श्लोक 1
अथातो विषोपद्रवप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
ज्वरकासवमिश्वासहिध्मा तृष्णातिमूर्च्छनम्।
विशोभेदोऽतिकाठिन्यमानाहो बस्तिमूर्द्धरुक्॥
श्लोक 3
श्वयथुः पूतिदंशत्वं रक्तस्रावो विषानिलः।
इति षोडश निर्दिष्टा विषार्तानामुपद्रवाः।
गच्छन्त्युपोक्षिता नाशं यैर्जुष्टा विषरोगिणः॥
श्लोक 4
राजवृक्षफलोशीरकाश्मर्यघनपद्मकात्।
क्वाथः सशर्कराक्षौद्रो विषज्वरहरः परम्॥
श्लोक 5
पीता तण्डुलतोयेन कटुका ससितोपला।
विषज्वरहराजाजी जीवकर्षभकोत्पलम्॥
श्लोक 6
कोलमज्जसिताधान्यभार्ङ्गीयष्ट्याह्वकेसरम्।
विषज्वरवमिश्वासकासतृष्णानिबर्हणम्॥
श्लोक 7
त्रिफलारग्वधव्याघ्रीक्वाथो ज्वरविबन्धजित्।
बालबिल्ववचामुस्ता कषायः सपुनर्नवः।
ज्वराग्निसादश्वयथून्निहन्ति विषसम्भवान्॥
श्लोक 8
वैदेहिकारामठकं कपित्थरससैन्धवम्।
ससितामाक्षिकं लीढं श्वासकासज्वरापहम्॥
श्लोक 9
सद्राक्षानागरां कृष्णामथवा सवराघनाम्।
लीढ्वाज्यमधुना कासान्मुच्यते विषसम्भवात्॥
श्लोक 10
सपाठाञ्जनमञ्जिष्ठाद्विनिशामधुकां तथा।
यष्ट्याह्वमम्भसा पीत्वा मरिचैरवचूर्णितम्॥
श्लोक 11
विषवम्यां पिबेत् क्वाथं विल्बमूलाद्रजोऽथवा।
धात्रीषरूपकद्राक्षा मधुकं पयसा द्रुतम्॥
श्लोक 12
वेल्लाग्र्याञ्जनसोशीरयष्ट्यैलाकणकेसरम्।
लिह्यान्मरिचकुम्भीं वा घृतपुष्परसद्रुताम्॥
श्लोक 13
क्षीरिवृक्षाङ्कुरक्षौद्रसितास्तृड्वमथुच्छिदः॥
श्लोक 14
जीर्णशाल्योदनं क्षौद्रं क्षीरं चन्दनसाधितम्।
शीतान्भोनुपिबेत् भुक्त्वा विषच्छर्दिमपोहति॥
श्लोक 15
तैलगोविड्रसक्षौद्रैलिह्यात् कृष्णाप्रियङ्गुके॥
श्लोक 16
श्वासी क्षौद्रेण वा द्राक्षाशृङ्गीमागधिकासिताः।
गुडनागरवैदेहीविजयामलकानि वा॥
श्लोक 17
हिध्मायां शङ्खकनककटुकास्वर्णगैरिकम्।
वेल्लशुण्ठीकणोशीररजनीद्वितयानि वा॥
श्लोक 18
लिह्याद्वा व्योषमृद्वीकां बीजपूररसेन वा।
सक्षौद्रं वालकरजः क्वाथं वा सगुडं पिबेत्॥
श्लोक 19
विश्वभेषजगायत्रीहरिद्रामरदारुजम्।
दन्तीन्द्रवारुणीद्वीपीकल्कं सौवीरकेण वा॥
श्लोक 20
तृण्मूर्च्छयोरशिरसो लेपसेका हिमा हिताः।
अम्भोजनालकुसुमचन्दनोशरीमौक्तिकैः।
वैहायससितातोयक्षीराज्येक्षुरसाप्लुतैः॥
श्लोक 21
वीजनं तालवृन्तेन शीते सिकतिले स्थितिः॥
श्लोक 22
कमलोत्पलकिञ्जल्कपटलावृतवारिषु।
विषतृड्दाहमूर्च्छाघ्नं सरसीष्ववगाहनम्॥
श्लोक 23
विषवेगसमुत्थायां तृष्णायां लाजतर्पणम्।
शर्करादाडिमक्षौद्रसलिलाप्लावितं पिबेत्।
वटवेतसजम्ब्वाम्रसेव्यतोयं च शीतलम्॥
श्लोक 24
भूनिम्बमुस्तकटुकात्रायन्तीन्द्रयवान् समान्।
द्वौ भागौ चित्रकादष्टौ कुटजाद्वारिणा पिबेत्।
विषातिसारोदावर्तकासश्वासज्वरापहम्॥
श्लोक 25
लोध्रमोचरसाम्बष्ठाधातकीस्तण्डुलाम्बुना।
समाक्षिकाः पिबेत्तद्वन्नागरातिविषाभयाः॥
श्लोक 26
सधातकीः सकुटजाः साञ्जनाः श्लक्ष्णचूर्णिताः।
पाठानागरचूर्णं वा दध्ना युक्तं समाक्षिकम्॥
श्लोक 27
बस्तिरुग्वर्तनाहेषु फलवर्तिं प्रयोजयेत्।
सारग्वधां सत्रिवृतां सोपकुल्यां हरीतकीम्।
पिबेत् घृतेन सक्षौद्रां बस्तिशूलादिनाशिनीम्॥
श्लोक 28
गृहधूमनतश्यामा नीलिनी तण्डुलीयकैः।
सिद्धं वाज्यं तथासिद्धं वरा क्वाथत्रिवृद्युतम्॥
श्लोक 29
काकोली क्षीरिवृक्षत्वग्द्राक्षायष्ट्याह्वशर्कराः।
नस्यं विषशिरोरुघ्नं संयोज्यं शीतवारिणा॥
श्लोक 30
श्वयथौ शुद्धकोष्ठस्य पयः पाने हितं शृतम्।
विश्वभेषजवैदेहीकटुकादेवदारुभिः।
सुरसाम्लकल्कैर्वा छागं वा पिप्पलीशृतम्॥
श्लोक 31
त्रिफलायाः कषायेण त्रिवृता भाविता त्र्यहम्।
आलोड्य सर्पिषा पीता विषश्वयथुनाशिनी॥
श्लोक 32
मधुवेल्लवराव्योषसुराह्वोशीरपद्मकैः।
विषश्वयथुजिल्लेपस्तथा स्वादुकषायकैः॥
श्लोक 33
शिरीषपुष्पाहिशिरोनतकुष्ठैर्घृतान्वितः।
धूपोऽगदः श्वयथुजित् समस्तविषनाशनः॥
श्लोक 34
अल्पेनाप्यपचारेण दंशः पूतित्वमश्नुते।
प्रायो न सहते तीक्ष्णमुष्णं वा भेषजं विषम्॥
श्लोक 35
मधुरस्निग्धशीतानि युञ्यात्तस्माद्विषव्रणे।
सेकालेपांश्च सक्षीरैः कषायैः क्षीरिवृक्षजैः॥
श्लोक 36
न्यग्रोधशुङ्गमधुकतिलसर्षपसैन्धवम्।
साभया निम्बपत्राज्यं दंशपूतित्वनाशनम्।
कर्णिकापातनं श्रेष्ठं विषव्रणविनाशनम्॥
श्लोक 37
रक्ते स्रवत्यतिभृशं घृतं समरिचं पिबेत्।
तण्डुलीयकमूलेन सितया वा समन्वितम्॥
श्लोक 38
दंशं प्रलेपयेच्चास्य दार्व्या सुश्लक्ष्णपिष्टया।
सितोपलाक्षौद्रघृतच्छागदुग्धानि नावनम्॥
श्लोक 39
शमीकल्कं पिबेच्छ्लक्ष्णमङ्गं लिम्पोद्विशालया।
नावने हेमं शुक्ला च ततः शाम्यति शोणितम्॥
श्लोक 40
क्द्शस्यातिस्रुते रक्ते रूक्षैरत्यर्थसेवितैः।
विषस्य च स्वभावेन मातरिश्वा प्रकुप्यति॥
श्लोक 41
उन्मादाक्षेपकमनोभ्रंशापस्मृतयस्ततः।
तत्रेष्टं स्नेहनं बस्तिनस्यप्रधमानाञ्जनम्॥
श्लोक 42
नागदन्त्यभयाकुष्ठपिप्पलीवृषकट्फलम्।
भल्लातकास्थिकटुकाबिल्वप्रतिविषाग्निकाः।
सक्षीरं तैर्घृतं सिद्धं विषवातविकारजित्॥
श्लोक 43
पिबेदेरण्डतैलं वा छागमांसरसान्वितम्।
ऐकध्यं घृततैलं वा मेध्यमांसरसाशनः॥
श्लोक 44
कार्पासमूलं मरिचं हरिद्रे नलदं नलम्।
पिप्पलीं स्वर्जिकां कुष्ठं जलेनालोड्य पाययेत्।
उन्मत्तं विषवातेन तथापस्मारिणं नरम्॥
श्लोक 45
वचाहंसपदीव्योषदधित्थं हस्तिपिप्पलीम्।
देवदारुबलाबिल्वकृमिजित् कुष्ठटुण्टुकम्॥
श्लोक 46
लोध्राखुकर्ण्यतिविषाः क्षीरं सर्पिश्च पाययेत्।
निहन्ति पानाभ्यङ्गाभ्यां घृतं सर्वविषाणि तत्॥
श्लोक 47
प्रतिकुर्याद्यथास्वं च रोगेष्वेवं परेषु च।
दोषानुबन्धमालोच्य विषतन्त्राविरोधतः॥
श्लोक 48
दृश्यशब्दागदैरस्य विषशेषं निवर्तयेत्।
अल्पमप्यवशिष्टं हि व्याधये मरणाय वा॥
श्लोक 49
धवाश्वकर्णतिनिशकरघाटकपीतनान्।
पलाशाम्रातककुभपारिभद्रकतिल्वकान्॥
श्लोक 50
कपित्थकुटजाङ्कोलप्रग्रहामलकीभुजान्।
शमीश्लेष्मातकाश्मन्तगोजीयमलकण्टकान्॥
श्लोक 51
चिरिविल्वार्ककट्वङ्गसमङ्गामधुशिग्रुकान्।
गोपघोण्टाहिमारौ च भस्मीकृत्याम्भसा गवाम्॥
श्लोक 52
क्षारकल्पेनविस्राव्य पचेत् क्षिप्त्वावचूर्णितान्।
पिप्पलीद्वयकोशास्रसप्तपर्णैलवालुकान्॥
श्लोक 53
वराङ्गचोचमञ्जिष्ठाकुष्ठवञ्जुलटुण्टुकान्।
विडङ्गातिविषानन्तासर्षपतण्डुलीयकान्॥
श्लोक 54
सुराह्वसरलप्लक्षगृहधूमकरञ्जकान्।
नागदन्ती सुतश्रेणी निचुलं वरुणं वचाम्॥
श्लोक 55
वर्द्धमानमयो बिल्वं क्षारवत्पाकमागतम्।
तत् लोहकुम्भे निहितं कार्यं सन्निहितं सदा॥
श्लोक 56
तेन दुन्दुभिमालिम्बेत् पताकास्तरणानि च।
दर्शनश्रवणस्पर्शैर्निर्विषं तानि कुर्वते॥
श्लोक 57
पानात् क्षारागदश्चैष विषं स्थावरजङ्गमम्।
शूलगुल्मोदराजर्णिश्वासकासाश्मशर्कराः॥
श्लोक 58
शोफार्शोग्रहणीदोषानरुचिं च नियच्छति।
अपि तक्षकतुल्यानां सर्पाणां दर्पनाशनः॥
श्लोक 59
श्रीवेष्टकमनोह्वालं ससर्जरसवालकम्।
कर्षांशं नागपुष्पस्य प्रकुञ्चं त्रुटिविंशकम्॥
श्लोक 60
हरेणवश्चतुःषष्टिः कुटन्नटचतुष्टयम्।
शताह्वां षोडशैतानि पुष्ये सम्भृत्य पेषयेत्॥
श्लोक 61
आश्लेषासु गवां मध्ये शस्त्रमन्त्राभिरक्षितम्।
कुमार्या स्नातया तत्र मन्त्रोयं विष्णुनिर्मितः॥
श्लोक 62
माता मे विजयानाम जयो नाम पिता मम।
अजय्यस्य च पुत्रोसौ विजये च जयामि वः॥
श्लोक 63
सुगन्धाख्योयमगदो नित्यं देहविलेपनात्।
अभङ्गकरणो युद्धे विवादे च जयावहः॥
श्लोक 64
अमुना लेपिताश्छत्रदुन्दुभिध्वजतोरणाः।
दृष्टस्पृष्टश्रुता घ्नन्ति विषं स्थावरजङ्गमम्।
भूतबालग्रहोन्मादान् गेहस्थोपि निवारयेत्॥
श्लोक 65
प्रपौण्डरीकसरलदेवदारुकुटन्नटम्।
जटाशताह्वातिविषातिलपर्णीसुगन्धिका॥
श्लोक 66
नीलीयिवफलाभार्ङ्गीमधुयष्ट्यैलवालुकम्।
तोयतोयदकालीयतगरध्यामकत्वचः॥
श्लोक 67
नखपद्मकपुन्नागपत्रकालानुसारिवाः।
तालीसपत्रं मरिचं जोङ्गकं चन्दनद्वयम्॥
श्लोक 68
द्व्येलाद्विसेव्यद्विता द्विनिशा नलदद्वयम्।
लाक्षाशीतशिवव्योषफलिनीधान्यगैरिकम्॥
श्लोक 69
शैलेयकशिलापुष्पग्रन्थिला चोरकाभयाः।
अर्कस्थौणेयपृथ्वीका कटुका चन्द्रराजयः॥
श्लोक 70
कलिङ्गकः सर्जरसः कुष्ठं लवणपञ्चकम्।
श्रीपर्णिकाश्मरीशेलुशिंशपा सिन्दुवारजः॥
श्लोक 71
चम्पकाशोकसुरससुमनस्तिल्वकोद्भवाः।
पाटल्यास्तृणशूल्याश्च प्रसवाः कुमुदोत्पलम्॥
श्लोक 72
तिनिशार्जुनशम्याकधवपुष्पं सपङ्कजम्।
पञ्चाशीतेरिदं चूर्णं समूत्रघृतमाक्षिकम्॥
श्लोक 73
निधापयेत् गवां शृङ्गे मनुष्यं पुनराहरेत्।(मनुष्यं तेन जीवयेत्) भग्नस्कन्धं विवृत्ताक्षं मृत्योर्दंष्ट्रान्तरं गतम्॥
श्लोक 74
महासुगन्धो नाम्नायमतिवीर्योतितेजसा।
वारयत्यतिदुर्वारं विषाग्निं वासुकेरपि॥
श्लोक 75
नृपोनेनानुलिप्ताङ्गो भवेत् सर्वजनप्रियः।
तेजस्वितां च लभते राजकस्यापि मध्यगः॥
श्लोक 76
शीतमेव च कुर्वीत विधानं विषरोगिणाम्।
मुक्त्वा कीटविषं तद्धि शीतेनातिप्रबर्द्धते॥
श्लोक 77
शालयः षष्टिका जीर्णाः कोरदूषाः प्रियङ्गवः।
मुद्गो हरेणुस्तुवरी पटोलं वेत्रपल्लवाः॥
श्लोक 78
तण्डुलीयकजीवन्ती वार्ताकं सुनिषण्णकः।
जाङ्गलं दाडिमं धात्री कपित्थं सैन्धवं सिता॥
श्लोक 79
अविदाहियदन्यच्च विज्ञायान्नस्वरूपतः।
तत्तद्दद्याद्विषार्तेभ्यः कार्या व्यञ्जनसंस्कृतिः।
कषायैर्विषहन्तॄणां घृनैः कल्याणकादिभिः॥
श्लोक 80
दिव्यसारसकूपोत्थमन्यद्वा शृतशीतलम्।
मध्वामलकयुक्तं वा विषार्त्तः सलिलं पिबेत्।
नदीतटाकजं त्याज्यं विशेषेण घनागमे॥
श्लोक 81
शुक्लवस्त्रोदरायातैः सुकृताः सक्तवो यवैः।
तक्रेण सघृताः पीताः परमं विषनाशनाः॥
श्लोक 82
तिलमद्यकुलत्थक्षुत्क्रुद्भयायासमैथुनम्।
वर्जयेद्विषमुक्तोपि दिवास्वप्नं विशेषतः॥
श्लोक 83
प्रशान्तदोषं प्रकृतिस्थधातु माहारकामं सममूत्रविट्कम्।
प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योवगच्छेदविषं मनुष्यम्॥
॥इति सप्तचत्वारिंशोऽध्यायः॥