विचित्रेऽस्मिन् वक्तव्यार्थानुरोधतः।
कर्तव्यमेवकर्तव्यं प्राणाबाधेऽपि नेतरत्॥
श्लोक 139
एतत् स्वरूपं शास्त्रस्य यद्व्यापित्वेन वर्ण्यते।
स्पृशति न्यूनतादोषो महानव्यापिनि ध्रुवम्॥
श्लोक 140
वीर्यहीनैरसम्पूर्णैः प्रयोगैरपि भूषितम्।
अर्थानतन्त्रयत्तन्त्रं तन्त्रतामाप्नुयात् कथम्॥
श्लोक 141
हंसबर्हिणदक्षाण्डा यद्यप्यत्यर्थशुक्रलाः।
मुनयः सदया ब्रूयुस्तान्योगेष्वन्यथा कथम्॥