श्लोक 1
अथातो वर्त्मरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
कृछ्रबोधे पुराणं घृतं द्राक्षाकल्कक्वाथसिद्धं शर्करावचूर्णितं रात्रौ पाययेत्।
स्निग्धांश्च नस्यधूमाञ्जनतर्पणपुटपाकान् प्रयोजयेत्।
वातहरद्रव्यकल्पितांश्च बस्तीन् क्षीरस्विन्नैरेरण्डपल्लवैः स्वेदं च वर्त्मनाम्॥
श्लोक 3
एवमशान्तौ मुद्गमात्रान्तरैः पदैरग्निना त्वग्दाहं बिन्दुभिराचरेत्॥
श्लोक 4
कुम्भीकापिटकासु वर्त्म लिखित्वा सैन्धवेनानुप्रतिसार्य पटोलामलकमधुकक्वाथेन सेचयेत् घृतेन च॥
श्लोक 5
पित्तरक्तोक्लिष्टयोर्मधुरौषधसिद्धेन सर्पिषा स्निग्धस्य सिरां विध्येत्।
विरेचयेच्चैनं त्रिवृत्क्वाथवता त्रिफलाकल्केन।
त्रिफलाक्वाथयुक्तेन वा ब्राह्मीचूर्णेन।
चन्दनोशीरमधुकमृद्वीकापुनर्नवबृहतीमूलसिद्धं तैलं नावयेत्।
लिखिते च वर्त्मनि स्रुतरक्ते यष्ट्याह्वनिर्यूहेण प्रक्षालनम्।
चन्दनशृतं पयः परिषेकः।
शीतस्निग्धाश्च शिरोवक्त्रलेपाः॥
श्लोक 6
पक्ष्मशाते रोमकूपान् सूच्यग्रेण कुट्ट्Aयेज्जलौकोभिर्वा ग्राहयेत्।
पयसेक्षुरसेन वा वमनम्।
स्वादुशीतस्कन्धसाधितं सर्पिर्नावनम्।
काकजङ्घा रोहित मत्स्यमांसं च काकशोणितभावितमन्तर्धूमं दग्धं चूर्णाञ्जनं कुर्यात्॥
श्लोक 7
सञ्चूर्ण्य पुष्पकासीसं भावयेत् सुरसारसैः।
ताम्रे दशाहं परमं पक्ष्मशाते तदञ्जनम्॥
श्लोक 8
पोथकीर्विलिख्य शुण्ठीसैन्धवमागधिकाचूर्णैः प्रतिसार्य प्रक्षाल्य चोष्णाम्भसा खदिरसाराढकीशिग्रुपत्रकषायेण सेचयेत्।
ततश्चाम्रजम्बूप्रवालक्वाथेनाश्च्योतनम्।
त्रिफलाखदिरसारोदकेन वा मधुसंयुक्तेन।
विडङ्गलाक्षादार्वीत्वग्गैरिकालमनोह्वाचूर्णः क्षौद्रान्वितोऽञ्जनम्॥
श्लोक 9
एवमप्यनुपशमे जलौकसो योजयेत्।
पुनः पुनर्वा लेखयेत्।
परिषेकं च त्रिफलामधुकद्विहरिद्राकषायेण मधुयुक्तेन कुर्यात्।
मुस्तशर्कराकपित्थपत्राम्बुना वा॥
श्लोक 10
कफोत्क्लिष्टं वर्त्म लिखित्वा सैन्धवकासीसपिप्पलीमनश्शिलारसाञ्जनचूर्णैर्मधुमद्भिः प्रतिसारयेत्।
कफघ्नानि च वमनधूमनावनाञ्जनान्याहारविधिश्च।
वर्त्मापक्लेदे कासीसलवणसुमनोमुकुलरसाञ्जनैर्वर्तिरञ्जनम्॥
श्लोक 11
लगणं कफोत्क्लिष्टवत् साधयेत्।
अशाम्यत्यग्निना दाहो वमनं विरेचनं च। पिप्पलीमधुकनिम्बज्योतिष्मतीदेवदारुविडङ्गप्रियङ्गुत्रिफलाकुष्ठशताह्वासैधवैः सिद्धं तैलं नावयेत्।
तीक्ष्णावपीडाञ्जनकवलांश्च विदध्यादुष्णोपचारं च॥
श्लोक 12
उत्सङ्गपिटकामञ्जननामिकां च भित्वा निष्पीड्य चोल्लिखितां तगरैलासैन्धवनेपालीचूर्णेन सक्षौद्रेण प्रतिसारयेत्।
हरिद्रामधुकपटोललोध्रः समाक्षिकः परिषेकः॥
श्लोक 13
बिसवर्त्मादिषु बहलवर्त्मान्तेषु सैधवं प्रतिसारणम्।
बिसश्लिष्टवर्त्मनोस्तथानुपशमेऽग्निना क्षारेण वा दहनम्॥
श्लोक 14
कुकूणके निम्बपत्रत्रिफलाखदिरमूलकल्कविपक्वं सर्पिर्धात्रीं पाययित्वा सैन्धवसर्षपोपकुल्यायष्ट्याह्ववतोष्णाम्भसा वामयेत्।
पिप्पलीद्राक्षाभयानिर्यूहेण विरेचयेत्।
स्तनौ चास्या मागधिकामुस्ताद्विरजनःकल्केनालिप्योद्वर्तयेत्।
धूपयेच्च सघृतैः सिद्धार्थकः।
पाययेच्चैनां पटोलमुस्तमृद्वीकागुडूचीत्रिफलाकषायम्॥
श्लोक 15
बालस्य वर्त्मनी लिखित्वा मधुसैन्धवरसाञ्जनैः प्रतिसार्यामलक्यश्मन्तकजम्बूपल्लवक्वाथेन प्रक्षालयेत्।
जलौकोभिर्वा ग्राहयेत्।
वेदनायां तु कुष्ठगुडूचीकल्कोदकेन सगुडक्षौद्रेण परिषेको मूर्धानं चास्यकटुतैलेनाभ्यज्य पाठाकल्केन प्रलिप्यार्जुनबिल्वनिर्गुण्डीमार्कवतर्कारीसैर्यककार्पासीमालतीपत्रनिर्यूहेण सेचयेत्॥
श्लोक 16
मरिचविडङ्गहरिद्राकल्कसिद्धं तैलं प्रतिमर्शः।
मूर्वाताम्ररजसी स्तन्यपिष्टे पिण्डाञ्जनम्।
शङ्खमनश्शिलासैन्धवरसाञ्जनक्षौद्रैर्वा रसक्रिया।
लोहशिवाटिकामृदः कपालेऽनेकशः प्रतप्ताः स्तन्येननिर्वापिताः श्लक्ष्णचूर्णमञ्जनम्।
लाक्षावेल्लमनश्शिलालगैरिकदार्वीत्वग्भिर्वा।
पुनः पुनश्च धात्रीं वमनविरेचनैरुपपादयेत्॥
श्लोक 17
पक्ष्मोपरोधे समुपचितं वर्त्म लेखनेनोत्क्लिष्टं रक्तं विस्रावणेन सशोफं शिरोविरेककवलवमनैर्यापयेत्॥
श्लोक 18
प्रवृद्धेषु तु रोमसु विशुद्धदेहस्य सहिष्णोर्भ्रुवोधस्ताद्द्वौ भागौ पक्ष्मान्तात् भागमेकं समुत्सृज्य यवमात्रं तदाकृति तिर्यक् छेदयेदार्द्रवाससा च रक्तं गृह्णीयात्॥
श्लोक 19
तत्स्तनुभूते रक्ते क्षौमसूत्रेण बालेन वा धनुर्वक्रया सूच्या मुद्गमात्रान्तरैः पदैः सीव्येत्।
ततोऽस्य ललाटे पट्टं बध्वा तत्सीवनसूत्रं तत्र सूचीपदैर्नातिगाढश्लथमासज्जेत्।
शतधौतघृतेन चास्य सक्षौद्रेण कवलिकां दद्यात्॥
श्लोक 20
न चैतत् बध्नीयात्।
व्रणवेदनायां वस्त्रबद्धेन यष्टीमधुकचूर्णेन संस्कृतं सर्पिः परिषेको वटादिक्वषायाश्च सक्षीराः।
पञ्चमे षष्ठे वाहनि स्थिरीभूतेषु शस्त्रपदेषु सीवनसूत्रमवलम्बकाच्छित्वापनयेत्।
व्रणं च स्वर्णगैरिकरजसावचूर्णयेत्।
तीक्ष्णनस्याञ्जनानि चावचारयेत्॥
श्लोक 21
अत्युत्क्षिप्ते तु सूत्रे श्वयथुः स्यात्।
तत्र मृदुः स्वेदः स्नैहिकं च नस्यम्॥
श्लोक 22
निर्भुज्य वा वर्त्मदोषोपहतां वलीं विलिख्य तुम्बुरुवक्रकुशाभयाबीजान्यतमकल्केन प्रतिसारयेत् क्षारेण वा दहेत्तप्रया वा शलाकया॥
श्लोक 23
उपपक्ष्माणि तु लाक्षारसेन लक्षयित्वा सन्दंशेनोद्धृत्य तनुसूच्यग्रेणाग्निवर्णेन रोमकूपान् दहेत्।
ततश्च पूर्ववत् परिषेको नावनं च॥
श्लोक 24
बाह्यालजेर्भिन्नालिखितस्य क्षारेणाग्निना वा दाहो व्रणवच्चोपचारः।
अर्बुदस्य च स्विन्नस्यामूलच्छिन्नस्य लिखितप्रतिसारितस्य चेति।
भवन्ति चात्र॥
श्लोक 25
निवातेऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः।
बहिः कोष्णाम्बुतप्तेन स्वेदितं वर्त्म वाससा॥
श्लोक 26
निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीधृतम्।
न स्रंसते चलति वा वर्त्मैवं सर्वतस्ततः॥
श्लोक 27
मण्डलाग्रेण तत्तिर्यक् कृत्वा शस्त्रपदाङ्कितम्।
लिखेत्तेनैव पत्रैवा शाकशेफालिकादिजैः।
फेनेन तोयराशेर्वा पिचुना प्रमृजन्नसृक्॥
श्लोक 28
स्थिते रक्ते सुलिखितं सक्षौद्रैः प्रतिसारयेत्।
यथास्वमुक्तैरनु च प्रक्षाल्योष्णेन वारिणा॥
श्लोक 29
घृतेन सिक्तमभ्यक्तं बध्नीयान्मधुसर्पिषा।
ऊर्ध्वाधःकर्णयोर्दत्वा पिण्डीं च यवसक्तुभिः॥
श्लोक 30
तृतीयेऽहनि मुक्तस्य परिषेकं यथायथम्।
कुर्याच्चतुर्थे नस्यादीन् मुञ्चेदेवाह्नि पञ्चमे॥
श्लोक 31
समं नखनिभं शोफकण्डूघर्षाद्यपीडितम्।
विद्यात् सुलिखितं वर्त्म लिखेद्भूयो विपर्यये॥
श्लोक 32
रुक्पक्ष्मवर्त्मशतनस्रंसनान्यतिलेखनात्।
स्नेहस्वेदादिकस्तस्मिन्निष्टो वातहरः क्रमः॥
श्लोक 33
अभ्यज्य नवनीतेन श्वेतलोध्रं प्रलेपयेत्।
एरण्डमूलकल्केन पुटपाकं पचेत्ततः॥
श्लोक 34
स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोट्टलीकृतम्।
स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्रसेचनम्॥
श्लोक 35
शालितण्डुलकल्केन लिप्तं तद्वत् परिष्कृतम्।
कुर्यान्नेत्रेऽतिलिखिते मृदितं दधिमस्तुना।
केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः॥
श्लोक 36
मेद्यांस्तु व्रीहिवक्त्रेण विभिद्य कठिनोन्नतान्।
निष्पीडयेदनु विधिः शेषः स्यातत्र पूर्ववत्॥
॥इति द्वादशोऽध्यायः॥