अष्टाङ्गसंग्रहः उत्तरस्थानम् 19

श्लोक 1

अथातोऽभिष्यन्दप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयोमहर्षयः॥

श्लोक 2

अथ खलु सर्वगाक्षिरोगाणां पूर्वरूप एव शिरोविरेककवलधूमोपवासानासेवेतान्यत्र मारुतोद्रेकात्॥

श्लोक 3

सर्वत्र तु चन्दनमरिचपत्रैलास्वर्णगैरिकतगररसाञ्जनलवणयष्ट्याह्वैर्बिडालकं कुर्यात्॥

श्लोक 4

तथा दार्वीतुत्थहरीतकीभिर्वातपित्ते।
कफे तु हरीतकीनागररसाञ्जनस्वर्णगैरिकैः॥

श्लोक 5

अपि च।
कुष्ठामिसिपिप्पलीचन्दनोत्पलैर्बिडालको वेदनाघ्नः।
मुस्तागरुचन्दनैः क्षौद्रयुतैः शूलदाहरागघ्नः।
सन्धवागरुत्रिजातकत्रिकटुकस्वर्णगैरिककुष्ठतगरशैलेयकैः शूलश्वयथुदाहरागनुत्॥

श्लोक 6

शिग्रुफलमनोह्वाशाबरलोध्रैः क्रमाच्चतुर्गुणप्रवृद्धैः श्लक्ष्णरजोभिः सूक्ष्मतान्तवस्थैर्नयनमवचूर्णयेत्॥

श्लोक 7

श्वेतलोध्रत्वचं बहिर्विलिखितां निम्बपत्रकल्केन प्रदिग्धां पुटपाके विपक्वामर्धपलोन्मितां मरिचचतुष्टययुक्तां श्लक्ष्णरजीकृतां वस्त्रबद्धामक्ष्ण्यवकिरेत्।
एतदवगुण्ठनं शूलदाहाश्रुश्वयथुकण्डूषापाकक्लेदोपदेहहरम्।
तयैव च पोट्टलिकयाश्च्योतनकालेऽवन्तिसोमाप्लुतयाश्च्योतयेत्॥

श्लोक 8

पूर्ववद्वा लोध्रवल्कलकल्कमुपस्कृतं तन्मात्रमेव मरिचद्वयेन मनश्शिलापादेनाष्टांशकैश्च यष्टीमधुकशतपुष्पाञ्जनैर्युक्तं प्रकल्पयेत्।
अपि च॥

श्लोक 9

आरण्याश्छगणरसे पटावबद्धाः सुस्विन्ना नखवितुषीकृताः कुलत्थाः।
तच्चूर्णं सकृचूदवर्णनान्निशीथे नेत्राणां विधमति सद्य एव कोपम्॥

श्लोक 10

अथ दारुहरिद्रापलमुदकार्धप्रस्थेनाष्टांशशेषं क्वथितं माक्षिकयुक्तमाश्च्योतनं कुर्वीत॥

श्लोक 11

एवं चानुपशमे वाताभिष्यन्दिनमादावेव जाङ्गलरसैर्भेजयित्वा दशमूलरास्नात्रिफलाक्वाथेन जीवनीयकल्केन च पयोयुतं सिद्धमितरद्वा पुराणसर्पिः पाययेत्॥

श्लोक 12

आश्च्योतनं चास्यैरण्डमूलपल्लवैः शृतमजाक्षीरं कुर्यात्।
सालपर्णीपृश्निपर्णीद्विबृहतीमधुकोरुपूगैर्वा।
तद्वत्तगरद्रीबेरशार्ङ्गेष्ठोदुम्बरमधुकपिप्पलीबृहतीद्वयैरण्डमूलैर्वा॥

श्लोक 13

अंशुमतीद्वयबृहतीकण्टकारिकाभिर्वा तान्तवावबद्धाभिः सुरामद्यधान्याम्लान्यतमाप्लुताभिरानूपमांसाम्लक्वाथेन वा॥

श्लोक 14

तैरेव च मांसैर्वेशवारीकृतस्विन्नैर्महास्नेहवद्भिर्यवचूर्णलवणप्रगाढामुत्कारिकां कृत्वा ललाटगण्डादीन् स्वेदयेत्॥

श्लोक 15

अथवा रास्नाभीरुदशमूलबलाकोलकुलत्थयवानामजाक्षीरस्विन्नानां बाष्पेण।
रास्नादिभिरेव सिद्धं तैलं सर्पिर्वा नावनम्।
एवंविधैरेव नाडीस्वेदं कुर्यात्॥

श्लोक 16

सरलसुरभिघनदेवदारुहिंस्राकरञ्जफलबिल्वसर्षपैश्च सभृष्टतिलैः पयसा पिष्टैः सुखोष्णैर्मुखालेपोऽक्षिवेदनास्तम्भप्रशमनः॥

श्लोक 17

एवमस्यानुपशान्तरुजः सिरां मोक्षयेत्।
स्नेहस्वेदविष्यन्दं हि वातदुष्टमसृङ्निर्द्रियमाणं नानिलप्रकोपाय।
पुनश्च स्निग्धाय तिल्वकेन संयुक्तं वा तिल्वककषायानुपानं सर्पिर्विरेचनं दद्यात्।
शुद्धं च वातप्रतिश्यायवदास्थापयेदनुवासयेच्च॥

श्लोक 18

अथ तिलान् निस्तुषान् बिल्वफलक्वाथेन भावयेन्निशि दिवा शोषयेदेवं पञ्चाहम्।
तेभ्यस्तैलं गृहीत्वा वराहमेदोयुक्तं बिल्वमूलमधुयष्टिकाकल्केन पयसा च पचेत्।
तेन नस्यं शिरोबस्तिं च कुर्यात्।
सर्वगन्धनिर्यूहेण वा मधुकगर्भं सक्षीरं तैलम्।
स्नैहिकं च धूमं पिबेत्॥

श्लोक 19

उपशान्तरुजोऽस्य च तर्पणम्।
काश्मर्यमधुकः कुमुदोत्पलोरुपूगकुष्ठबृहतीतमालमांसीसारिवाप्रपौण्डरीकदर्भमूलकशेरुकाभिः पयः साधयेत् तत्तर्पणनस्याभ्यङ्गेषु विदध्यात्॥

श्लोक 20

कृष्णसर्पशिरो वा क्षीरे क्वाथयेत्।
ततः स्नेहमुद्धृत्य चन्दनोशीरशर्करोत्पलकल्केन क्षीरवता पक्वं तर्पणम्।
अथवा पञ्चमूलजीवनीयकुक्कुटमांसैःपयो विपचेत्, ततो नवनीतं घनानन्तासारिवोशीरचन्दनैः सपयस्कैः साधयेत्॥

श्लोक 21

पुटपाकं च छागोरभ्रवराहाणामन्यतमस्य यकृत् पिप्पलीसैन्धवमधुघृतोपेतं कुर्यात्।
अञ्जनं चास्य दृक्प्रसादनार्थम्॥

श्लोक 22

कृष्णतिलान् निस्तुषान् कृत्वा स्तन्येन सप्ताहं भावयेच्छोषयेच्च।
तच्चूर्णं सितोपलासमं कृत्वा मधुकार्धभागेन सैन्धवांशेन कृष्णसर्पशिरसश्चान्तर्धूमदग्धस्य भागेन संसृष्टं दिव्योदकपिष्टां गुटिकां कारयेत्॥

श्लोक 23

गोधासर्पवसायामाजमेदसि च सैन्धवपिप्पलीचूर्णं रसाञ्जनं चावपेत्।
एषा मासं स्थिता रसक्रिया दृष्टिप्रसादनी रुजाहरा च॥

श्लोक 24

उद्धृतसरेण गव्येन दध्नाम्लेन राजतं भाजनमालिम्पेत्।
नीलीभूतं च तद्विशुष्कं मस्तुना वर्तयः कृताः छायाविशोषिता वाताक्षिरोगं जयन्ति।
मागधिकाकण्टकारिकाद्वयमूलत्वङ्मधुकसितासैन्धवताम्ररजांस्यजाक्षीरेण पिष्ट्वा ताम्रपात्रमालेपयेत्।
सप्ताहात् सप्ताहादपनीय पुनस्तथैव पिष्ट्वा लेपयेत्।
सप्तभिः सप्तरात्रैर्गुटिका कृताः परं वाताक्षिरोगवेदनारागशोफतिमिरकाचनक्तान्ध्यतापाधिमन्थाभिघातहराः॥

श्लोक 25

प्रत्यञ्जनं चात्र स्फटिकशङ्खनाभिमधुकगैरिकैरिक्षुरसपिष्टैर्वर्त्तिः॥

श्लोक 26

अयमेव च सर्वो विधिरधिमन्धादिष्वपि प्रयोज्यः॥

श्लोक 27

विशेषतस्त्वधिमन्थे सहचरस्फूर्जातककतकबीजबिल्ववृक्षादनीनिर्यूहेण सपयस्कं सर्पिः सिद्धं पिबेत्॥

श्लोक 28

सर्पिषानुपशमे तैलं वसां मज्जानं पूर्वोक्तविधिवद्व्यत्यासेन कुर्यात्।
सर्वथानुपशान्तावुपरिभ्रुवोर्यथोक्तो दाहः॥

श्लोक 29

पित्ताभिष्यन्दाधिमन्थयोः शर्करावचूर्णितं सर्पिः पानम्।
तिक्तकानामन्यतमं वा॥

श्लोक 30

प्रपौण्डरीकामलकद्विबृहतीदर्भदशमूलशतावरीतालीसपत्रमञ्जिष्ठानीलोत्पलक्वाथः सितास्तन्येनाश्च्योतनम्।
मधुककटङ्कटेरीनिर्यूहो वा।
सक्षौद्रश्चन्दनमधुकलोध्रमञ्जिष्ठास्वर्णगैरिकक्वाथस्तीव्रशूलदाहहरः॥

श्लोक 31

लोध्रदार्वीमधुकप्रपौण्डरीकान्यापोथ्य नन्तकेन बध्नीयात्।
तेन क्षौद्रसलिलाप्लुतेन सेको वेदनाघ्नः।
तेनैव च सशर्करस्त्रीस्तन्ये च्छागदुग्धे वा दाहरागघ्नः॥

श्लोक 32

श्वेतलोध्रं मधुकं च समं घृतेन भर्जयित्वा चूर्णयेत्।
ततः पोट्टलिकावबद्धं स्तन्येन तोयेन वा मृदितमाशु शूलदाहरागशोफानपोहति।
चन्दननलिनकुमुदनलदादिभिर्वा क्षीरसंस्कृतैः।
तैश्च शिरोवक्त्रप्रलेपपरिषेकाः॥

श्लोक 33

एवमसिद्धौ सिराव्यधः पुनः स्निग्धस्य च त्रिफलाकाश्मर्यक्वाथशर्करात्रिवृच्चूर्णौर्विरेकः॥

श्लोक 34

शङ्खमधुकसैन्धवबृहतीमूलत्वचः पयसाजेन पिष्ट्वा ताम्रपात्रं परलेपयेत्।
पुनः सप्ताहादेवं सप्तभिः सप्तरात्रैर्गुटिकाः कुर्यात्।
ताः स्तन्यघृष्टाः पित्तामयेष्वञ्जनाद्रुजमपहरन्ति॥

श्लोक 35

सुवर्णगैरिकं निशां देव्येम्भासि स्थितमहः शोषयेत् सप्ताह मेवमेव च सुशीतेन मधुरवर्गकषायेण भावयेदेतच्चूर्णाञ्जनं दाहरागघ्नम्॥

श्लोक 36

पञ्चाशद्दार्वीपलानि पलिकानि च सारिवामधुककाकोलीद्विनिशामृद्वीकाकाश्मर्यसुनिषण्णकमञ्जिष्ठालोध्रोशीरचन्दानि जलद्रोणेष्टभागावशेषं पचेत्।
परिस्रुतं च पुनरादर्वीलेपादवतार्य च सितोपलासमांशं मधुघृतद्विपलं प्रक्षिपेत्।
रसक्रियेयं मधुरा सर्वाक्षिरोगेषु हिता॥

श्लोक 37

काश्मर्यस्वरसपिष्टः सारिवाशर्कराकल्को नस्यमिक्षुरसपिष्टं वा यष्ट्याह्वम्।
क्षतशुक्रोक्तं चात्र तर्पणं पुटपाकश्च॥

श्लोक 38

श्लेष्माभिष्यन्देधिमन्थे च त्र्यहमुपवासस्तीक्ष्णानि धूमकवलनावनानि।
शार्ङ्गेष्ठाकुष्ठतगरमुरुङ्गीव्योषैलादारुभिर्बिडालकः॥

श्लोक 39

तिल्वकबृहतीनिदिग्धिकालोध्रारग्वधमूलत्वग्भिर्गोमूत्रक्वथितैराश्च्योतनं शोफोपदेहकण्डूघ्नम्॥

श्लोक 40

निम्बपत्रकल्कदिग्धं वा लोध्रमङ्गारस्वेदितं चूर्णितं तान्तवावबद्धमुष्णाम्बुमृदितम्।
तद्वदेवाभयामलकोपकुल्यापाटलीचूर्णानि।
शिग्रुपल्लवरसो वा मधुमिश्रः।
मधुशिग्रुपाटलीबिल्वमूलशुण्ठीक्वाथो वा॥

श्लोक 41

निम्बपटोलजातिपत्रलोध्रद्वयमहौषधैः खण्डशः कल्पितैर्वस्त्रबद्धैः सक्षौद्रैर्गौडे सीधौ वा परिप्लुतैः सेकः परं श्लेष्मशूलध्रः॥

श्लोक 42

रोहिषपूतीककरञ्जकपित्थास्फोतपीलुबिल्वपत्रशिग्रुसुरसार्कनिम्बपत्रैर्गोमूत्रक्वथितैः स्वेदः॥

श्लोक 43

तथापि शोफघर्षानुबन्धे यवमदनभूर्जशमीपत्रैः सघृतैर्घृतेनैव वा नाड्याक्षि धूपयेत्।
लघ्वशितं च द्वितीयेह्नि प्रातर्व्योषविपक्वं यवक्षारावचूर्णितं सर्पिः पाययेत्।
ततः सिराव्यधो विरेकश्च॥

श्लोक 44

बृहतीत्वक्शुण्ठीताम्रकांस्यरजांसि दधिमस्तुना पिष्ट्वा तास्रपात्रे प्रलेपयेत्।
तथैव च सप्ताहे।
सप्तसप्ताहे च गते वर्तयः कार्याः मरिचहरिद्राभयाञ्जनैर्वा जलपिष्टा वर्तिः।
त्रिकटुकत्रिफलाविडङ्गसारहरिद्राभिर्वा॥

श्लोक 45

हरीतकी तुत्थं च समभागं तुत्थादष्टांशेन मरिचमेषा वर्तिः कुमारी सर्वश्लेष्माक्षिरोगघ्नी॥

श्लोक 46

विडङ्गचूर्णो वा वारुण्या भावितः शङ्खो बीजपूररसेन मधुकं त्रिफलारसेन पृथगैकध्यं वा चूर्णाञ्जनं वा पिण्डो वा पोथकीबहलकफोत्क्लेशाभिष्यन्दानपहरति॥

श्लोक 47

स्वर्णगैरिकसैन्धवमनश्शिलालाक्षानतकरञ्जिकासुरसशङ्खव्योषतालीसकुष्ठकलिङ्गकदेवदारुनलदजातीमुकुलरसाञ्जनैः सुरामण्डपिष्टैर्वर्त्तिः सर्वश्लेष्माक्षिरोगविकारहरा॥

श्लोक 48

पुष्पकासीसचूर्णं ताम्रसमुद्गे सुरसपत्रस्वरसेन सप्ताहं भावयेत्।
तच्चूर्णाञ्जनं वर्त्मोपचयपक्ष्मशातघ्नम्॥

श्लोक 49

सैन्धवव्योषवराविडङ्गलोध्रप्रपौण्डरीकमधुकतुत्थकतार्क्ष्यशैलताम्रचूर्णैः छागपयःपिष्टैर्मार्कवस्वरसपरिपीतैर्वर्त्तिः काण्डचित्राख्या सर्वाक्षिरोगान् जयति॥

श्लोक 50

कण्ड्वां मनश्शिलासैन्धवश्वेतमरिचैर्मातुलुङ्गरसपिष्टैर्वर्त्तिः।
सशोफायां नागरदेवदारुसैन्धवजातिक्षारकैः सुरामण्डपिष्टैः॥

श्लोक 51

नक्तमाललशुनशिग्रुशिग्रुकबीजैर्वा रसक्रिया।
तर्पणं च॥

श्लोक 52

यकृदाजमगरुप्रियङ्गुनलददेवदारुयुतं पयसि क्वाथयेत्तस्मिन् शीते खजमथिते यन्नवनीतं तदेभिरेवौषधैर्विपक्वम्।
पुटपाकश्च कुष्ठतगरदार्वीसर्वगन्धैराजेन यकृता सह पिष्टैर्मधुघृतयुतैः॥

श्लोक 53

रक्तजं पुनरभिष्यन्दमधिमन्थं च पित्तवदुपत्रमेत्।
स्तन्येक्षुरसशर्करोदकान्यतमेन वाश्च्योतयेत्।
पुनःपुनश्चास्य रुधिरमवसेचयेत् सिराव्यधेन जलौकोभिश्च।
तीव्रवेदनायां महतीं घृतमात्रां पाययेत्॥

श्लोक 54

आढकीकुर्यटपाटलीश्रीपर्णीविदुलार्जुनबृहतीचम्पकमालतीमूलानि खर्जूररसपिष्टानि गुटिकाञ्जनम्॥

श्लोक 55

केशैर्जलार्द्रैः कांस्यमुद्घर्षयेत् तान् कांस्यमलदिग्धानन्तर्धूमं दग्ध्वा तत् भस्म त्रिफलाक्वाथे सुरसास्वरसे क्षीरे च छागे पञ्चाहं भावयेत्।
एतच्चूर्णं स्रोतोजतुल्यं प्रत्यञ्जनम्॥

श्लोक 56

कृष्णसर्पं पयसि क्वाथयेत्ततः पूतशीतमथितात् स्नेहमुपोषिताय कृकवाकवे दद्यात्।
तस्य यत् पुरीषं तत् स्नेहाञ्जनम्॥

श्लोक 57

कृष्णसर्पमुखमञ्जनसर्पिषोः पूर्णं दर्भवेष्टितं मृदवलिप्तमधोमुखं गोमयेनाग्निनादग्ध्वा ततोञ्जनमादाय पत्रनलदनीलोत्पलतुल्यं चूर्णीकृतं परं दृक्प्रसादजननमञ्जनम्॥

श्लोक 58

घृतमण्डश्च शर्करामधुकनीलोत्पलैर्मानुषीदुग्धयुक्तैः सिद्धो नस्यमिति।
भवति चात्र॥

श्लोक 59

सर्वेक्षिरोगा यत् प्रायो जायन्ते स्यन्दपूर्वकाः।
यतश्च रक्तं सन्दूष्य तानतस्त्वरया जयेत्॥

श्लोक 60

सर्वोर्ध्वजत्रुगस्रोतस्यन्दनात् स्यन्द उच्यते।
तत्स्थानां तद्वदङ्गानामधिमन्थोऽतिमन्थनात्॥

श्लोक 61

वातेऽक्षिसेकस्सैरण्डबृहतीमधुशिग्रुणा।
सिद्धेन पञ्चमूलेन ससितैः पित्तरक्तयोः॥

श्लोक 62

दार्वीलाक्षोत्पलद्राक्षामञ्जिष्ठामधुकद्वयैः।
श्लेष्मणि त्रिफलाशुण्ठीनिम्बलोध्राटरूषकैः।
समस्तैस्सन्निपातोत्थे कुर्यात् स्यन्देऽक्षिसेचनम्॥

श्लोक 63

तुत्थव्योषाभयालोध्रयष्ट्याह्वैस्ताम्रसंस्थितैः।
धान्याम्लपिष्टैः सेकोयं सर्वाभिष्यन्दरुक्प्रणुत्॥

श्लोक 64

तद्वतुत्थाभयालोध्रयष्टीमधुरसाञ्जनैः।
शताह्वार्द्धांशसंयुक्तैः सेकः सर्वाक्षिशूलजित्॥

श्लोक 65

पुष्पाञ्जनसिताक्षौद्रैस्ताम्रसंस्थैस्तिलाम्भसा।
सेचनं हन्ति रुग्रागदाहश्वयथुघर्षणम्॥

श्लोक 66

द्विनिशात्रिफलामुस्तैः प्रमदादुग्धकल्कितैः।
सेकः सशर्कराक्षौद्रैरभिघातरुजापहः॥

श्लोक 67

निषिक्तं तुत्थकं वारान् गोर्जले पञ्चविंशतिम्।
स्तन्ये वा छागदुग्धे वा सद्यःकोपे तदञ्जनम्॥

श्लोक 68

बदरीदलयष्ट्याह्वतुत्थधात्रीफलैः समैः।
पुट्Aअन्तर्बादराग्नीद्धैर्दृगुत्कोपघ्नमञ्जनम्॥

श्लोक 69

बृहत्यैरण्डमूलत्वक्शिग्रुमूलैः ससैन्धवैः।
वर्त्तिराजपयःपिष्टैस्सर्ववाताक्षिरोगजित्॥

श्लोक 70

सुमनःक्षारकाः शङ्खस्त्रिफला मधुकं बला।
पित्तरक्तापहा वर्त्तिः पिष्टा दिव्येन वारिणा॥

श्लोक 71

सैन्धवं त्रिफला व्योषं शङ्खनाभिस्समुद्रजः।
फेनः शैलेयकं सर्जो वर्त्तिः श्लेष्माक्षिरोगजित्॥

श्लोक 72

शङ्खविद्रुमवैडूर्यलोहिताक्षप्लवास्थिभिः।
स्रोतोजश्वेतमरिचैर्वर्त्तिः सर्वाक्षिरोगजित्॥

श्लोक 73

पिप्पल्यः किंशुकरसो वसा सर्पस्य सैधवम्।
घृतं च जीर्णं सर्वाक्षिविकारघ्नी रसक्रिया॥

श्लोक 74

कृष्णसर्पवसा क्षौद्रं रसो धात्र्या रसक्रिया।
शस्ता सर्वाक्षिरोगेषु काचार्मपटलेषु च॥

श्लोक 75

रसाञ्जनं शृङ्गवेरमभया तुत्थकं शुभम्।
यथोत्तरं द्विगुणितैस्तैर्वर्त्तिरपराजिता॥

श्लोक 76

ऋते वातादभिष्यन्दात्तिमिराणि कुकूणकम्।
पोथकीपिटकाः पिल्लानर्माणि च नियच्छति॥

श्लोक 77

ताम्रे मस्तुसमुद्घृष्टं तुत्थकं श्यावतां गतम्।
सर्वाभिष्यन्दशुक्लार्मसिराजालजिदञ्जनम्॥

श्लोक 78

मरिचवरलवणभागो भागौ द्वौ कणसमुद्रफेनाभ्याम्।
सौवीरभागनवकं चित्रायां चूर्णितं कफामयजित्॥

श्लोक 79

मरिचामलकजलोद्भवतुत्थाञ्जनताप्यधातुभिः क्रमवृद्धैः।
षण्माक्षिक इति योगस्तिमिरार्मक्लेदकाचकण्डूघ्रः॥

श्लोक 80

पिप्पलीं सतगरोत्पलपत्रा वर्त्तयेत् समधुकां सहरिद्रां।
एतया सततमञ्जयितव्यं यः सुपर्णसममिच्छति चक्षुः॥
॥इति एकोनविंशोऽध्यायः॥