अष्टाङ्गसंग्रहः उत्तरस्थानम् 15

श्लोक 1

अथातो दृष्टिरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

सिरानुसारिणि मले प्रथमं पटलं श्रिते।
अव्यक्तमीक्षते रूपं व्यक्तमप्यनिमित्ततः॥

श्लोक 3

प्राप्ते द्वितीयं पटलमभूतमपि पश्यति।
भूतं तु यत्नादासन्नं दूरे सूक्ष्मञ्च नेक्षते॥

श्लोक 4

दूरान्तिकस्थं रूपञ्च विपर्यासेन मन्यते।
दोषे मण्डलसंस्थाने मण्डलानीव पश्यति॥

श्लोक 5

द्विधैकं दृष्टिमध्यस्थे बहुधा बहुधा स्थिते।
दृष्टेरभ्यन्तरगते द्रस्ववढ्रविपर्ययम्॥

श्लोक 6

नान्तिकस्थमधस्संस्थे दूरगं नोपरिस्थिते।
पार्श्वे पश्येन्न पार्श्वस्थे तिमिराख्योयमामयः॥

श्लोक 7

प्राप्तोति काचतां दोषे तृतीयपटलाश्रिते।
तेनोर्ध्वमीक्षते नाधस्तनुचैलावृतोपमम्।
यथावर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात्॥

श्लोक 8

तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः।
लिङ्गनाशं मलः कुर्वन् छादयेद्दृष्टिमण्डलम्॥

श्लोक 9

तत्र वातेन तिमिरे व्याविद्धमिव पश्यति।
चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः॥

श्लोक 10

जालानि केशान् मशकान्नश्मींश्चोपोक्षितेत्र च।
काचीभूते दृगरुणा पश्यत्यास्यमनासिकम्॥

श्लोक 11

चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते।
वृद्धः काचो दृशं कुर्याद्रजो धूमावृतामिव॥

श्लोक 12

स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम्।
सलिङ्गनाशो वाते तु सङ्कोचयति दृक्सिराः।
दृङ्मण्डलं विशत्यन्तर्गम्भीरा दृगसौ स्मृता॥

श्लोक 13

पित्तजे तिमिरे विद्युत्खद्योतोद्योतदीपितम्।
शिखितित्तिरिपत्राभं प्रायो नीलञ्च पश्यति॥

श्लोक 14

काचे दृक्कांस्यनीलाभा तादृगेव च पश्यति।
अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनूंषि च॥

श्लोक 15

भृङ्गनीला निरालोका दृक्स्निग्धा लिङ्गनाशतः।
दृष्टिः पित्तेन द्रस्वाख्या सा द्रस्वा द्रस्वदर्शिनी।
भवेत् पित्तविदग्धाख्या पीता पीताभदर्शना॥

श्लोक 16

कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति।
शङ्खेन्दुकुन्दकुसुमैः कुमुदैरिव चाचितम्॥

श्लोक 17

काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम्।
सिताभासा च दृष्टिस्स्याल्लिङ्गनाशे तु दृश्यते॥

श्लोक 18

मूर्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः।
बिन्दुर्जलस्येव चलः पद्मिनीपुटसंश्रितः॥

श्लोक 19

उष्णे सङ्कोचमायाति च्छायायां परिसर्पति।
शङ्खकुन्देदुकुमुदस्फटिकोपमशुक्लिमा॥

श्लोक 20

रक्तेन तिमिरे रक्तं तमोभूतञ्च पश्यति।
काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति।
लिङ्गनाशेपि दृक् तादृङ्निष्प्रभा हतदर्शना॥

श्लोक 21

संसर्गसन्निपातेषु विद्यात् सङ्कीर्णलक्षणान्।
तिमिरादीनकस्माच्च तैः स्याद्व्यक्ताकुलेक्षणः।
तिमिरे शेषयोर्दृष्टौ चित्रो रागः प्रजायते॥

श्लोक 22

द्योतते नकुलस्येव यस्य दृङ्निचिता मलैः।
नकुलान्धःस तत्राह्नि चित्रं पश्यति नो निशि॥

श्लोक 23

अर्केऽस्तमस्तकन्यस्तगभस्तौ स्तम्भमागताः।
स्थगयन्ति दृशं दोषा दोषान्धः स गदोपरः॥

श्लोक 24

दिवाकरकरस्पृष्टा भ्रष्टा दृष्टिपथान्मलाः।
विलीनलीना यच्छन्ति व्यक्तमत्राह्नि दर्शनम्॥

श्लोक 25

उष्णतप्तस्य सहसा शीतवारिनिमज्जनात्।
त्रिदोषरक्तसंपृक्तो यात्यूष्मोर्ध्वं ततोक्षिणी।
दाहोषे मलिनं शुक्रमहन्याविलदर्शनम्॥

श्लोक 26

रात्रावान्ध्यं च जायेत विदग्धोष्णेन सा स्मृता॥

श्लोक 27

भृशमम्लाशनाद्दोषैस्सास्रैर्या दृष्टिराचिता।
सक्लेदकण्डूः कलुषा विदग्धाम्लेन सा स्मृता॥

श्लोक 28

शोकज्वरशिरोरोगसन्तप्तस्यानिलादयः।
धूमाविलां धूमदृशं दृशं कुर्युः स धूमरः॥

श्लोक 29

सहसैवाल्पसत्वस्य पश्यतो रूपमद्भुतम्।
भास्वरं भास्करादिं वा वाताद्या नयनाश्रिताः॥

श्लोक 30

कुर्वन्ति तेजः संशोष्य दृष्टिं मुषितदर्शनाम्।
वैडूर्यवर्णां स्तिमितां प्रकृतिस्थामिवाव्यथाम्।
औपसर्गिक इत्येष लिङ्गनाशः अत्र वर्जयेत्॥

श्लोक 31

विना कफाल्लिङ्गनाशान् गम्भीरां द्रस्वजामपि॥

श्लोक 32

षट्काचा नकुलान्धश्च याप्याश्शेषांस्तु साधयेत्।
द्वादशेति गदा दृष्टौ निर्दिष्टाः सप्तविंशतिः॥