श्लोक 91
हरिद्रान्तर्बहिःशस्ता विषदोषातुरे परम्॥
श्लोक 92
निशाश्वमारसुरसकरञ्ञव्योषदारुभिः।
अञ्जनं बस्तमूत्रेण पिष्टैर्नेत्रोपरोधजित्॥
श्लोक 93
कर्णाक्षिनासिकाकण्ठजिह्वारोगेषु नावनम्।
बीजपूरार्यबृहतीफलज्योतिष्मतीकृतम्॥
श्लोक 94
श्वेता वचा हिङ्ग्वमृता सुगन्धा कुष्ठसैन्धवम्।
शिरीषपुष्पद्विनिशाव्योषटुण्टुकसर्षपाः॥
श्लोक 95
कपित्थमध्यं लशुनं करञ्जो वंशलेखनम्।
पिष्ट्वा गोबस्तमूत्रेण तत्पित्तेनैव भावयेत्॥
श्लोक 96
दिनानि सप्त व्यत्यासाद्विनिहन्ति ततोञ्जनात्।
विषं शिरस्थं मूर्द्धार्तिज्वरजीर्णविषूचिकाः॥
श्लोक 97
अपस्मारग्रहोन्मादपाण्डुमेहमदात्ययान्।
शुष्कनेत्रामयशिरोरोगपैल्लगलार्बुदान्॥
श्लोक 98
काचान्धकारपटलकण्डूदौर्बल्ययक्ष्मणः।
लेपात् पीतक्षतालीढदष्टदिग्धविषं जयेत्॥
श्लोक 99
श्वित्रं कृच्छ्राणि कुष्ठानि दुष्टनाडी महाव्रणान्।
आनाहार्शो गुदे लेपाल्ललाटे दुष्टपीनसम्॥
श्लोक 100
योनिलेपेन नारीणां मूढगर्भानुलोमनः।
उन्मूलयत्येष विषं गन्धहस्तीव काननम्॥
श्लोक 101
विडङ्गपाठा त्रिफलाजमोदा हिङ्ग्वग्निवक्रं लवणस्यवर्गः।
व्योषान्वितं स्थावरजङ्गमानां जेता विषाणामगदोऽजिताख्यः॥
श्लोक 102
मनोह्वा रोचना चण्डा त्वगेलासितसर्षपैः।
स्पृक्काहिंगुलकाश्मीरकान्ताभिःकल्कितोऽगदः।
विषघ्नो बालसूर्योयं श्रीरक्षाविजयर्द्धिदः॥
श्लोक 103
अजगन्धा सगोमूत्रा गृहधूमः सुगुग्गुलुः।
एष माहेश्वरो योगो न क्वचित् प्रतिहन्यते॥
श्लोक 104
विषदिग्धेन विद्धस्तु प्रताम्यति मुहुर्मुहुः।
विवर्णभावं भजते विषादं चाशु गच्छति॥
श्लोक 105
कीटैरिवावृतं चास्य गात्रं चिमिचिमायते।
श्रोणिपृष्ठशिरःस्कन्धसन्धयः स्युः सवेदनाः॥
श्लोक106
कृष्णदुष्टास्रविस्रावी तृण्मूर्च्छाज्वरदाहवान्।
दृष्टिकालुष्यवमथुश्वासकासकरः क्षणात्॥
श्लोक107
शूयते पच्यते सद्यो गत्वा मांसं च कृष्णताम्।
प्रक्लिन्नं शीर्यतेऽभीक्ष्णं सपिच्छिलपरिस्रवम्॥
श्लोक 108
कुर्यादमर्मविद्धस्य हृदयावरणं द्रुतम्।
शल्यमाकृष्य तप्तेन लोहेनानु दहेद्व्रणम्॥
श्लोक 109
अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः।
शिरीषात् गृध्रनख्याश्च क्षारेण प्रतिसारयेत्।
शुकनासाप्रतिविषाव्याघ्रीमूलैश्च लेपयेत्॥
श्लोक 110
पीतदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः।
व्रणे तु पूतिपिशिते क्रिया पित्तविसर्पवत्॥
श्लोक 111
सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वारातिचोदिताः।
गरमाहारसम्पृक्तं यच्छन्त्यासन्नवर्तिनः॥
श्लोक 112
नानाप्राण्यङ्गशमलविरुद्धौषधिभस्मनाम्।
विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः॥
श्लोक 113
तेन पाण्डुः कृशोल्पाग्निः कासश्वासज्वरार्दितः।
वायुना प्रतिलोमेन स्वप्नचिन्तापरायणः॥
श्लोक 114
महोदरयकृत्प्लीहो दीनवाग्दुर्बलोऽलसः।
शोफवान् सतताध्मातः शुष्कपादकरः क्षयी॥
श्लोक 115
स्वप्ने गोमायुमार्जारनकुलव्यालवानरान्।
प्रायः पश्यति शुष्कांश्च वनस्पतिजलाशयान्॥
श्लोक 116
मन्यते कृष्णमात्मानं गौरो गौरं च कालकः।
विकर्णनासानयनं पश्येत्तद्विहतेन्द्रियः॥
श्लोक 117
एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुद्रवैः।
गरार्तो नाशमाप्नोति कश्चित्सद्योऽचिकित्सितः॥
श्लोक 118
गरार्तो वान्तवान् भुक्त्वा तत्पथ्यं पानभोजनम्।
शुद्धहृच्छीलयेद्धेम सूत्रस्थानविधेः स्मरन्॥
श्लोक 119
शर्कराक्षौद्रसंयुक्तश्चूर्णस्ताप्यसुवर्णयोः।
लेहः प्रशमयत्युग्रं सर्वं योगकृतं विषम्॥
श्लोक 120
मूर्वामृतानतकणापटोलीचव्यचित्रकान्।
वचामुस्तविडङ्गानि तक्रकोष्णाम्बुमस्तुभिः।
पिबेद्रसेन चाम्लेन गरोपहतपावकः॥
श्लोक 121
पारावतामिषशठीपुष्कराह्वशृतं हिमम्।
गरतृष्णारुजाकासश्वासहिध्माज्वरापहम्॥
श्लोक 122
वायसी श्वासकासघ्नी भृष्टाज्यत्रिफलारसे।
भार्ङ्गीनागरनिर्यूहः शिशिरश्च समाक्षिकः॥
श्लोक 123
हरेणुचन्दनश्यामानलदं श्लक्ष्णपेषितम्।
विलेपनं प्रयोक्तव्यं गरेणोपहतत्वचः॥
श्लोक 124
मञ्जिष्ठा किणिहीनिम्बरजन्यश्वत्थचन्दनैः।
प्रघर्षणं कृशानां तु गरेण क्षपितौजसाम्॥
श्लोक 125
पथ्यं परममुद्दिष्टं शीलनं क्षीरसर्पिषोः॥
श्लोक 126
वृषनिम्बपटोलीनां क्वाथेन् विपचेत् घृतम्।
अभयागार्भिणं श्रेष्ठं तत् गरस्य निबर्हणम्॥
श्लोक 127
हरिद्रां नाकुलीं जातीं पृथक्पिष्ट्वा विपाचयेत्।
घृतत्रयं विषार्तानामेतदारोग्यदं परम्॥
श्लोक 128
तण्डुलीयकमूलेन गृहधूमेन चैकतः।
क्षीरेण च घृतं सिद्धं समस्तविषरोगजित्॥
श्लोक 129
नागदन्ती त्रिवृद्दन्ती द्रवन्ती स्नुक्पयः पलैः।
साधितं माहिषं सर्पिः सगोमूत्राढकं हितम्।
सर्पकीटविषार्तानां गरार्तानां च शान्तये॥
श्लोक 130
मधुकं तगरं कुष्ठभद्रदारुहरेणवः।
मञ्जिष्ठैलैलवालूनि नागपुष्पोत्पलं प्लवम्॥
श्लोक 131
विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं बला।
अंशुमत्यौ हरिद्रे द्वे बृहत्यौ सारिवाद्वयम्॥
श्लोक 132
एषां कल्कैर्घृतं सिद्धमजेयं नाम विश्रुतम्।
विषाणि हन्ति सर्वाणि शीघ्रमेव प्रयोजितम्॥
श्लोक 133
श्वेते कपोते बीजानि प्रत्यक्पुषीशिरीषयोः।
गोमूत्रपिष्टैस्तैः सर्पिः सिद्धं बिषहरं परम्।
अमृतं नाम विख्यातमपि सञ्जीवयेन्मृतम्॥
श्लोक 134
शिरीषत्वक् त्रिकटुकं विदारी चन्दनोत्पलम्।
द्वे बले सारिवास्फोतबृहतीनिम्बपल्लवाः॥
श्लोक 135
बन्धुजीवाढकीमूर्वावासासुरसवत्सकाः।
पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकम्॥
श्लोक 136
विशाला बृहती लाक्षा कोविदारशतावरीः।
कटभीदन्त्यपामार्ग पृश्निपर्णी रसाञ्जनम्॥
श्लोक 137
श्वेतौ बाणाश्वखुरकौ कुष्ठदारुप्रियङ्गुकाः।
सारं मधूकात्रिफलां करञ्जस्यफलं वचाम्॥
श्लोक 138
रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम्।
तुल्याम्बुछागगोमूत्रत्र्याढके तद्विषापहम्॥
श्लोक 139
अपस्मारक्षयोन्मादभूतग्रहगरोदरान्।
पाण्डुरोगकृमिप्लीहगुल्मोरुस्तम्भकार्मलाः॥
श्लोक 140
हनुस्तम्भग्रहादींश्च पानाभ्यञ्जननावनैः।
हन्ति सञ्जीवयति च विषोद्बन्धमृतान् नरान्॥
श्लोक 141
भक्षिते हरिताले तु हृदि दाहोरसाग्रहः।
आनाहोम्लस्य वमनं पीतहारिद्रविट्स्रुतिः।
तथा मण्डलिसर्पोक्ता विकारास्तच्च भेषजम्॥
श्लोक 142
विभज्य योजयेत् ऊर्ध्वमधः संशोधितं च तम्।
अङ्कोलजालिनीबीजशुकनासाप्रियङ्गुकाः।
लोध्रध्यामकतालीसनतयष्ट्याह्वगुग्गुलुः॥
श्लोक 143
हीबेरं भद्रकाष्ठं च लेहयेन्मधुसर्पिषा।
दद्यान्नकुलगोपित्तयुक्तं नस्येञ्जने च तत्॥
श्लोक 144
धुर्धूरकोपयोगेन सर्वं पश्यति पीतकम्।
कम्पलालामदच्छर्दिस्मृतिभ्रंशभ्रमान्वितः।
तं वामयेत मधुरैः पाययेद्वा सितापयः॥
श्लोक 145
कोरदूषैर्मदनकैः प्रायो धुर्धूरवत् गदाः।
उन्मादोक्षिविनाशश्च तत्रापि वमनं हितम्।
कूष्माण्डकं च सगुडं बहुशस्तत्र भक्षयेत्॥
श्लोक 146
नानाप्रकारैः संयोगैः कोद्रवा मदहेतवः।
तान्विभज्य यथादोषं चिकित्सेदविरोधिभिः॥
श्लोक 147
दूंषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्।
दूषीविषारिमगदं लेहयेन्मधुनाप्लुतम्॥
श्लोक 148
पिप्पल्योध्यामकं मांसी लोध्रमेला सुवर्चिका।
कुटन्नटं नतं कुष्ठं यष्टी चन्दनगैरिकम्।
दूषीविषारिर्नाम्नायं नचान्यत्रापि वार्यते॥
श्लोक 149
हरीतकी सलवणा मागधी मरिचानि च।
एतद्दूषीविषार्तानां काश्यपोक्तं विरेचनम्॥
श्लोक 150
युञ्ज्याद्वा विषरोगेषु रेके व्योषादिकं भिषक्॥
श्लोक 151
तरुणस्य पलाशस्य स्रुतं क्षारोदकं पचेत्।
क्वाथे तत्र प्रतीवापं प्रक्षिपेच्छ्रलक्ष्णचूर्णितम्॥
श्लोक 152
व्योषं शिरीषकुसुमं मधुकं सारिवे मिसिम्।
कुष्ठं वेल्लनिशे लाक्षां शुक्लां सुरसमञ्जरीम्॥
श्लोक 153
सिन्धूत्थं रक्तमृन्मांसीं रेणुकां हिङ्गुबाल्हिकम्।
दर्वीप्रलेपि तज्जातं गोविषाणे निधापयेत्॥
श्लोक 154
क्षयगुल्मोदरार्शांसि मेहं मन्दाग्नितां ज्वरम्।
त्वग्दोषकासापस्मारग्रहोन्मादभगन्दरान्॥
श्लोक 155
पाण्डुं कण्ठस्वरगदान् प्लीहानं श्वयथुं कृमीन्।
कोलमात्रमतः खादन् जयेत् सर्वविषाणि च॥
श्लोक 156
विषं तेजोमयं मन्त्रैः सत्यब्रह्मतपोमयैः।
यथा निवार्यते शीघ्रं प्रयुक्तैर्न तथौषधैः॥
श्लोक 157
न तु सर्वमनुष्याणां सन्ति भेषजसम्पदः।
अज्ञातरोगसद्भावे योग्यता चातिदुर्लभा॥
श्लोक 158
प्रकुप्यति विषं भूयः केवलैश्चौषधैर्जितम्।
अवाप्तौ सिद्धमन्त्राणां यतेतातश्चिकित्सकः॥
श्लोक 159
तेऽपि च व्रतहीनस्य हीना वा स्वरवर्णतः।
यस्मान्न सिद्धिमायान्ति तस्माद्योज्योऽगदक्रमः॥
श्लोक 160
विषप्रकृतिकालान्नदोषदूष्यादिसङ्गमे।
विषसङ्कटमुद्दिष्टं शतस्यैकोत्र जीवति॥
श्लोक 161
क्षुत्तृष्णाघर्म्मदौर्बल्यक्रोधशोकभयश्रमैः।
अजीर्णवर्चोद्रवता पित्तमारुतवृद्धिभिः॥
श्लोक 162
तिलपुष्पफलाध्राणभूबाष्पघनगर्जितैः।
हस्तिमूषिकवादित्रनिस्वनैर्विषसङ्कटैः।
पुरोवातोत्पलामोदमदनैर्बर्धते विषम्॥
श्लोक 163
वर्षासु चाम्बुयोनित्वात् सङ्क्लेदं गुडवद्गतम्।
विसर्पति घनापाये तदगस्त्यो हिनास्ति च।
प्रयाति मन्दवीर्यत्वं विषं तस्मात् घनात्यये॥
श्लोक 164
इति प्रकृतिसात्म्यर्तुस्थानवेगबलाबलम्।
आलोच्य निपुणं बुध्या कर्मानन्तरमाचरेत्॥
श्लोक 165
श्लैष्मिकं वमनैरुष्णरूक्षतीक्ष्णैः प्रलेपनैः।
कषायकटुतिक्तैश्च भोजनैः शमयेद्विषम्॥
श्लोक 166
पैत्तिकं स्रंसनैः सेकप्रदेहैर्भृशशीतलैः।
कषायतिक्तमधुरैर्घृतयुक्तैश्च भोजनैः॥
श्लोक 167
वातात्मकंजयेत्स्वादुस्निग्धाम्ललवणान्वितैः।
सघृतैर्भोजनालेपैस्तथैव पिशिताशनैः॥
श्लोक 168
नाघृतं स्रंसनं शस्तं प्रलेपो भोज्यमौषधम्।
सर्वेषु सर्वावस्थासु विषेषु न घृतोपमम्।
विद्यते भेषजं किञ्चिद्विशेषात् प्रबलानिले॥
श्लोक 169
रक्तगे स्रावयेद्रक्तं पित्तवच्च क्रियाक्रमः।
दूषीविषे पुनस्तत्स्थे पञ्चकर्माणि चाचरेत्॥
श्लोक 170
गण्डूषैः कवलैः प्राशैस्तीक्ष्णैः प्रधमनाञ्जनैः।
शिरोगतं प्रशमयेद्विषसङ्क्रमणैस्तथा॥
श्लोक 171
विषदुष्टकफस्रोतोरुद्धवायुर्मृतोपमः।
यःस्यादसाध्यलिङ्गैश्च रहितस्तस्य योजयेत्॥
श्लोक 172
मूर्ध्निं काकपदं कृत्वा कल्कं चर्मकसोद्भवम्।
ध्मापनं चास्य कटभीजालिनी कटुकैर्हितम्॥
श्लोक 173
आशये यस्य दोषस्य विषं तिष्ठति तं पुनः।
आश्रयाश्रयिणोर्विद्वानविरोधेन साधयेत्॥
श्लोक 174
क्षारागदः कफस्थानस्थिते स्वेदः सिराव्यधः।
पित्ते क्षौद्रपयोम्लाज्यपानसेकावगाहनम्।
स्वेदो वाताशये दध्ना पानं च नतकुष्ठयोः॥
श्लोक 175
क्षीरेणागदगर्मेण मदनस्य फलेन च।
आस्थापनं प्रयुञ्जीत वाताशयगते विषे॥
श्लोक 176
पचेद्यष्टीमधुक्वाथे तैलं क्षीरचतुर्गुणम्।
त्रिफला सर्पवेताली शतपुष्पेन्दुराजिभिः॥
श्लोक 177
अनन्तया च तत्पाननावनाभ्यङ्गबस्तिषु।
भोजने च प्रणिहितं हन्ति वाताशयाद्विषम्॥
श्लोक 178
वलया सोमराज्या वा पचेत् पाटलयाथवा।
घृतमण्डसमं तैलमानुवासनिकं परम्॥
श्लोक 179
विषोपद्रवपथ्यं च वीक्ष्य युञ्ज्याद्यथामयम्॥
श्लोक 180
अयत्नाच्छ्लेष्मगं साध्यं यत्नात्पित्ताशयाश्रितम्।
सुदुस्साधमसाध्यं वा वाताशयगतं विषम्॥