अष्टाङ्गसंग्रहः उत्तरस्थानम् 29

श्लोक 1

अथातो व्रणविभक्तिपरिज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्त्रेयादयो महर्षयः॥

श्लोक 2

यावदायुर्वृणीते विवृणोति वा शरीरमितिव्रणः॥

श्लोक 3

स च द्विविधो निज आगन्तुश्च।
तत्र निजो दोषसमुत्थः।
आगन्तुः शस्त्रानुशस्त्रोपललगुडनखदशनविषाणविषारुष्करादिनिमित्तः।
सोऽपि पुनर्वातादिभिरधिष्ठितो निजतां लभते॥

श्लोक 4

पुनश्च द्वेधा व्रणो दुष्टः शुद्धश्च।
तत्रदोषदूषितो दुष्टः॥

श्लोक 5

तस्य सामान्यलिङ्गमतिसंवृतविवृतत्वमतिमृदुकठिनतात्युत्सादावसादावतिशीतोष्णभावोतिरक्तकृष्णपाण्डुता पूतीमांससिरास्नायुप्रतिच्छन्नत्वं पुतीपूयास्रावः सोत्सङ्गिता दाहपाककण्डूश्वयथुवेदनासंरम्भपिटकोपद्रवोपद्रुतत्वं दीर्घकालानुबन्धश्च॥

श्लोक 6

विशेषतस्तु पञ्चदशधा भिद्यते॥

श्लोक 7

तत्र श्यावोऽरुणः कृष्णो भस्मास्थिकपोतगलान्यतमवर्णो वा दधिमस्तुक्षाराम्बुमांसधावनपुलाकोदकनिभाल्पस्रावो रूक्षश्चटचटायमानशीलोऽकस्माद्विविधशूलस्फुरणायामतोदभेदस्वापबहुलो निर्मांसश्च वातात्॥

श्लोक 8

क्षिप्रजः पीतनीलहरितकृष्णकपिलपिङ्गलो गोमूत्रभस्मशङ्खकिंशुकोदकमार्द्वीकतैलाभोष्णभूरिक्लेदो दाहोषाज्वररागपाकावदरणधूमायनान्वितः क्षारोक्षितक्षतोपमवेदनः पिटकाजुष्टश्च पित्तात्॥

श्लोक 9

स्निग्धः स्थूलौष्ठाः पाण्डुश्चण्डकण्डूर्नवनीतवसामज्जपिष्टतिलनारिकेलाम्बुसदृशश्वेतशीतबहलपिच्छिलक्लेदः स्वापस्तम्भस्तैमित्यगौरवोपदेहयुक्तः सिरास्नायुजालावततो मन्दवेदनः कठिनश्च कफात्॥

श्लोक 10

प्रवालरक्तः कृष्णस्फोटपिटकाजालोपचितो वाजिस्थानगान्धिः।
सरक्तपूयस्रावी पित्तलिङ्गश्च रक्तात्॥

श्लोक 11

यथास्वलिङ्गसङ्करे द्वाभ्यां त्रिभिः सर्वैश्च दुष्टं विद्यात्।
अपि च।
घृतमण्डाभो मत्स्यधावनगन्धिर्मुदुर्विंसर्पी कृष्णपूयश्च पित्तरक्ताभ्याम्॥

श्लोक 12

वातादिभिरेव च व्रणस्यानधिष्ठानं शुद्धिः।
तत्र यथोक्तदुष्टलिङ्गाभावात् संरम्भरहितत्वं जिह्वावर्णता श्लक्ष्णत्वं नीरुजत्वं निरास्रावता श्यावपर्यन्तत्वं समौष्ठमध्यता किञ्चिदुन्नतमध्यता वा॥

श्लोक 13

त्वङ्मांससिरास्नायुसन्ध्यस्थिकोष्ठमर्माण्यष्टौ व्रणाशयाः।
आशयविशेषाच्चास्रावविशेषः॥

श्लोक 14

तत्र घृष्टासु वा त्वक्षु स्फोटेषु वा भिन्नेषु सलिलप्रकाशो भवत्यास्रावः।
किञ्चिद्विस्रः पीतावभासश्च॥

श्लोक 15

मांसगतः सर्पिःप्रकाशो बहलः पिच्छिलश्च॥

श्लोक 16

सिरागतस्तु सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः।
पक्वासु च तोयनाडीभिरिवाम्भसः पूयस्यागमनम्।
स च तनुर्विच्छिन्नः पिच्छिलोऽवलम्बी श्यावश्च॥

श्लोक 17

स्नावगतः स्निघ्दो घनः सिङ्घाणकप्रतिमः सरक्तश्च॥

श्लोक 18

सन्धिगतः समन्तात् प्रपीड्यमानो न प्रवर्तते तथाकुञ्चनप्रसारणोन्नमननमनप्रवाहणेषु स्रवति पिच्छिलोऽवलम्बी स फेनरुधिरोन्मिश्रश्च॥

श्लोक 19

अस्थि त्वभिहतं स्फुटितं भिन्नं दोषावदारितं वा दोषभक्षितत्वान्निस्सारं भवति।
आस्रावश्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च॥

श्लोक 20

कोष्ठश्रितस्तु व्रणो मूत्र्पुरीषरुधिरपूयोदकानि स्रवति॥

श्लोक 21

मर्मगतस्तु नोच्यते त्वगादिष्वेवावरुद्धत्वात्॥

श्लोक 22

तेषु यथापूर्वं सुखसाध्यत्वम्।
तथायतश्चतुरस्रो वृत्तस्त्रिपुटकश्च व्रणः।
शोषास्तु विकृताकृतयो दुरुपचाराः।
ते च प्रायशो भवन्त्यागन्तवः।
स्वयं विदीर्णाश्च दोषजा न तु वैद्यकृताः॥

श्लोक 23

वयस्थानां दृढानां प्राणवतां सत्ववतामात्मवतां दीप्ताग्नीनां च व्रणाः सुचिकित्स्याः॥

श्लोक 24

तत्र वयस्थानां प्रत्यग्रधातुत्वादाशुव्रणसंरोहो भवति।
दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादीन् न प्राप्नोति।
प्राणवतां वेदनाहारविहारयन्त्रणादिभिर्न ग्लानिः।
सत्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति।
आत्मवतां सुनियमिताहारविहारादिभिरुपदेशैर्नान्यथा भवति दीप्ताग्नीनाम् प्रक्लिन्नदेहत्वात्।
प्रकृतितश्चाप्रक्लेदिशरीराणां तद्वधयोश्च देशकालयोरास्रावदैर्गन्ध्याभावादाशु विशुद्धेन मांसेनानुपद्रवमापूरणम्॥

श्लोक 25

एत एव गुणा वृद्धकृशाल्पप्राणभीरुमन्दाग्निप्रक्लेदिदेहदेशकालेषु विपरीताः शिष्योपनयनीयं चेक्षेत॥

श्लोक 26

तथा स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोशोदरजत्रुमुखाभ्यन्तरस्थाः सुखरोपणीयाः।
विपरीतास्त्त्वक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्तनसन्धिभागगताः। सफेनपूयरक्तानिलवाहिनोन्तःशल्याश्चाधोभागाच्चोर्ध्वभागनिर्वमना रोमान्तोपनखमर्मजङ्घास्थिघ्राणाश्रिताश्च।
भग्न्दरश्चान्तर्मुखः सेवनीकट्यस्थिसंश्रितः।
अपि च॥

श्लोक 27

कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम्।
व्रणाः कृच्छ्रेण सिध्यन्ति येषां च स्युर्व्रणे व्रणाः॥

श्लोक 28

याप्यास्त्ववपाटिका निरुद्धमणिरुद्धगुदव्रणग्रन्थिप्रभृतयः सर्वास्थिक्षतं च॥

श्लोक 29

असाध्याः पुनर्मांसपिण्डवदुद्गताः प्रसेकिनोन्तःपूया वेदनावन्तश्च पायुवदुद्वृत्तौष्ठाः कठिना गोशृङ्गवदुन्नतमांसप्ररोहा दुष्टशोणितास्राविणस्तनुपिच्छिलास्रावस्राविणो वा मध्योन्नताः समवसन्नसुषिरपर्यन्ताः शणतूलवत्स्नायुजालवन्तो दुर्दर्शना मेदोमज्जवसामस्तुलुङ्गस्राविणश्च दोषसमुत्थाः पीतासितामूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः रक्तशयजाश्च क्षारोदकसमास्रावाः पक्वाशयजाश्च पुलाकोदकमिव स्रवन्तः क्षीणमांसानां च सर्वतोगतयस्त्वणुमुखमांसबुद्बुदवन्तः सशब्दवातवाहिनश्च शिरःकठस्था विसर्पज्वरपिपासारोचकाविपाककासश्वासातीसारच्छर्दियुक्ताः भिन्नो च शिरःकपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुभावो वा स्यादिति।
भवति चात्र॥

श्लोक 30

स्नायुक्लेदात् सिराच्छेदात् गाम्भीर्यात् कृमिभक्षणात्।
अस्थिभेदात् सशल्यत्वात् सविषत्वादतर्किंतात्॥

श्लोक 31

मिथ्याबन्धादतिस्नेहाद्रौक्ष्याद्रोमादिघट्टनात्।
क्षोभादशुद्धकोष्ठत्वात् सौहित्यादतिकर्शनात्॥

श्लोक 32

मद्यपानाद्दिवास्वप्नाद्व्यायामाद्रात्रिजागरात्।
व्रणो मिथ्योपचाराच्च नैव साध्योपि सिध्यति॥

श्लोक 33

कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः।
स्थिराश्च पिटकावन्तो रोहतीति तमादिशेत्॥
॥इति एकोनत्रिंशोऽध्यायः॥