अष्टाङ्गसंग्रहः उत्तरस्थानम् 45

श्लोक 1

अथातः प्रत्येकलूताप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

आदंशे पिटका ताम्रा भवेत् कपिलया स्थिरा।
लसीका रोमकूपेषु दाहोऽक्ष्णो मूर्ध्नि गौरवम्॥

श्लोक 3

पाननस्याञ्जनालेपसेकेष्वत्र प्रयोजयेत्।
निशापद्मककुष्ठैलाकरञ्जककुभत्वचः॥

श्लोक 4

स्थिरार्कपर्ण्यपामार्गब्राह्मीज्वलननाकुलीः।
अथवा कुष्ठपत्तङ्गनखजोङ्गककुङ्कुमम्॥

श्लोक 5

अग्निमुख्यातिरुक्स्फोटः सम्भवत्यग्निदग्धवत्।
अग्निज्वालासमानेन प्रस्विद्यति विषोष्मणा॥

श्लोक 6

तृड्दाहकम्पमूर्च्छावान् पित्तास्रमतिसार्यते।
योजयेत् पूर्ववत्तत्र प्रत्याख्याय त्वरान्वितः॥

श्लोक 7

कुष्ठलामज्जकोशीरमधूकं मधुकं मधु।
लाभतः शीतवीर्याणि तालीसं गोपकन्यकाम्॥

श्लोक 8

पीतया पीतविण्मूत्रदंशक्लेदाक्षिदर्शनम्।
मूर्च्छाच्छर्दिंशिरोदुःखज्वरारोचकशूलवान्॥

श्लोक 9

तत्रेष्टाः कटभोशीरमुञ्जावञ्जुलपद्मकाः।
वंशकाशार्जुनकुशाः शिरीषकिणिहीत्वचः।
अथवा वन्यबाल्हीककुष्ठकेसरजोङ्गफम्॥

श्लोक 10

पद्माभः पद्मया स्फोटो भिन्नोऽभिन्नः पुनर्भवेत्।
क्लिद्यत्याशु स्रवत्युष्णं क्लेदं स्पर्शेऽतिरुक्करः॥

श्लोक 11

तत्र पद्मोत्पलान्नालो हिमवेतसवञ्जुलाः।
समृणालाः सकुमुदाः सक्षौद्रघृतशर्कराः॥

श्लोक 12

पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः।
श्वासकासज्वरच्छर्दिंमूर्छादाहभ्रमान्वितः॥

श्लोक 13

मनश्शिलालमधुकमधूकोत्पलचन्दनम्।
कुष्ठालामज्जकोशीरपद्मकं तत्र भेषजम्॥

श्लोक 14

आदंशे श्वेतया श्वेता पिटका भृशकण्डुला।
दाहमूर्छाज्वररुजाविसर्पक्लेदकारिणी॥

श्लोक 15

तत्रेष्टाः शीतरास्नैलाहरेणुनलवञ्जुलाः।
कुष्ठमांसीनतोशीरकान्ताध्यामकपद्मकाः॥

श्लोक 16

आदंशः कृष्णया कृष्णो विङ्गन्धिः क्लेदशोफवान्।
उत्थाप्यते कृष्णमसृग्दुष्टं तत्र च भेषजम्।
महासुगन्धा सर्पक्षी वक्रैला गन्धनाकुली॥

श्लोक 17

शूनः पाण्डूरया दंशः शोफो वक्त्रस्य गौरवम्।
ज्वरो विघूर्णनं जृम्भा शिरोरुक् तत्र भेषजम्।
मूलं वारुणपुष्पाया रोचना गोशकृद्रसः॥

श्लोक 18

आपाण्डुपिटको दंशः शोफवान् रक्तपादया।
अस्रस्रुत्तत्र नलदसेव्योदीच्यहिमं मधु॥

श्लोक 19

भृङ्गाभो भृङ्गया दंशः पिटका दाहरुक्करी।
कोठैश्च चीयते गात्रं तत्र शस्तं भिषग्जितम्।
अङ्कोलसारः फलिनी गवां पित्तं मिसिर्गदः॥

श्लोक 20

पिङ्गया वह्निदग्धाभो दंशः स्फोटो बहुस्रुतिः।
तीब्रशोफज्वररुजाहृत्पीडादाहतृङ्युतः॥

श्लोक 21

तत्रागदः सिता गुन्द्रा मल्लिका मधुकोत्पलम्।
जीवंकः क्षीरिणां शुङ्गा द्विहिमं नागकेसरम्॥

श्लोक 22

त्रिमण्डलाया बहलो दंशः कृष्णं स्रवत्यसृक्।
अरुचिर्नेत्रयोर्दाहः कलुषस्रुतिदृष्टिता॥

श्लोक 23

विविधैर्मण्डलैश्चास्य शरीरमुपचीयते।
तत्रार्कमूलद्विनिशासुरालापृश्निपर्णिकाः।
दधित्थनाकुलीब्राह्मीज्योतिष्मत्यो हितोऽगदः॥

श्लोक 24

आदंशः पूतिगन्धाया विसर्पक्लेददाहवान्।
अलजीसन्निभो रुग्वान् विबद्धपिटकाचितः॥

श्लोक 25

भार्ङ्गीनिदिग्धिकानिम्बपाटलीसिन्दुवारकम्।
दूर्वा हरिद्रे वासा च पूतिगन्धाविषापहम्॥

श्लोक 26

चित्रमण्डलवान् दंशः पिटकाजालकावृतः।
वीराया मूर्धरुक् शीतज्वरान्नद्वेषसंयुतः॥

श्लोक 27

हरिद्रे नलदं कुष्ठमेला सुरसमञ्जरी।
तगरं च श्वपित्तेन पिष्टं वीराविषापहम्॥

श्लोक 28

दंशः कुमुदया दाहस्फोटस्फुरणतोदवान्।
पिच्छिलक्लेदविस्रावी सश्वासस्सगलग्रहः।
प्रत्याख्यायात्र कुर्वीत सामान्योक्तं क्रियाक्रमम्॥

श्लोक 29

भवन्त्यलविषादंशे पीतलोहितमण्डलाः।
पिटकाः सर्षपप्रख्यास्तालुशोषो रुजा ज्वरः॥

श्लोक 30

छर्दिर्दाहः शिरःकम्पस्तत्र सेव्यः समाक्षिकः।
सकासीसकह्रीबेरः सपिप्पलिवटाङ्कुरः॥

श्लोक 31

रक्तान्तो रक्तया दंशः सपाण्डुपिटकाज्वरः।
श्वेतोतिसारः श्वसनं दाहः क्लेदः सशोणितः।
शस्तं शेल्वर्जुनाम्रातात्त्वङ्मूलं सिन्दुवारतः॥

श्लोक 32

आदंशे चित्रया रक्ता पिटका विसृता स्थिरा।
पर्वभेदशिरस्तापज्वरशोफा विसर्पिणी॥

श्लोक 33

भिन्ना कृष्णत्वमभ्येति पीतास्रावा महाव्रणा।
तत्रेष्टाः कुष्ठनलदशिरीषनलरेणुकाः॥

श्लोक 34

दंशे च सन्तानिकया शूलमाकुलताश्रुणः।
प्रदराक्षेपकौ तत्र केसरं क्षीरिणां त्वचः।
आम्रस्य सिन्दुवारस्य मूलमश्मन्तकस्य च॥

श्लोक 35

पिटका मेचका दंशमध्ये जतुकणोपमा।
ज्वरः शोफोत्र वारुण्यां रोचना रजनीद्वयम्॥

श्लोक 36

राजीमान् कसनादंशः शिरोरुक् श्वासकासवान्।
शीतपिच्छिलरक्तस्रुद्रक्तोकं तत्र मेषजम्॥

श्लोक 37

पाण्डुरक्तोऽतिरुग्दंशः काकाण्ड्याः स्मृतिमोषकृत्।
हिध्मा श्वसनतृण्मूर्च्छा निद्राक्षेपकहृद्गदाः॥

श्लोक 38

रक्तान्तर्स्त्वेणपादाया दंशः कृष्णतिलाकृतिः।
दाहमोहाग्निवीसर्पतृङ्वमिश्वासकासवान्॥

श्लोक 39

पूतिः श्यावोतिरुक् सासृगादंशो लाजवर्णया।
शीतज्वरसमुत्थानो दाहमूर्छातिसारवान्॥

श्लोक 40

अग्निदग्धनिभो दंशो वैदेह्या भृशवेदनः।
गम्भीरः सज्वरस्तीक्ष्णमोहो हृदयपीडनम्॥

श्लोक 41

ऊर्ध्वराजीचितो दंशो जालिन्यास्तीव्रशोफरुक्।
उदीर्णतृङ्भ्रमश्वासस्तम्भमोहविदीर्यते॥

श्लोक 42

रक्तो मालागुणादंशो धूमगन्धिः सपीव्ररुक्।
दीर्यते पार्श्वतस्तैस्तैः संरब्धैर्मण्डलैर्युतः॥

श्लोक 43

अन्तर्दाहो बहिः शैत्यमाध्मानं मूत्रकृच्छ्रता।
मूर्च्छाप्रलापातीसारज्वराः प्राणान्तकारिणः॥

श्लोक 44

ध्मातः सौवर्णिकादंशः स्यन्दते मत्स्यगन्धिकः।
शिरोक्षिरुग्ज्वरः कासस्तृणा शोफो वमिर्भ्रमः॥

श्लोक 45

आसाध्यानामपि हितं प्रत्याख्यायाशु योजयेत्।
दोषोच्छ्रायविशेषेण छेददाहादिवर्जितम्॥

श्लोक 46

कपिला तत्र नासायामग्निर्दशति जत्रुणि।
पीता तु गण्डयोः पद्मा दक्षिणांसेथ कक्षयोः॥

श्लोक 47

लूता मूत्रविषा श्वेता चिबुके कालिकाक्षिणि।
पाण्डुरा दक्षिणस्कन्धे करयो रक्तपादिका॥

श्लोक 48

वामपार्श्वे दशेत् भृङ्गा वामांसे पिङ्गला दशेत्।
त्रिमण्डलोदरे पूतिः पृष्ठे वीरा तु दक्षिणे॥

श्लोक 49

बाहौ नाभ्यां कुमुदिका वामस्कन्धेऽलसंज्ञिता।
कण्ठे रक्ता ललाटे तु चित्रा सन्तानिकौष्ठयोः॥

श्लोक 50

मेचका मूर्ध्नि कसनाद्धस्तयोः कक्षमूलयोः।
काकाण्ड्येणी तु हृदये लाजवर्णा स्तनान्तरे॥

श्लोक 51

बाहुसन्धिषु वैदेही लूतापाङ्गे तु जालिनी।
मालागुणाख्या ग्रीवायां सौवर्णी कर्णमूलयोः॥

श्लोक 52

इति क्षेत्राणि नियतान्यत्युदीर्णविषाः पुनः।
परक्षेत्रेपि वर्तन्ते राजानोतिबला इव॥