अष्टाङ्गसंग्रहः उत्तरस्थानम्  38

श्लोक 1

अथातो गुह्यरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

स्त्रीव्यवायनिवृत्तस्य सहसा भजतोथवा।
दोषाध्युषितसङ्कीर्णमलिनाणुरजःपथाम्॥

श्लोक 3

अन्ययोनिमनिच्छन्तीमगम्यां नवसूतिकाम्।
तृषितं स्पृशतस्तोयं रतान्तेष्वपि नैव वा॥

श्लोक 4

विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः।
मुष्टिदन्तनखोत्पीडाविषवच्छूकपातनैः॥

श्लोक 5

वेगनिग्रहदीर्घातिखरशष्पविघट्टनैः।
दोषा दुष्टा गता गुह्यं त्रयोविंशतिमामयान्॥

श्लोक 6

जनयन्त्युपदंशादीन् उपदंशोऽत्र पञ्चधा।
पृथग्दोषैः सरुधिरैः समस्तैश्च अत्र मारुतात्।
मेढ्रशोफो रुजश्चित्राः स्तम्भस्त्वक्परिपोटनम्॥

श्लोक 7

पक्वोदुम्बरसङ्काशं पित्तेन श्वयथुर्ज्वरः॥

श्लोक 8

श्लेष्मणा कठिनः स्निग्धः कण्डूमाञ्छीतलो गुरुः॥

श्लोक 9

शोणितेनासितस्फोटसम्भवोस्रस्रुतिर्ज्वरः॥

श्लोक 10

तीव्रारुगाशुपचनं दरणं कृमिसम्भवः॥

श्लोक 11

याप्यो रक्तोद्भवस्तेषां मृत्यवे सन्निपातजः॥

श्लोक 12

जायन्ते कुपितैर्दोषैर्गुह्यासृक्पिशिताश्रयैः।
अन्तर्बहिर्वा मेढ्रस्य कण्डूला मांसकीलकाः॥

श्लोक 13

पिच्छिलास्रस्रवा योनौ तद्वच्च छत्रसन्निभाः।
तेर्शांस्युपेक्षया घ्नन्ति मेढ्रपुंस्त्वभगातर्वम्॥

श्लोक 14

गुह्यस्य बहिरन्तर्वा पिटकाः कफरक्तजाः।
सर्षपामानसंस्थाना घनाः सर्षपिकाः स्मृताः॥

श्लोक 15

पिटका बहवो दीर्घा दीर्यन्ते मध्यतश्च याः।
सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षवान्॥

श्लोक 16

कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाशुजा॥

श्लोक 17

अलजीं मेहवद्विद्यात् उत्तमां रक्तपित्तजाम्।
पिटकां माषमुद्गाभाम् पिटका पिटकाचिता।
कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा॥

श्लोक 18

पाणिभ्यां भृशसंव्यूढे संव्यूढपिटका भवेत्॥

श्लोक 19

मृदितं मृदितं वस्तु संरब्धं वातकोपतः॥

श्लोक 20

विषमा कठिना भुग्ना वायुनाष्ठीलिका स्मृता॥

श्लोक 21

विमर्दनादिदुष्टेन वायुना चर्म मेढ्रजम्।
निवर्तते सरुग्दाहं क्वचित् पाकं च गच्छति॥

श्लोक 22

पिण्डितं कुथितं चर्म तत्प्रलम्बमधोमणेः।
निवृत्तसंज्ञं सकफं कण्डूकाठिन्यवत्तु तत्॥

श्लोक 23

दुरूढं स्फुटितं चर्म निर्दिष्टमवपाटिका॥

श्लोक 24

वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत्।
स्रोतो मूत्रं ततोभ्येति मन्दधारमेवदनम्।
मणेर्विकासरोधश्च स निरुद्धमणिर्गदः॥

श्लोक 25

लिङ्गं शूकैरिवाकीर्णं ग्रथिताख्यं कफोद्भवम्॥

श्लोक 26

शूकदूषितरक्तोत्था स्पर्शहानिस्तदाह्वया॥

श्लोक 27

छिद्रैरणुमुखैर्यत्तु मेहनं सर्वतश्चितम्।
वातशोणितकोपेन तं विद्याच्छतपोनकम्॥

श्लोक 28

पित्तासृग्भ्यां त्वचः पाकस्त्वक्पाको ज्वरदाहवान्॥

श्लोक 29

मांस्पाकः सर्वजः सर्ववेदनो मांसशातनः॥

श्लोक 30

सरागैरसितैः स्फोटैर्वेदनाभिश्च पीडितम्।
मेहनं वेदना चोग्रा तं विद्यादसृगर्बुदम्॥

श्लोक 31

मांसार्बुदं प्रागुदितं विद्रधिश्च त्रिदोषजः॥

श्लोक 32

कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः।
पक्वानि सन्निपातेन तान् विद्यात्तिलकालकान्॥

श्लोक 33

मांसोत्थमर्बुदं पाकं विद्रधिं तिलकालकान्।
चतुरो वर्जयेदोषां शेषान् शीघ्रमुपाचरेत्॥

श्लोक 34

विंशतिर्व्यापदो योनेर्जायन्ते दुष्टभोजनात्।
विषमस्थाङ्गशयनभृशमैथुनसेवनैः।
दुष्टार्तवादपद्रव्यैर्बीजदोषेण दैवतः॥

श्लोक 35

योनौ क्रुद्धोऽनिलः कुर्याद्रुक्तोदायामसुप्तताः।
पिपीलिकासृप्तिमिव स्तम्भं कर्कशतां स्वनम्॥

श्लोक 36

फेनिलारुणकृष्णाल्पतनुरूक्षार्तवस्रुतिम्।
भ्रंशं वङ्क्षणपार्श्वादौ व्यथां गुल्मं क्रमेण च।
तांस्तांश्च स्वान् गदान् व्यापद्वातिकी नाम सा स्मृता॥

श्लोक 37

सैवातिचरणा शोफसंयुक्तातिव्यवायतः॥

श्लोक 38

मैथुनादतिबालायाः पृष्ठजङ्घोरुवङ्क्षणम्।
रुजन् सन्दूषयेद्योनिं वायुः प्राक्चरणेति सः॥

श्लोक 39

वेगोदावर्तनाद्योनिं प्रपीडयति मारुतः।
सा फेनिलं रजः कृच्छ्रादुदावृत्तं विमुञ्चति॥

श्लोक 40

इयं व्यापदुदावृत्ता जातघ्नी तु यदानिलः।
जातं जातं सुतं हन्ति रौक्ष्याद्दुष्टार्तवोद्भवम्॥

श्लोक 41

अत्याशिताया विषमं स्थितायाः सुरते मरुत्।
अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत्।
सास्थिमांसं मुखं तीव्ररुजमन्तर्मुखीति सा॥

श्लोक 42

वातलाहारसेविन्यां जनन्यां कुपितोनिलः।
स्त्रिया योनिमणुद्वारां कुर्यात् सूचिमुखीति सा॥

श्लोक 43

वेगरोधादृतौ वायुर्दुष्टो विण्मूत्रसङ्ग्रहम्।
करोति योनिशोषं च शुष्काख्या सातिवेदना॥

श्लोक 44

षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयान्मरुत्।
वमेत् सरुङ्नीरुजो वा यस्यां सा वामिनी मता॥

श्लोक 45

योनौ वातोपतप्तायां स्त्रीगर्भे बीजदोषतः।
नृद्वेषिण्यस्तनी च स्यात् षण्डसंज्ञानुपत्रमा॥

श्लोक 46

दुष्टो विष्टभ्य योन्यास्यं गर्भकोष्ठं च मारुतः।
कुरुते विवृतां स्रस्तां वातिकीमिव दुःखिताम्।
उत्सन्नमांसां तामाहुर्महायोनिं महारुजम्॥

श्लोक 47

यथास्वैर्दूषणैर्दुष्टं पित्तं योनिसमाश्रितम्।
करोति दाहपाकोषापूतिगन्धज्वरान्विताम्।
भृशोष्णभूरिकुणपनीलपीतासितार्तवाम्॥

श्लोक 48

सा व्यापत् पैत्तिकी रक्तयोन्याख्यासृगतिस्रुतेः॥

श्लोक 49

कफोभिष्यन्दिभिः क्रुद्धः कुर्याद्योनिमवेदनाम्।
शतिलां कण्डुलां पाण्डु पिच्छिलां तद्विधस्रुतिम्।
सा व्यापच्छ्लैष्मिकी

श्लोक 50

वातपित्ताभ्यां क्षीयते रजः।
सदाहकार्श्यवैवर्ण्यं यस्यां सा लोहितक्षया॥

श्लोक 51

पित्तलाया नृसंवासे क्षवथूद्गारधारणात्।
पित्तयुक्तेन मरुता योनिर्भवति दूषिता॥

श्लोक 52

शूना स्पर्शासहा सर्पिर्नीलपीतास्रवाहिनी।
बस्तिकुक्षिगुरुत्वातिसारारोचककारिणी।
श्रेणिवङ्क्षणरुक्तोदज्वरकृत्सा परिप्लुता॥

श्लोक 53

वातश्लेष्मामयव्याप्ता श्वेतपिच्छिलवाहिनी॥

श्लोक 54

उपप्लुता स्मृता योनिः विप्लताख्या त्वधावनात्।
सञ्जातजन्तुः कण्डूला कण्ड्वा चातिरतिप्रिया॥

श्लोक 55

अकालवाहनाद्वायुः श्लेष्मरक्तविमूर्च्छितः।
कर्णिकां जनयेद्योनौ रजोमार्गनिरोधिनीम्॥

श्लोक 56

सा कर्णिनी त्रिभिर्दोषैर्योनिगर्भाशयाश्रितैः।
यथास्वोपद्रवकरैर्व्यापत् सा सान्निपातिकी॥

श्लोक 57

इति योनिगदा नारी यैः शुक्रं न प्रतीच्छति।
ततो गर्भं न नृह्णणाति रोगांश्चाप्नोति दारुणान्।
असृग्दरार्शोगुल्मादीनाबाधांश्चानिलादिभिः॥
॥इति अष्टत्रिंशोऽध्यायः॥