अष्टाङ्गसंग्रहः उत्तरस्थानम् 17

श्लोक 1

अथातो लिङ्गनाशप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयोमहर्षयः॥

श्लोक 2

लिङ्गनाशे नीलिका पटलमान्ध्यमिति पर्यायाः।
सः श्लैष्मिक एव प्राक् साध्योऽभिहितः।
तस्य पुनः षडुपद्रवाः।
आवर्तकी, शर्करा, राजीमती, छिन्नांशुका, चन्द्रकी, छत्रकी चेति॥

श्लोक 3

तत्र श्वेतारुणावर्तवदनवस्थिता दृष्टिरावर्तकी।
अर्कक्षीरलेशेनेव कूर्चिकापिण्डेनेव चाचिता शर्करा।
शालिशूकाभराज्यावृता राजीमती।
छिन्नविषमदग्धाभा सरुक् छिन्नांशुका।
कांस्यसमच्छाया चन्द्रकसंस्थाना चन्द्रकी।
नैकवर्णा छत्रनिभा छत्रकी।
ता न विध्येत्।
अपि च॥

श्लोक 4

न विध्येदसिरार्हाणां न तृट्पीनसकासिनाम्।
नाजीर्णभीरुवमितशिरःकर्णाक्षिशूलिनाम्।
नात्युष्णशीतवाताभ्रे नासम्पूर्णां च नीलिकाम्॥

श्लोक 5

असञ्जाता हि विषमा दधिमस्तुतनुश्च सा।
शलाकयावघृष्टापि पुनरूर्ध्वं प्रपद्यते।
करोति वेदनां तीव्रां दृष्टिं च स्थगयेत् पुनः॥

श्लोक 6

सा च सम्पूर्यते शीघ्रं श्लेष्मलर्वातपित्तलैः।
चिरात्सोपद्रवा च स्यान्निष्प्रेक्ष्यात्वर्हति व्यधम्॥

श्लोक 7

अथ स्निग्धस्य विरिक्तस्य घृतैः सम्भोजितस्य निशि रसेन प्रीणितोत्तमाङ्गस्याभुक्तवतः सज्जोपकरणस्य विमलेऽहनि साधके च कृतस्वस्त्ययनस्य विहितादित्यविदेहाधिपतिप्रणामस्य पूर्वाह्णे निवातप्रकाशदेशस्थस्य प्रत्यादित्यमास्तरणेन लब्धमार्दवायां भामौ प्रसारितचरणयुग्ममुपविष्टस्य क्षितितलगतसमतलोभयपाणेः पृष्ठतः सुखोपविष्टेन परिचारकेण हस्ताभ्यां निश्चलमवलम्बितशिरसः किश्चिदुत्तानास्यस्य स्वां नासामितरच्चेक्षणमीक्षमाणस्यातुरस्य जङ्घयोरुपरिष्टान्नात्युच्छ्रितासननिविष्टो भिषग् दक्षिणहस्तानुलोममक्षि मुखबाष्पस्विन्नं निमीलितमीषदङ्गुष्ठोदरविमृदिततारकतया परिप्लुतदोषं सव्याङ्गुष्ठप्रदेशिनीभ्यामुन्मील्य दक्षिणमध्यमाप्रदेशिन्यङ्गुष्ठैर्निष्कम्पं गृहीतया शलाकया कृष्णभागाद्भागद्वयस्यापाङ्गादेकभागस्य च सङ्गमे दृष्टेरार्जवं नात्यूर्ध्वमधो वा नेत्रसहजन्मनि सन्धौ विध्येत्॥

श्लोक 8

एवमेव दक्षिणं दक्षिणाङ्गुष्ठप्रदेशिन्युन्मीलितमितरेण करेणैव चातुरस्य दक्षिणपार्श्वे स्थित्वा॥

श्लोक 9

अथ शब्दवदवेदनं साम्बुबिन्दुस्रुति च सम्यग्विद्धं विद्यात्।
प्रविष्टमात्रां च शलाकां धारयेत्।
रागाश्रुवेदनानुत्पादनार्थं च स्तन्येन सेचयेत्।
ततः पुनरातुरमाश्वास्य भ्रमयन् शलाकामा दृष्टिमध्यात् प्रवेशयेत्॥

श्लोक 10

अधश्चास्यावलिकयतो लिङ्गनाशमद्रुतमविलम्बितमनुसुखमधोमुखमपनयेदुच्छिङ्खयेच्चैनम्।
तथा हि दृक् स्रस्तकफस्य विशुध्यति।
विशुद्धदृष्टेश्चाङ्गुलिं तन्तून् ज्ञातीन् सन्ततींश्च दर्शयेत्।
प्रेक्षमाणस्य चानिमीलितान्नेत्राच्छन्नैः शनैः भ्रमयन्नेव शलाकामपकर्षेत्।
अथ व्यपगतदोषस्य यथावत् पश्यतः सुखोष्णघृताप्लुतं पिचुमीक्षणस्योपरि दत्वा बध्नीयात्।
ततो निवातमागारमनुप्रवेश्य संवेश्य च सोपधाने मृदुशयने शयानं दक्षिणेऽक्षिणि विद्धे वामेन पार्श्वेन वामे दक्षिणेनोभयस्मिन्नुत्तानमनुकूलाभिः कथाभिरुपाचरेत्।
यथाशक्ति चैनमुपवासयेत्।
उद्गारक्षवथुकासनिष्ठीवनोत्क्षेपणानि त्र्यहं परिहरेत्।
स्नानाम्बुपानदन्तधावनाधोमुखावस्थानानिसप्ताहम्॥

श्लोक 11

स्नेहविधिं चेक्षेत।
मूर्ध्नि पादयोश्च घृताभ्यङ्गमाचरेत्।
तृतीये चाह्नि मुक्त्वाक्षि परिषेचयेदेरण्डपल्लवशृतेन दुग्धोष्णेन दुग्धेन।
जीवनीयैर्वा सिद्धेन पयसा हविषा वा।
तद्वल्लघुना पञ्चमूलेन।
ततः पूर्ववद् बध्नीयात्॥

श्लोक 12

ततः प्रभृत्येवमेव प्रत्यहमासप्ताहम्।
सप्तमे तु दिवसे सर्वथा मोक्षयेत्।
दशमे वा।
भोजयेच्चैनं व्योषामलकयुक्तं द्रवमीषत्स्नेहलवणं वाट्यमुष्णोदकद्वितीयं विलेपीं वा।
एवमाचरतो रुजारागादयो नानुवर्तन्ते॥

श्लोक 13

तदनुवृत्तौ तु यष्टीमधुकलोध्रमृद्वीकासैन्धवैः सिद्धेन ससितेनाजपयसा नयनमाश्च्योतयेत्।
मधुककुष्ठोत्पलद्राक्षालाक्षाशर्कराभिर्वा।
पृश्निपर्णीमुस्तमधुकशतावरीपंद्मकसैन्धवैर्वा॥

श्लोक 14

शिरोवक्त्रलेपं च सारिवागैरिकयवदूर्वाघृतैः कुर्यात्।
मातुलुङ्गरसाप्लुतैर्वा मृदुभृष्टैस्तिलैः ससर्षपैः।
अजाक्षीरद्रुतैर्वा मृदुभृष्टैस्तिलैः ससर्षपैः।
अजाक्षीरद्रुतैर्वा पयस्यासारिवापत्रमञ्जिष्ठायष्ट्याह्वैर्हिमः सुखोष्णो वा लेपः।
तद्वद्देवदारुनागरमद्मकैर्वा॥

श्लोक 15

जाङ्गलरसेन च जीवनीयक्वाथवता भोजयेत्।
वातहरवर्गसिद्धेन च पयसा।
पद्मकादिगर्भसिद्धं सर्पिः पाननावनसेकेषु विदध्यात्।
तथानुपशमे सिरां विध्येत्।
अधिमन्थसाधनं चेक्षेत॥

श्लोक 16

यथोक्ताचारातिक्रमात्तु व्यधः पाकमुपयाति।
अभिष्यन्दाधिमन्थादयः स्युर्व्यधदोषाच्च।
तान्यथास्वमुपत्रमेत॥

श्लोक 17

व्यधदोषाः पुनरध ऊर्ध्वं कृष्णासन्नमपाङ्गासन्नं सिराव्यधश्च॥

श्लोक 18

तत्राधोव्यधादत्यर्थशूलास्रस्रुतिरागाः शलाकायांश्चोपलेपो बहलपिच्छिलः कृष्णां वलिभिरुपचीयते नयनं स्रवति तद्वर्जयेत्॥

श्लोक 19

ऊर्ध्वव्यधादतिमात्ररुक्।
तत्रात्युष्णघृतपरिषेको वातहरं च कर्म॥

श्लोक 20

कृष्णासन्नव्यधान्नसुखमपनीयते पटलम्।
कृष्णे च रुजा।
दृष्टिरपि च रक्तावच्छादिता कृष्णमण्डलाभा भवति।
तत्र सर्पिस्सेकविरेकरक्तमोक्षैः सिद्धिः॥

श्लोक 21

अपाङ्गासन्नव्यधाच्छोफशूलतोदभेदाः सास्राः स्रुतयः।
तत्र घृतसेकोपवासौ भ्रुवोरन्तरे च दाहः॥

श्लोक 22

सिराव्यधाद्रक्तागमो विविधाश्च वेदनाः।
तत्र स्तन्यमधुकविपक्वेन सर्पिषा परिषेकोऽपाङ्गे वा दाहः॥

श्लोक 23

सिराजालवति तु नेत्रे प्राक् सिराजालमपनयेत्।
ततो लब्धबलं स्निग्धं च विध्येत्॥

श्लोक 24

अथ शलाकाभ्रमणदोषाः।
क्षोभणमूर्ध्वमधोऽत्यर्थदृष्टिघट्टनमतिदृष्टिप्रेरणं च।
शलाकाक्षोभणाद्धिस्पन्दनतोदभेदपरिमन्थाः।
तस्मिन्यष्टीमधुकपोट्टल्या घृतमृदितया सेको जलौकसश्च।
ऊर्ध्वप्रणयनाद्रागोऽतिवेदना च।
तत्रोपवासो घृतसेकश्च स्पर्शसुखः।
अधोनयनाच्छूलं रक्तागमश्च।
तत्र क्षोभणवत् सिद्धिः।
अत्यर्थदृष्टिघट्टनाद्दृष्ट्याकुलता।
तत्र सर्पिर्मण्डोनुवासनं नावनं च।
अतीत्य दृष्टिं शलाकायाः प्रेरणाद्रक्तस्रवणं रक्ताभरूपदर्शनं च।
तत्र सर्पिस्सेकोपवासजलौकसः॥

श्लोक 25

लिङ्गनाशदोषास्तु स्फुटनमवगलनं विस्तरणमुत्प्लवनं लीनता च।
तत्र शलाकया स्पृष्टो लिङ्गनाशो यः स्फुटति तमेरण्डपत्रस्विन्नं खण्डशः शोधयेत्।
ततः कृष्णासैन्धवमधुभिरवपीडनम्।
अवगलति तु शलाकामपनीय स्तन्यसेकं दद्यादवपीडनं च शुण्ठीगुडं जलौकसश्च।
विस्तीर्यमाणे सुखोष्णाम्बुप्लुतेन वाससा स्वेदो घृतमण्डश्च प्रतिमर्शः।
तद्वदुत्प्लवमाने वित्रासनं शीताम्भसा प्रततं चोच्छिङ्खनं च॥

श्लोक 26

स्थिरे चले च दोषे पत्रभङ्गस्वेदः।
तथाप्यनपगच्छति शलाकापगमने वा पुनरुत्प्लवने स्नेहपाननस्यादिभिरुपपाद्य पुनर्विध्येत्।
एवमपि पुनरुत्प्लवने भ्रुवोरन्तरे दाहः॥

श्लोक 27

यस्त्वपकृष्यमाणो दृष्टिमण्डले लीयते तत्र क्षीरेण नाडीस्वेदं दद्यात्।
शताह्वामधुकचूर्णसंसृष्टं च घृतं प्रतिमर्श इति।
भवति चात्र॥

श्लोक 28

स्वेददाहप्रतीमर्शान् सद्योविद्धे तु सेचनम्॥

श्लोक 29

अवपीडं तृतीयेऽह्नि युञ्ज्यात्तद्वज्जलौकसः।
सप्ताहान्ते सिरामोक्षं विरेकं बस्तिकर्म च॥

श्लोक 30

यन्त्रणामनुरुध्येत दृष्टेरा स्थैर्यलाभतः।
रूपाणि सूक्ष्मदीप्तानि सहसा नावलोकयेत्॥

श्लोक 31

कुर्याच्छ्लाकास्थूलाग्रा विशालव्रणतां तनुः।
पटलोत्प्लवनं तीक्ष्णा क्षतमन्तः खरारुजः।
कण्ठा च विषमाश्रूणि द्रस्वा दीर्घा च दुर्ग्रहा॥

श्लोक 32

आढकीमूलमरिचहरितालरसाञ्जनैः।
विद्धेऽक्ष्णि सगुडा वर्तिर्योज्या दिव्याम्बुपेषिता॥

श्लोक 33

जातीशिरीषधवमेषविषाणषुष्पवैडूर्यमौक्तिकफलं पयसा सुपिष्टम्। आजेन ताम्रममुना प्रतनुप्रदिग्धं सप्ताहतः पुनरिदं पयसैव पिष्टम्॥

श्लोक 34

पिण्डाञ्जनं हितमनातपशुष्कमक्ष्णि विद्धे प्रसादजननं बलकृच्च दृष्टेः।
स्रोतोजविद्रुमशिलाप्पतिफेनतीक्ष्णैरस्यैव तुल्यमुदितं गुणकल्पनाभिः॥
॥इति सप्तदशोऽध्यायः॥