अष्टाङ्गसंग्रहः उत्तरस्थानम्  22

श्लोक 1

अथातः कर्णरोगमप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयोमहर्षयः॥

श्लोक 2

वातजे कर्णशूले रात्रौ रात्रौ रसभोजनोत्तरं वातहरद्रव्यसिद्धं सर्पिः पिबोन्निरन्नो वा पयोनुपानम्॥

श्लोक 3

ततो दशमूलसिद्धे छागे पयसि गोशृङ्गनिहितेऽग्निवर्णान् पाषाणान् सन्दंशेन गृहीत्वावपेत्।
तेनोष्मणा नाडीस्वेदेन च स्वभ्यक्तं स्वेदयेत्।
बिल्वयवकोलकुलत्थमाषार्कशिग्रुपत्रैर्वा सानूपमांसैः क्वथितैः॥

श्लोक 4

स्विन्नं च पूरयेत् कुष्ठरास्नामधुकवंशावलेखशुण्ठीशिखिचन्द्रकमाषसरलपयोविपक्वेन तैलेन।
जीवकमधुककुष्ठमण्डूकीदेवदारुमहौषधकल्काष्टगुणक्षीरिसिद्धेन वा॥

श्लोक 5

मयूरनालकुलत्थागरुमाषदेवदारुकल्कक्षारशुक्ताम्लसाधिताभ्यां वा तैलवसाभ्याम्।
मधुकक्षीरकाकोलीमाषशतावरीकल्कसर्वगन्धोदकक्षीरविपक्वया वा वराहवसया॥

श्लोक 6

रास्नामधुककाकोलीदेवदारुकल्कपयोविपाचितया वा शिंशुमारवसया।
मांसीकुष्ठमेदासरलसुरभिमधुकक्षीरविपक्वया वा गोधावसया॥

श्लोक 7

जीवकशताह्वामधुकमांसीक्षीरसिद्धां कुक्कुटमयूरवसां कर्णपूरणनस्याभ्यङ्गेषु विदध्यात्।
मधुकक्षीरकाकोलीकल्केन चतुर्गुणशिग्रुह्रस्वपञ्चमूलकैरण्डपत्ररसमष्टगुणक्षीरसाधितं तैलं वा॥

श्लोक 8

घृततैलवसाभ्यक्तानि तरुणान्यश्वत्थपत्राणि पुटपाक्स्विन्नानि प्रपीड्य तद्रसेन कर्णं पूरयेत्॥

श्लोक 9

तद्वच्च तैललवणाभ्यक्तान्यर्कोरुपूगमूलकारलुकबिल्वमहावृक्षान्यतमपत्राणि॥

श्लोक 10

महापञ्चमूलसरलागरुदेवदार्व्यन्यतमकाष्ठमष्टादशाङ्गुलं त्रिभागे क्षौमेणावेष्ट्य तैलेन सिक्त्वाग्रे प्रदीपयेत्।
ततो दह्यमानाद्यः स्नेहः पतति स सद्यः कर्णरुजमपहरति॥

श्लोक 11

मधूच्छिष्टकैडर्यमधुशिग्रुफलवचायवनलदैलागुग्गुलुभिः श्लक्ष्णपिष्टैः क्षौमवस्त्रं धूमवर्त्तिप्रमाणपरिणाहं लेपयेत्ततः सूत्रेणावेष्ट्य डुण्डुकनालेन धूमं पातुं दद्यात्॥

श्लोक 12

डुण्डुकनालमेववानेन कल्केनाभ्यज्य विशोषयित्वा धूमं विदध्यात्॥

श्लोक 13

श्रेयसीदेवदारुकाकोलीकुष्ठनिचुलबीजैः क्षीरपिष्टैस्तिलयुतैः कर्णं बहिर्लेपयेत्।
सर्वधान्यस्नेहगोक्षीरसिद्धामुत्कारिकामेरण्डपत्रावच्छादिते कर्णे स्वेदार्थं प्रणयेत्।
पुनः पुनश्च नाडीस्वेदान् पिण्डस्वेदांश्च।
वातव्याधिप्रतिश्यायार्दिताविधानं च सनिरूहानुवासनं कुर्यात्॥

श्लोक 14

परिहार्याणि च परिहरेद्विशेषतः प्रवातं शीताम्बुपानं शिरःस्नानं च॥

श्लोक 15

पित्तजे तु शूले प्रातः शर्करायुतं सर्पिः पाययेत्।
ततः स्निग्धं विरेचयेत्।
द्राक्षामधुकसिद्धं स्तन्यं कर्णपूरणं प्रयुञ्जीत।
माक्षिकं वा।
मधुकपद्मककल्कस्तन्य्सिद्धं वा सर्पिः।
सितामधुकखर्जूरमृद्वीकाभिर्वा सक्षीरेक्षुरसं प्रियालकतैलं पाचितमभ्यङ्गनस्यकर्णपूरणैः शूलदाहघ्नम्॥

श्लोक 16

मधुककुडवं षोडशगुणेनाम्भसाष्टावशेषं साधयित्वा तेन तैलार्द्धकुडवमष्टगुणक्षीरं यष्टीसधुकोशीरसारिवाकाकोलीजीवकानन्तामृणालमञ्जिष्ठालोध्रचन्दनबिसगर्भं पचेत्।
तच्च पूर्ववत् प्रणयेत्॥

श्लोक 17

एषामेव च कल्केन सघृतेन कर्ण परितो लेपयेत्।
स्वेदयेच्च।
तथा क्षीरसर्पिर्नस्यं शिरोभ्यङ्गश्च।
एवमप्यनुपशमे तु पुनर्विरेकः॥

श्लोक 18

कफजे पिप्पलीविपक्वं घृतमथवा सक्षौद्रं पाययित्वा तं वामयेत्।
ततस्तीक्ष्णं धूमं पाययेत्॥

श्लोक 19

कर्णं चास्य पूरयेत् सरलदेवदारुहिंस्रापटोलपत्रसुरससिद्धेन तैलेन।
देवदारुपिप्पलीमालतीपत्रक्वाथहरिद्राकुष्ठत्रिफलैलाक्वाथकल्कसिद्धेन वा।
रसाञ्जनमार्कववैजयन्तीशिग्रुलशुनार्द्रकमूलकदलीनां वा पृथक् समस्तानां वा रसेन मधुना वा रक्षोघ्नतैलेन वा।
तथा शूलशोफगौरवाणि प्रशाम्यन्ति॥

श्लोक 20

धान्याम्लक्वथितदशमूलबाष्पेण नाडीस्वेदमाचरेत्।
स्विन्नं कुशाम्रत्रिवृन्नलदशुण्ठीमुस्तसाधितेन तैलेन पूरयेत्।
कफघ्नांश्च गण्डूषान् धारयेत्॥

श्लोक 21

रक्तजे पैत्तिकवत् सिद्धिः सिराव्यधश्च॥

श्लोक 22

पक्वेषु कर्णशूलेषु पूयप्रवाहिषु यथास्वं धूमनस्यगण्डूषवमनान्याचरेत्॥

श्लोक 23

उपदिग्धं च स्रोतः सायंप्रातः पिचुवर्तिभिः प्रमृज्य यवागरुमदनैः सघृतैर्गुग्गुलुना वा धूपयित्वा मधुना पूरयेत्॥

श्लोक 24

पलाशधवतिनिशककुभसर्जत्वक्क्वाथ रसक्रियया स्वभ्यक्तां पिचुवर्तिं स्रोतसि दद्यात्।
बदरीसल्लकीजम्बूधातकीवटप्लक्षोदुम्बरक्वाथेनैवमेव च रसक्रियया।
हरिद्राधातकीत्रिफलाजम्बूसल्लकीकिंशुकक्वाथेन च।
तथा सौराष्ट्रिकापद्मकधातकीसमङ्गाश्वत्थधवलोध्ररसाञ्जनक्वाथेन॥

श्लोक 25

एभिरेवौषधैः सूक्ष्मचूर्णीकृतैः स्रोतसोऽवकिरणमेवं क्लेदशूलगौरवाणि शाम्यन्ति।
एषामेव च कषायेण सक्षौद्रेण कपित्थस्वरसेन वा प्रक्षालनम्।
तथा सुरसादिवर्गः प्रक्षालनावचूर्णनयोः प्रयोज्यः॥

श्लोक 26

नादबाधिर्ययोर्वातशूलोक्तः सर्वो विधिः।
श्लेष्मानुबन्धे तु प्राक्श्लेष्माणमपहरेद्वमननावनाभ्यां तीक्ष्णधूमैश्च॥

श्लोक 27

बाधिर्यं च बालवृद्धक्षीणकासशोषिणां चिरोत्थितं च वर्जयेत्॥

श्लोक 28

इतरत्तु स्नेहस्वेदनस्यशिरोबस्तिबस्तिकर्मप्रभृतिभिर्दोषानुबन्धमवेक्ष्य साधयेत्॥

श्लोक 29

तत्र प्रागेव पुराणसर्पिषा वा वातहरतैलेन वा स्निग्धं स्नेहेनैव विरेचयेत्।
कृतसंसर्जनस्य पुनः स्निग्धस्य शोणितमपहरेत्।
कर्णासन्नं जलौकोभिस्ततो बस्तिकर्ममूर्धतैलनस्यधूमान् कर्णपूरणं च शीलयेत्॥

श्लोक 30

तरुणबिल्वफलानि गोमूत्रेण क्वाथयेत्तेन क्वाथेन सितामधुकबीजकबीजकल्केन च पयोयुक्तं तैलं पाचयेत्।
तत्तैलमुष्णं शीते बिल्वक्वाथे प्रक्षिप्य मन्थयेत् यावत् पिण्डीभूतमुद्धृत्य चैतत्पुनरन्यत्र बिल्वोदके मन्थयेत्।
ततश्चोद्धृत्याष्टगुणे पयसि मधुकगन्धचन्दनगर्भं साधितमाशु कर्णपूरणात् बाधिर्यं नाशयति॥

श्लोक 31

तिलान् नवप्रलूनान् वस्त्रबद्धान् वहन्तीष्वप्सु रात्रिमुषितान् दिवा शोषयेत् पञ्चरात्रम्।
एवं गते पञ्चरात्रे मधुयष्टिकाक्षीरकाकोलीमहापञ्चमूलदेवदारुशताह्वाजीवकक्वथिते पयसि पञ्चाहमेवं वासयेच्छोषयेच्च।
ततोनेनैव क्षीरेणैषामेव च द्रव्याणां चूर्णमात्रया युक्तान् प्रपीडयेत्।
तत्तैलं नीलोत्पलानन्ताचन्दनागरुमधुकजीवककाकोलीसुनिषण्णकमूलकल्कैरष्टगुणेन पयसा पचेत्।
एतन्नस्ये कर्णपूरणे शिरसि चाभ्यञ्जने प्रणीतमाशु शूलनादबाधिर्याणि सर्ववातविकारांश्च पित्तानुबन्धानपोहति भग्नास्थिसन्धानजननं च॥

श्लोक 32

शुष्कमूलकभस्मक्षारद्वयहिङ्गुशुण्ठीमिसिवचाकुष्ठमरदारुसौभाञ्जनभूर्जग्रन्थिमुस्तालवणत्रयैः सोद्भिदैस्तैलं शुक्तकदलीबीजपूरकरससंयुक्तं सिद्धं शूलनादबाधिर्यकण्डूशोफक्लेदोपदेहकृमिपूतिकर्णेषु॥

श्लोक 33

अथ कर्णौ सुप्ताविव भवतस्तत्समीपे यथोक्तां सिरां मोक्षयेत्।
सश्वयथुपरिस्रावे मन्दश्रुतेर्वमनमाचरेत्॥

श्लोक 34

प्रतीनाहे स्नेहस्वेदक्लिन्नं कर्णं कर्णशोधनेन विशोध्य तैलस्य पूरयेन्मातुलुङ्गरसस्य वा सशुक्तक्षौद्रसैन्धवस्य॥

श्लोक 35

शोध्यमाने वेदना रक्तागमो वा यदि भवेत्ततो घृतमण्डेन पूरयेन्नस्यं च शीलयेत्।
मलपूर्णेप्येष एव विधिः॥

श्लोक 36

कण्ड्वां तीक्ष्णनस्यधूमादीन् कफघ्नान्वितरेत्।
रूक्षतिक्तकटुश्चाहारः।
शोफेप्येवमेव विधिः।
कटुतीक्ष्णोष्णाश्च प्रदेहपरिषेकाः॥

श्लोक 37

पूतिकर्णे कर्णस्रावोक्तो विधिः कृमिकर्णे च।
विशेषतश्चात्र कृमिघ्नः।
तथा सर्षपतैलेन पूरणम्।
हरितालचूर्णवता गोमूत्रेण वा।
वार्ताकबीजेन धूपनम्॥

श्लोक 38

कर्णविद्रधिं वमनपूर्वं विद्रधिवदामं पक्वं च चिकित्सेत्।
क्षतविद्रधिं पित्तकर्णशूलवदर्शांसि नासार्शोवदर्बुदानि च॥

श्लोक 39

विदारिकामामां कर्णविद्रधिवद्यथादोषोदयं च साधयेत्॥

श्लोक 40

पालीशोषे वातशूलवन्नस्यमालेपं स्वेदंच कुर्यात्।
स्विन्नमुद्वर्त्तयेत्तिलप्रियालबीजमधुकयवाश्वगन्ध्हाकल्केन॥

श्लोक 41

उद्वर्तितं च मधुकपयस्याशतपुष्पाश्वगन्धाकल्काष्टगुणवाजिगन्धाबृहत्यभीरुक्वाथक्षीरसाधितेन तैलेनाभ्यज्यात्।
शतावर्यश्वगन्धैरण्ड्Aपयस्याजीवकक्षीरसिद्धेन वा॥

श्लोक 42

गोधाप्रतुदविष्किरानूपौदकमांसवसामज्जानं सर्पिस्सर्षपतैलं च यथालाभं सङ्गृह्यार्कालर्कबलातिबलानन्ताविदारिगन्धाजलशूकमधुरवर्गप्रतीवापं विपचेदयमभ्यङ्गः पाल्याः परं मांसजननः॥

श्लोक 43

एवमपि तु या क्षीयते पाली तस्या यद्दुष्टं तच्छित्वा विधिवत् सन्धाय यथोक्तेन क्रमेणोपचरेत्॥

श्लोक 44

तन्त्रिकामपि चैवमेव नस्याभ्यङ्गादिभिर्यापयेत्॥

श्लोक 45

परिपोटकेप्ययमेव विधिः।
तथा मधुकखरमञ्जरीसैन्धवाश्वगन्धादेवदारुमूलकावल्गुजफलमूलमधूच्छिष्टैः सक्षीरैर्महास्नेहः सिद्धोभ्यङ्गः।
तिलमधुकप्रपौण्डरीकसिद्धार्थकघृतक्षीरकृतयोत्कारिकयोपनाहः॥

श्लोक 46

उत्पाते जलौकोभिरपनीतरक्ते शीतैः प्रदेहः।
तिलमधुकसारिवोत्पललोध्रकदम्बबलाम्रजम्बूपल्लवैस्सधान्याम्लं तैलं साधितमभ्यङ्गः।
तथा क्षीरसर्पिर्विसर्पोक्तानि च घृतानि॥

श्लोक 47

उन्मन्थे तीक्ष्णैः शिरोविरेकः।
तिलसर्षपलोध्रहरिद्राद्वयैरुद्वर्तितायाः कर्णपाल्यास्तालीसतमालैलाकट्फलरसाञ्जनैर्लेपः तालपत्र्यश्वगन्धार्कसैन्धवावल्गुजबीजसुरसलाङ्गलिकाभिर्गोधाकुलीरवसायुक्तं तैलं विपक्वमभ्यञ्जनम्।
तैलमेव वा पटोलकटुरोहिणीरसाञ्जनीशरीषैः॥

श्लोक 48

दुःखवर्द्धने जम्ब्वाम्राश्मन्तकपत्रक्वाथपरिषिक्तां कर्णपालीं तैलेनाभ्यज्य यष्टीमधुकहरिद्राप्रपौण्डरीकमञ्जिष्ठाचूर्णेनावचूर्णयेत्।
लाक्षाविडङ्गपक्वेन तैलेनाभ्यञ्जयेत्॥

श्लोक 49

लेहिकापिटकासु कर्णपालीं बहुशो गामयापण्डस्विन्नामुरभ्रीमूत्रपिष्टैः कृमिघ्नैरालिम्पेत्।
कुटजकरञ्जेङ्गुदबीजारग्वधत्वग्भिर्वा।
एभिरेव च सर्वैस्समरिचनिम्बपत्रमधूच्छिष्टैस्सर्षपतैलं सिद्धं लेहिकाव्रणघ्नोऽभ्यङ्गः परिदहने जलजाभिरसृक् स्रावयेत्।
शीतैश्च प्रदिह्यात्॥

श्लोक 50

सर्वेषु च पालीरोगेषु स्नेहस्वेदशोधनाभ्यङ्गप्रदेहनस्यास्रविस्रवणानि यथार्हं प्रयुञ्जीत।
प्रकोपकारणानि च परिहरेत्॥

श्लोक 51

उत्पच्यमानायां तु पाल्यां सर्जरसापामार्गपटोलनिम्बनिचुलत्वग्भिरालेपः।
उत्पुटन्त्यां शिग्रुशम्याकपूतीकगोवराहपित्तगोधावसासपिर्भिः।
श्यावायां गौरीसुगन्धाश्यामानन्तातण्डुलीयकमूलैः।
कण्डूमत्यां पाठानन्तातार्क्ष्यशैलेयमाक्षिकैः।
दह्यमानायां क्षीरिवृक्षजीवनीयकल्कमधुघृतैः।
व्रणितायां क्षौद्रजीवनीयैः।
कृशायां गोधावराहवसाभिः।
ग्रथितायां ग्रन्थिं पाटयित्वा विलिख्य च कृष्णासैन्धवमधुभिः प्रतिसारयेत्।
स्नाववत्यां मधुमधुकमधूकमधुपर्णीभिर्लेपः।
एभिरेव च यथास्वं स्नेहानभ्यङ्गार्थं प्रकल्पयेत्॥

श्लोक 52

अथ रोगतो बलाद्वा विच्छिन्नं कर्णमनुसन्दध्यात्॥

श्लोक 53

समासतस्तु पञ्चदश कर्णसन्धयः प्रायो नामानुगतसंस्थानस्थानविशेषतया सम्भवन्ति॥

श्लोक 54

तद्यथा।
पृथुलायतसमोभयपालीश्चक्रनेभिः॥

श्लोक 55

वृत्तायतसमोभयपालिरुत्पलभेदकः॥

श्लोक 56

अभ्यन्तरदीर्घपालिः कवाटः॥

श्लोक 57

विपरीतोर्द्धकवाटः॥

श्लोक 58

ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः॥

श्लोक 59

अणुस्थूलसमविषमपालिर्व्यायोजिमः॥

श्लोक 60

बाह्यपालिर्गण्डाधारः॥

श्लोक 61

अतोविपरीतस्त्वासङ्गिमः॥

श्लोक 62

अपालिराहार्यः।
स एव मांसलपीठो निर्वेधिमः॥

श्लोक 63

शुष्कशष्कुलिरुत्सन्नपालिः॥

श्लोक 64

इतराल्पपालिः सङ्क्षिप्तः॥

श्लोक 65

अनधिष्ठानपालिः पर्यन्तयोश्च क्षीणमांसो हीनः॥

श्लोक 66

तनुविषमपालवाल्लः॥

श्लोक 67

ग्रथितनिर्मांसस्तब्धसिरावृतसूक्ष्मपालिर्यष्टी॥

श्लोक 68

निर्मांससङ्क्षिप्ताग्राशोणितपालिः काकौष्ठ इति॥

श्लोक 69

एषामाद्या दश सिध्यन्ति।
न त्वितरे॥

श्लोक 70

तत्र बाह्यायां पाल्यां दीर्घायामाभ्यन्तरः सन्धिः।
तथेतरायां बाह्यः।
समः समयोश्च॥

श्लोक 71

अण्वादिविषमयोस्तु परस्परविपर्ययौ॥

श्लोक 72

या त्वेकैव पाली स्थूला पृथ्वी स्थिरा च स्यात् तां द्विधा पाटयित्वोपरि छित्वा सन्दध्यात्॥

श्लोक 73

गण्डोत्कृत्तेन वा सशोणितेन सानुबन्धेन मांसेन पालीं कल्पयेत्।
यस्य पालीद्वयमपि नास्ति तस्याप्येष एव विधिः।
अथवा समानवयोदोषादेः सञ्चार्य कर्णपीठं समं मध्य निवेश्य वर्द्धयेत्॥

श्लोक 74

सन्धानविधिः पुनरातुरे ग्रथितकेशान्ते बन्धनमुपघारिते छेद्यभेद्यलेख्यैरुपपन्नैरुपपाद्य कर्णं शोणितमवेक्षेत दुष्टमदुष्टं वेति॥

श्लोक 75

ततो वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे क्षीरशीतोदकाभ्यां श्लेष्मदुष्टे वारुणीसलिलाभ्यां प्रक्षाल्य पुनश्चावलिख्यानुन्नतमहीनविषमं सन्धिं निवेश्य ततो मधुघृताभ्यामभ्यज्य पिचुप्लोतयोरन्यतरेणावगुण्ठ्य सूत्रेण नातिगाढमशिथिलं च बध्वा सिराव्यथोक्तेन कपालस्य वा चूर्णेनावकीर्याचारिकमुपदिशेत्॥

श्लोक 76

सन्धिमश्लिष्यन्तं क्षौमसूत्रेण सीव्येत्।
अतिक्षीणपालिकं वा शोणिताक्तेन पिचुना वेष्टयेत्।
व्रणवच्चैनमुपाचरेत्।
त्र्यहाच्चतुरहाद्वा सलिलेन परिषिच्य पिचुं सूत्रं चापनयेत्।
न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा कर्णं सन्दध्यात्॥

श्लोक 77

तस्य हि स्वयमपि सन्धिर्विश्लिष्यते आध्मायते श्यावतामुपैति पच्यते शुष्यति चिराद्रोहति रूढोप्याभरणं न क्षमते।
सशोफकण्डूसन्तापो ग्रन्थिमांश्च भवति।
तत्र च यथास्वं प्रतिकुर्वीत।
दुष्टरक्ते च रक्तमवसेचयेत्।
क्षीणरक्तं स्नेहपाननस्यमांसरसाशनाभ्यङ्गैर्बृंहयेत्॥

श्लोक 78

सर्वत्र चैवमपि सोपद्रवसन्धौ सन्धिं विमुच्य पूर्वापचारोपस्थापितस्मृतिः सम्यक्सन्दधीतेति।
भवति चात्र॥

श्लोक 79

न कर्णे शोफरागादियुक्ते सन्धानमाचरेत्।
न घस्मरस्य नात्युष्णे नाविशुद्धतनोरपि॥

श्लोक 80

सुरूढं जातरोमाणं श्लिष्टसन्धिं समं स्थिरम्।
सुवर्ष्माणमरोगं च शनैः कर्णं विवर्द्धयेत्॥

श्लोक 81

अन्यथा दाहरुक्तोदशोफाः स्युस्तत्र कारयेत्।
शीतान्प्रदेहसेकादीन् शुद्धिं च क्लेदनाशिनीम्॥

श्लोक 82

स्नेहावानूपजौ तैलं सर्पिर्लाक्षारसं समम्।
साधयेन्मधुरस्कन्धहयगन्धामयूरकैः॥

श्लोक 83

पिष्टैर्दशगुणक्षीरे तत्परं कर्णवर्द्धनम्।
कठिनाः सरुजः क्षामाः पाल्यः स्वेदितमर्द्दिताः।
अभ्यक्तास्तेन जायन्ते मृदवो नीरुजः स्थिराः॥

श्लोक 84

बृहत्यौ कच्छुरां वारिशूकमर्कजटां घृतम्।
माक्षिकं शङ्खिनीं तैलं सप्ताहं ताम्रभाजने।
थापयेत् तत्परं कर्णमालेपात् पोषयेत् कृशम्॥

श्लोक 85

चर्मचटिका जलौको हयबन्धा शबरकन्दकं तुल्यम्।
माहिषनवनीतयुतं कपित्थगं कर्णवर्धनं साक्षात्।
कुर्याच्चाभ्यञ्जनालेपान् पलिशोषे प्रकीर्तितान्

श्लोक 86

अथ कुर्याद्वयस्थस्य च्छिन्नां शुद्धस्य नासिकाम्।
छिन्द्यान्नासासमं पत्रं तत्तुल्यं च कपोलतः॥

श्लोक 87

त्वङ्मांसं नासिकासन्ने रक्षस्तत्तनुतां नयेत्।
सीव्येत् गण्डं ततः सूच्या सीवन्या पिचुयुक्तया॥

श्लोक 88

नासाच्छेदेथ लिखिते परिवर्त्योपरि त्वचम्।
कपोलवध्रं सन्दध्यात् सीव्येन्नासां च यत्नतः॥

श्लोक 89

नाडीभ्यामुत्क्षिपेदन्तः सुखोच्छ्वासप्रवृत्तये।
आमतैलेन सिक्त्वानु पतङ्गमधुकाञ्जनैः॥

श्लोक 90

शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत्।
ततो मधुघृताभ्यक्तं बध्वाचारिकमादिशेत्॥

श्लोक 91

ज्ञात्वावस्थान्तरं कुर्यात् सद्योव्रणविधिं ततः।
छिन्द्याद्रूढेधिकं मांसं नासोपान्ताच्च चर्म तत्।
सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्धयेत् पुनः॥

श्लोक 92

निवेशिते यथान्यासं सद्यःच्छिन्नेप्ययं विधिः॥

श्लोक 93

नाडीयोगाद्विनौष्ठस्य नासासन्धानवद्विधिः॥
इति द्वाविंशोऽध्यायः॥