श्लोक 56
जयेत् सङ्क्रामणैराशु विषं शिरसि संश्रितम्।
दद्यादधस्ताद्दष्टस्य मूर्ध्नि काकपदे कृते॥
श्लोक 57
काकदक्षशिखिच्छागगव्यमाहिषकौक्कुटम्।
बिल्वप्रमाणं मांसास्नमूर्ध्वदष्टस्य पादयोः।
विषं सङ्क्रमते तत्र निहन्याच्छीघ्रमन्यथा॥
श्लोक 58
तीक्ष्णनस्याञ्जनान्ते च भूरिमात्रं पिबेत् घृतम्।
विषं हि नेत्रं रूक्षस्य तीक्ष्णैर्हन्ति समीरितम्॥
श्लोक 59
वामयेत ततश्चैनं विषशेषोपशान्तये।
श्लेष्मलं श्लेष्मलैर्दष्टं नाभेरूर्ध्वं विशेषतः॥
श्लोक 60
धामार्गवः शक्रयवाः सर्षपा मदनं मधु।
सैन्धवं वमनं कोष्णं विषे श्लेष्माश्रयश्रिते॥
श्लोक 61
सुरसं सर्पवेतालीमीश्वरां गौरसर्षपम्।
पटोलनिम्बपत्रं च पिबेत् सक्षौद्रसैन्धवम्॥
श्लोक 62
शुकाह्वाजालिनीदन्तीमदनेक्ष्वाकुकौटजम्।
काला लाङ्गलिका तिक्ता वमनं तण्डुलांबुना॥
श्लोक 63
पैत्तिकं पैत्तिकैर्दष्टमधो नाभेर्विशेषतः।
विषे पित्ताशयगते पाययेत विरेचनम्॥
श्लोक 64
सनीलीफलदां दन्तीं पयसा मस्तुनाथवा।
श्लक्ष्णचूर्णीकृतं कुम्भं क्वाथेन त्रैफलेन वा।
क्षीरेण वा त्रिवृच्छ्यामासुरसानीलिनीरजः॥
श्लोक 65
पिण्डीतकफलं व्योषं त्रिवृद्वेल्लं हरीतकी।
विरेचनं कफप्राये लवणं मूत्रसम्प्लुतम्॥
श्लोक 66
घृताप्लुतं सलवणं मारुते नीलिनीफलम्॥
श्लोक 67
शयानः शयने छिद्रे विरेच्यो विषपीडितः।
मुहुरुत्तिष्ठतो ह्यस्य विषं दूषयतेनिलम्।
पिबेद्वान्तो विरिक्तो वा यवागूं विषनाशिनीम्॥
श्लोक 68
विषे वाताशयगते सर्पिषः पानमिष्यते।
आद्यपश्चिमयोर्यच्च प्रोक्तं विषनिषेधयोः॥
श्लोक 69
अथ दर्वीकृतां वेगे पूर्वे विस्राव्य शोणितम्।
अगदं मधुसर्पिर्भ्यां संयुक्तं त्वरितं पिबेत्॥
श्लोक 70
द्वितीये वमनं कृत्वा तद्वदेवागदं पिबेत्।
विषापहे प्रयुञ्जीत तृतीयेञ्जननावने॥
श्लोक 71
पिबेच्चतुर्थे पूर्वोक्तां यवागूं वमने कृते।
षष्ठपञ्चमयोः शीतैर्दिग्धसिक्तमभीक्ष्णशः॥
श्लोक 72
पाययेद्वमनं तीक्ष्णं यगागूं यथोदिताम्।
अगदं सप्तमे तीक्ष्णं युञ्ज्यादञ्जननस्ययोः॥
श्लोक 73
कृत्वावगाढं शस्त्रेण मूर्ध्नि काकपदं ततः।
मांसं सरुधिरं तस्य चर्म वा तत्र निक्षिपेत्॥
श्लोक 74
तृतीये वामितः पेयां वेगे मण्डलिनां पिबेत्।
अतीक्ष्णमगदं षष्ठे गणं वा पद्मकादिकम्॥
श्लोक 75
आद्येवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः।
अलाबुना हरेद्रक्तं पूर्ववच्चाअगदं पिबेत्॥
श्लोक 76
षष्ठे वेगेञ्जनं तीक्ष्णमवपीडं च योजयेत्।
अनुक्तेषु च वेगेषु क्रियां दर्वीकरोदिताम्॥
श्लोक 77
गर्भिणीबालवृद्धेषु मृदु विध्येत् सिराञ्च न॥
श्लोक 78
त्वङ्मनोह्वा निशे वक्रं रसः शार्दूलजो नखः।
तमालः केसरं शीतं पीतं तण्डुलवारिणा।
हन्ति सर्वविषाण्येतद्वज्रं वज्रमिवासुरान्॥
श्लोक 79
प्रपौण्डरीकं कटुका देवदारुसुवर्चिका।
कालानुसारी स्थौणेयशैलेयघनपद्मकम्॥
श्लोक 80
कुटन्नेटलापुन्नागनतकुष्ठीप्रयङ्गुकम्।
लोध्रगुग्गुलुतालीसपिप्पलीस्वर्णगैरिकम्॥
श्लोक 81
सिन्दुवारः सितः शुण्ठी ध्यामकं लवणोत्तमम्।
श्लक्ष्णचूर्णीकृतं शृङ्गे निदध्यान्माक्षिकद्रुतम्॥
श्लोक 82
तार्क्ष्यस्तार्क्ष्योपमः पाननावनाभ्यञ्जनाञ्जनैः।
अगदस्तक्षकस्यापि विषवेगं निवर्तयेत्॥
श्लोक 83
लोध्रं शिरीषषुष्पाणि समङ्गा हिङ्गु रेणुकाः।
कणोषणैलानेपाली वचा यष्टी मधूत्पलम्॥
श्लोक 84
सिन्दुवारकमन्दारमूलं बीजं करञ्जजम्।
ज्योतिष्मती नतं कुष्ठं श्वेता च गिरिकर्णिका॥
श्लोक 85
चूर्णितः कन्यया क्षौद्रगोपित्ताभ्यां च वर्तितः।
अगदो हन्ति सर्पाखुकणभं च सृगालजम्॥
श्लोक 86
बिडालकाण्डचित्रोत्थं विषं भूतग्रहं ज्वरम्।
अपस्मारग्रहोन्मादगुल्माजीर्णं विषूचिकाम्॥
श्लोक 87
बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम्।
फलत्रयं व्योषनिशाद्वयं च बस्तस्य मूत्रेण सुसूक्ष्मपिष्टम्॥
श्लोक 88
भुजङ्गलूतोन्दुरुवृश्चिकाद्यैर्विषूचिकाजीर्णगाज्वरैश्च।
आर्त्तान् नरान् भूतविधर्षितांश्च स्वस्थीकरोत्यञ्जनपाननस्यैः॥
श्लोक 89
त्रिवृद्विशल्या मधुकं निशे लवणपञ्चकम्।
मंजिष्ठा त्र्यूषणं तद्वत् कल्कयेत् स महागदः॥
श्लोक 90
मांसीहरेणुत्रिफला मुरुङ्गी मधुयष्टिका।
मंजिष्टा पद्मकाशोककुष्ठतालीसचन्दनम्॥
श्लोक 91
सुगन्धिकैला किणिही त्वक्पटोली मृगादिनी।
भार्ङ्गी विडङ्गं पालिन्दी पाठा क्रोष्टुकमेखला॥
श्लोक 92
पुष्पमारुष्करं पत्रं सौरसं क्रमुकं पुरम्।
पित्तं नकुलमार्जारगोधाशल्यकसूकरात्॥
श्लोक 93
पृषताच्चित्रपत्राच्च गोशृङ्गे पूर्ववत् स्थितः।
यत्र गेहे न तत्राहिकीटादिभ्यो भयोद्भवः॥
श्लोक 94
एतेन भेरीपटहाः पताकाश्च प्रलेपिताः।
आर्षभेण विषं घ्नन्ति स्पर्शश्रवणदर्शनैः॥
श्लोक 95
प्रलेपाद्यैश्च निश्शेषं दंशादप्युद्धरेद्विषम्।
भूयो वेगाय जायेत शेषं दूषीविषाय वा॥
श्लोक 96
विषापायेनिलं क्रुद्धं स्नेहादिभिरुपाचरेत्।
तैलमद्यकुलत्थाम्लवर्ज्यैः पवननाशनैः॥
श्लोक 97
पित्तं पित्तज्वरहरैः कषायस्नेहबस्तिभिः॥
श्लोक 98
समाक्षिकेण वर्गेण कफमारग्वधादिना॥
श्लोक 99
सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु।
पानं समन्त्रपूताम्बुप्रोक्षणं सान्त्वहर्षणम्।
सर्पाङ्गाभिहते युञ्ज्यात्तथा शङ्काविषार्दिते॥
श्लोक 100
पूतनोप्रतकूष्माण्डपिशाचाद्या नरद्विषः।
हन्युरौषधवीर्याणि रक्षाकर्मण्यवारिताः।
तस्माद्रक्षां प्रयुञ्जीत रक्षोगणनिवारिणीम्॥
श्लोक 101
गोमयेन सुसम्मृष्टे धूपागरुसुधूपिते।
गन्धमाल्योपहाराद्यैर्गृहे पूजितदैवते॥
श्लोक 102
सूत्रकारान् समभ्यर्च्य शङ्करास्तिककाश्यपान्।
सन्तर्प्य हव्यकव्याभ्यां समिद्धाननलद्विजान्॥
श्लोक 103
प्राङ्मुखायोपविष्टाय विषार्ताय चिकित्सकः।
उत्तराभिमुखो युञ्ज्याद्विद्यां मन्त्राणि भेषजम्॥
श्लोक 104
समप्रमाणैर्हरितैर्दर्भैः प्रागभिमन्त्रितैः।
अच्छिन्नाग्रैः समूलैश्च कुर्यात्तस्यापमार्जनम्॥
श्लोक 105
ब्राह्माद्यै रगदैरेनं नित्यमेवानुलेपयेत्।
सञ्जीवनादीन् पानादौ दंशलेपे च योजयेत्॥
श्लोक 106
पूर्णकुम्भं सकुसुमं सर्षपान् छागलं पयः।
शस्त्रं दूर्वां मधु घृतं कुर्याद्दष्टस्य मूर्द्धतः।
एवं शाम्यति सप्ताहाद्विषमात्मवतः सतः॥
श्लोक 107
कर्केतनं मरकतं वज्रं वारणमौक्तिकम्।
वैडूर्यं गर्दभमणिं पिचुकां विषमुष्टिकाम्॥
श्लोक 108
हिमवद्गिरिसम्भूतां सोमराजीं पुनर्नवाम्।
तथा द्रोणं महाद्रोणं मानसीं सर्पजं मणिम्।
विषाणि विषशान्त्यर्थं वीर्यवन्ति च धारयेत्॥
श्लोक 109
छत्री झर्झरपाणिश्च चरेद्रात्रौ विशेषतः।
तच्छायाशब्दवित्रस्ताः प्रणश्यन्तिभुजङ्गमाः॥
।इति द्विचत्वारिंशोऽध्यायः।