श्लोक 1
अथातोऽपस्मारप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
स्मृत्यपायो ह्यपस्मारः स धीसत्त्वाभिसम्प्लवात्।
जायतेऽभिहते चित्ते चिन्ताशोकभयादिभिः॥
श्लोक 3
उन्मादवत् प्रकुपितैश्चित्तदेहगतैर्मलैः।
हते सत्त्वे हृदि व्याप्ते संज्ञावाहिषु खेषु च॥
श्लोक 4
तमो विशन् मूढमतिर्बीभत्साः कुरुते क्रियाः।
दन्तान्खादन्वमन्फेनं हस्तौ पादौ च विक्षिपन्॥
श्लोक 5
पश्यन्नसन्ति रूपाणि प्रस्खलन् पतति क्षितौ।
विजिह्माक्षिभ्रुवो दोषवेगेऽतीते विबुध्यते॥
श्लोक 6
कालान्तरेण स पुनश्चैवमेव विचेष्टते।
अपस्मारश्चतुर्भेदो वाताद्यैर्निचयेन च॥
श्लोक 7
रूपमुत्पत्स्यमानेऽस्मिन् हृत्कम्पः शून्यता भ्रमः।
तमसो दर्शनं ध्यानं भ्रूव्युदासोऽक्षिवैकृतम्॥
श्लोक 8
अशब्दश्रवणं स्वेदो लालासिङ्घाणकस्रुतिः।
अविपाकोऽरुचिर्मूर्छा कुक्ष्याटोपो बलक्षयः॥
श्लोक 9
निद्रानाशोऽङ्गमर्दस्तृट् स्वप्ने गानं सनर्तनम्।
पानं तैलस्य मद्यस्य तयोरेव च मेहनम्॥
श्लोक 10
तत्र वातात् स्फुरत्सक्थिः प्रततं च मुहुर्मुहुः।
अपस्मरति संज्ञां च लभते विस्वरं रुदन्॥
श्लोक 11
उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते।
आविध्यति शिरो दन्तान् दशत्याध्मातकन्धरः॥
श्लोक 12
परितो विक्षिपत्यङ्गं विषमं विनताङ्गुलिः। रूक्षश्यावारुणाक्षित्वङ्नखास्यः कृष्णमीक्षते।
चपलं परुषं रूपं विरूपं विकृताननम्॥
श्लोक 13
अपस्मरति पित्तेन मुहुः संज्ञां च विन्दति।
पीतफेनाक्षिवक्त्रत्वगास्फालयति मेदिनीम्।
भैरवादीप्तरुषितरूपदर्शी तृषान्वितः॥
श्लोक 14
कफाच्चिरेण ग्रहणं चिरेणैव विबोधनम्।
शुक्लाभरूपदर्शित्वं सर्वलिङ्गं तु वर्जयेत्॥
श्लोक 15
अथावृतानां धीचित्तहृद्खानां प्राक्प्रबोधनम्।
तीक्ष्णैः कुर्यादपस्मारे कर्मभिर्वमनादिभिः॥
श्लोक 16
वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः।
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्॥
श्लोक 17
वमनं मदनं लम्बा विशालारिष्टकौटजम्।
रेको मूत्रत्रिवृच्छ्यामा द्रवन्ती सप्तला स्नुही॥
श्लोक 18
दशमूलबलारास्नासरलामरदारुभिः।
यवकोलकुलत्थैश्च समूत्रक्षारसैन्धवैः।
आस्थापनं प्रयुञ्जीत हिङ्गुस्नेहसमन्वितैः॥
श्लोक 19
एभिरन्यैश्च वातघ्नैः कटुतैलं प्रसाधितम्।
वातापस्मारशमनं नस्याभ्यङ्गानुवासनैः॥
श्लोक 20
सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च।
अपस्मारविमोक्षार्थं योगान् संशमनान् शृणु॥
श्लोक 21
गोमयस्वरसक्षीरदधिमूत्रैः शृतं हविः।
अपस्मारज्वरोन्मादकामलान्तकरं पिबेत्॥
श्लोक 22
द्विपञ्चमूलत्रिफलाद्विनिशाकुटजत्वचः।
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्॥
श्लोक 23
शम्याकपुष्करजटाफल्गुमूलदुरालभाः।
द्विपलाःसलिलद्रोणे पक्त्वा पादावशेषिते॥
श्लोक 24
भार्ङ्गीपाठाढकीकुम्भनिकुम्भव्योषरोहिषैः।
मूर्वाभूतीकाभूनिम्बश्रेयसीसारिवाद्वयैः॥
श्लोक 25
मदयन्त्यग्निनिचुलैरक्षांशैः सर्पिषः पचेत्।
प्रस्थं तद्वद्द्रवैः पूर्वैः पञ्चगव्यमिदं महत्॥
श्लोक 26
ज्वरापस्मारजठरभगन्दरहरं परम्।
शोफार्शः कामलापाण्डुगुल्मकासग्रहापहम्॥
श्लोक 27
शिरीषपुष्पपत्रत्वक्सारमूलतुलाद्वयम्।
वरणैरण्डशम्याकदशमूलाटरूषकम्।
श्लोक 28
शतावरीबलारास्नासुषवीपारिभद्रकम्।
मुरुङ्गीं वञ्चुलं दन्तीं ककुभं सपुनर्नवम्॥
श्लोक 29
रोहिषस्य जटां पुष्पं करघाटमयूरकम्।
शतार्धांशं पृथग्द्राक्षालाक्षामिसिवरायवान्॥
श्लोक 30
सकोलान् सकुलत्थांश्च पृथगर्धाढकोन्मितान्।
द्विशतं पिशितात् गव्यात् छागाद्वा तत्पचेदपाम्॥
श्लोक 31
द्रोणैर्द्वात्रिंशताष्टांशशेषेण च विपाचयेत्।
तैलद्रोणं दधिवहे श्लक्ष्णपिष्टैश्च पालिकैः॥
श्लोक 32
पाठासमङ्गासुषवीद्विनिशाचन्दनद्वयैः।
एलाजलोत्पलबलाश्वदंष्ट्रासारिवाघनैः॥
श्लोक 33
मञ्जिष्ठाकुष्ठमधुकलोध्ररास्नाकुटन्नटैः।
शठीशिरीषकुसुमनतनागामराह्वयैः॥
श्लोक 34
वराङ्गजोङ्गपत्तङ्गविडङ्गैः सप्रियङ्गुभिः।
मुरुड्गीपत्रनलदसेव्यकुन्दनखद्वयैः॥
श्लोक 35
तिलपर्ण्या च तत्पानबस्त्यभ्यञ्जननावनैः।
अपस्मारग्रहोन्मादान् सशोषविषमज्वरान्॥
श्लोक 36
योनिशुक्रामयान् गुल्मं प्रमेहं पाण्डुतां मदम्।
वातशोणितवीसर्पपक्षाघातार्दितादिकान्॥
श्लोक 37
सर्वान् मारुतजान्रोगान्विशेषाद्विषवातजान्।
निहन्ति कार्मणं कृत्यां मूलदंष्ट्राविषं गरम्।
रसायनानां प्रवरं मेध्यं वाजीकरं परम्॥
श्लोक 38
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम्।
पुराणं मेध्यमुन्मादालक्ष्म्यपस्मारपाप्मजित्॥
श्लोक 39
तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः।
क्षीरद्रोणे पचेत् सिद्धमपस्मारविमोक्षणम्॥
श्लोक 40
कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे।
कार्षिकैर्जीवनीयैश्च सर्पिःप्रस्थं विपाचयेत्।
वातपित्तोद्भवं क्षिप्रमपस्मारं निहन्ति तत्॥
श्लोक 41
तद्वत् काशाविदारीक्षुकुशक्वाथशृतं पयः॥
श्लोक 42
मधुकद्विपले कल्के द्रोणे चामलकीरसात्।
सिद्धं सिद्धो घृतप्रस्थः पित्तापस्मारभेषजम्॥
श्लोक 43
कूष्माण्डस्वरसे सर्पिरष्टादशगुणे शृतम्।
यष्टीकल्कमपस्मारहरं धीवाक्स्वरप्रदम्॥
श्लोक 44
कपिलानां गवां पित्तं नावनं परमं हितम्।
श्वशृगालविडालानां सिंहादीनां च पूजितम्॥
श्लोक 45
गोधानकुलनागानां पृषतर्क्षगवामपि।
पित्तेषु साधितं तैलं नस्येऽभ्यङ्गे च शस्यते॥
श्लोक 46
त्रिफलाव्योषपीतद्रुयवक्षारफणिज्जकैः।
श्र्याह्वापामार्गकारञ्जबीजैस्तैलं प्रसाधितम्।
बस्तमूत्रे हितं नस्यं चूर्णं वाध्मापयेत् भिषक्॥
श्लोक 47
वृश्चिकालीबलाकुष्ठभाङ्र्जीलवणपञ्चकम्।
कायस्थां शारदां मुद्गमुशीरं जलदं यवान्॥
श्लोक 48
व्योषं च बस्तमूत्रेण पिष्ट्वा वर्तीं प्रकल्पयेत्।
अपस्मारगरोन्मादसर्पदष्टविषाशिते॥
श्लोक 49
मुस्तावयस्थात्रिफलाकायस्थाहिङ्गुशाद्वलैः।
व्योषमाषयवैर्मूत्रैर्बस्तमेषर्षभोद्भवैः॥
श्लोक 50
हन्ति वर्तिरपस्मारकिलासविषमज्वरान्।
पुष्योद्घृतं शुनः पित्तमपस्मारघ्नमञ्जनम्।
तदेव सर्पिषा युक्तं धूपनं परमं हितम्॥
श्लोक 51
कटभीनिम्बकट्वङ्गमधुशिग्रुत्वचां रसे।
सिद्धं मूत्रसमं तैलमभ्यङ्गार्थं प्रशस्यते॥
श्लोक 52
पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः।
जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः॥
श्लोक 53
लशुनातिरसाच्छत्राकुष्ठैर्विड्भिश्च पक्षिणाम्।
मांसाशिनां यथालाभं बस्तमूत्रे विपाचितम्।
तैलमभ्यञ्जनं कार्यं तैश्च धूपनलेपनम्॥
श्लोक 54
नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः।
तुण्डैः पक्षैः पुरीषैश्च धूपमस्य प्रयोजयेत्॥
श्लोक 55
काकोलीशिग्रुलवणहिङ्गुशिवाटिकाः।
कैडर्यं चन्दनं कृष्णां काकनासां ससर्षपाम्॥
श्लोक 56
शुनः स्कन्धाक्षिनखरान् पर्शुकांश्चेति पेषयेत्।
बस्तमूत्रेण पुष्यर्क्षे तैर्दिह्याद्धूपयेच्च तैः॥
श्लोक 57
गोपुच्छलोमभिर्दग्धैरथवा बस्तरोमभिः।
खरास्थिभिर्हस्तिनखैस्तद्वद्वा मूत्रकल्कितैः।
उद्वर्तनं सदा कुर्याच्छृतैश्च परिषेचनम्॥
श्लोक 58
आभिः क्रियाभिः सिद्धाभिर्हृदयं सम्प्रभुच्यते।
स्रोतांसि चास्य शुध्यन्ति स्मृतिं संज्ञां च विन्दति॥
श्लोक 59
भूतानुबन्धेपस्मारे दोषलिङ्गाधिकाकृतौ।
युञ्ज्याद्यथास्वं भूतोक्तां क्रियां दैवव्यपाश्रयाम्॥
श्लोक 60
शीलयेत्तैललशुनं पयसा वा शतावरीम्।
ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम्॥
श्लोक 61
समं क्रुद्धैरपस्मारो दोषैः शारीरमानसैः।
यज्जायते यतश्चैष महामर्मसमाश्रयः॥
श्लोक 62
तस्माद्रसायनैरेनं दुश्चिकित्स्यमुपाचरेत्।
तदार्तं चाग्नितोयादेर्विषमात् पालयेत् सदा॥
श्लोक 63
मुक्तं मनोविकारेण त्वमित्थं कृतवानिति।
न ब्रूयाद्विषयैरिष्टैः क्लिष्टं चेतोऽस्य बृंहयेत्॥
श्लोक 64
ग्रहोपश्लिष्टदेहानां विभ्रान्तस्मृतिचेतसाम्।
महास्नेहं प्रशंसन्ति पानाभ्यञ्जनबस्तिषु॥