अष्टाङ्गसंग्रहः उत्तरस्थानम् 9

श्लोक 1

अथात उन्मादप्रतिषेधं नामाध्यायं व्याख्यास्यमः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

षडुन्मादा भवन्ति वातपित्तकफसन्निपाताधिविषनिमित्ताः।
तत्रोन्मादो नाम य उन्मार्गगैः शारीरमानसैर्दोषैर्मनसो मदः॥

श्लोक 3

तेषां पुनरुन्मार्गगत्वे हेतुः शमलं विकृतोपहितमहितमनुचितमन्नपानविधिनिरपेक्षमाहारजातमत्युपक्षीणदेहानां व्यवायव्याधिवेगसमुद्गमे विषमशरीरचेष्टोपसेवा देवद्विजगुरूल्लङ्घनं वा रागद्वेषजनिताभिराधिभिर्मनोविघातो विषोपविषगरोपयोगो वा॥

श्लोक 4

एभिर्हीनसत्वस्य मनस्युपहते बुद्धौ प्रचलितायामत्युदीर्णत्वाद्दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि स्रोतांस्यावृत्य जनयन्त्युन्मादम्॥

श्लोक 5

तत्र शिरसः शून्यता चक्षुषोरस्वस्थत्वं स्वनः कर्णयोरुच्छ्वासाधिक्यमास्यसंस्रवणमन्नानभिलाषोऽरोचकोऽविपाको हृदयग्रहोऽस्थाने ध्यानायाससम्मोहोद्वेगाः सततं रोमहर्षो ज्वरोऽभीक्ष्णमुन्मत्तचित्तत्वमुदर्दित्वमर्दिताकृतिकरणं व्याधेः स्वप्ने च दर्शनमभीक्ष्णं भ्रान्तचित्तचलितानवस्थितानामप्रशस्तानां रूपाणां तिलपीडकवच्चक्राधिरोहणं वातकुण्डलिकाभिरुन्मथनं निमज्जनं कलुषाणामम्भसामावर्तेषु चक्षुषोश्चापसर्पणामिति दोषनिमित्तानामुन्मादानां पूर्वरूपाणि।
ततोऽनन्तरमुन्मादाभिनिर्वृत्तिरेव॥

श्लोक 6

सामान्यलिङ्गं मनोबुद्धिस्मृत्यादिसम्प्रमोषः॥

श्लोक 7

ततश्च देहो हतसारथिरिव रथोऽकर्णधार इव चाप्सु प्लवः सुखदुःखाचारधर्माधर्मप्रलुप्तोऽकस्माद् भ्रमति॥

श्लोक 8

तत्रवातादस्थानस्मितहसितनृत्तगीतवादित्रवागङ्गविक्षेपवाग्भेदभ्रू विक्षेपरोदनक्रोशनास्फोटनानि पर्यटनमजस्रमास्यात् फेनागमो यानमयानैरलङ्करणमनलङ्कारिकैर्द्रव्यैर्लोभोऽभ्यवहार्येषु लब्धेषु चावमानस्तीव्रं मात्सर्यं कार्श्यं पारुष्यमुत्पिण्डितारुणाक्षता जीर्णेऽन्ने चातिबलवत्वम्॥

श्लोक 9

पित्तात् क्रोधः सन्तर्जनमकस्मान्मुष्टिलोष्टकाष्ठशस्त्रैरभिद्रवणं नग्नता प्रच्छायशिशिराभिरातिरुदकाभिलाषः सन्तापः पीतावस्रंसनमनिमित्तमनलज्वलनोपशङ्काह्नि तारकादर्शनं ताम्रहरितहारिद्रसंरब्धाक्षत्वं च॥

श्लोक 10

कफादल्पवाक्चेष्टाहारत्वमरोचको वमथुरुष्णसेवा लालासिङ्घणकस्रवणं रहः कामता स्त्रीप्रियत्वं निद्राबीभत्सत्वं शौचद्वेषः श्वयथुरास्ये शुक्लस्तिमितमलाविलाक्षता भुक्ते रात्रौ च बलवत्वमिति।
भवति चात्र॥

श्लोक 11

सर्वायतनसंस्थानसन्निपाते तदात्मकम्।
उन्मादं दारुणं विद्यात्तं भिषक् परिवर्जयेत्॥

श्लोक 12

धनकान्तादिनाशेन दुःसहेनाभिषङ्गवान्।
पाण्डुर्दीनो मुहुर्मुह्यन् हाहेति परिदेवते॥

श्लोक 13

रोदित्यकस्मात् स्मयते तद्गुणान् बहुमन्यते।
शोकक्लिष्टमना ध्यायन् जागरूको विचेष्टते॥

श्लोक 14

विषेण श्याववदनो नष्टच्छायोऽबलेन्द्रियः।
वेगान्तरेऽपि सम्भ्रान्तो रक्ताक्षस्तं विवर्जयेत्॥

श्लोक 15

अथानिलज उन्मादे स्नेहपानं प्रयोजयेत्।
पूर्वमावृतमार्गे तु सस्नेहं मृदुशोधनम्॥

श्लोक 16

कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम्।
स्निग्धास्विन्नस्य बस्तींश्च शिरसश्च विरेचनम्।
तथास्य शुद्धदेहस्य प्रसादं लभते मनः॥

श्लोक 17

स्नेहकाले च वातोत्थे तैलं शरीषमिष्यते।
महाकल्याणकं पैत्ते पञ्चगव्यं कफोद्भवे॥

श्लोक 18

इथमप्यनुवृत्तौ तु तीक्ष्णं नावनमञ्जनम्।
हर्षणाश्वासनोत्रासभयताडनतर्जनम्॥

श्लोक 19

अभ्यङ्गोद्वर्तनालेपधूपान् पानं च सर्पिषः।
युञ्ज्यात्तांनि हि शुद्धस्य नयन्ति प्रकृतिं मनः॥

श्लोक 20

हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्।
सिद्धं समूत्रमुन्मादभूतापस्मारनुत् परम्॥

श्लोक 21

द्वौ प्रस्थौ स्वरसात्ब्रह्म्या घृतप्रस्थं च साधितम्।
व्योषश्यामात्रिवृद्बिम्बीशङ्खपुष्पीनृपद्रुमैः॥

श्लोक 22

ससप्तलाकृमिहरैः कल्कितैरक्षसम्मितैः।
पलवृध्या प्रयुञ्जीत परं मात्राचतुष्पलम्॥

श्लोक 23

उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम्।
वाक्स्वरस्मृतिमेधाकृद्धन्यं ब्राह्मीघृतं स्मृतम्॥

श्लोक 24

वराविशालावढ्रैलादेवदार्वेलवालुकैः।
द्विसारिवाद्विरजनीद्विस्थिराफलिनीनतैः॥

श्लोक 25

बृहतीकुष्ठमञ्जिष्ठानागकेसरदाडिमैः।
वेल्लतालीसपत्रैलामालतीमुकुलोत्पलैः॥

श्लोक 26

सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत्।
प्रस्थं भूतग्रहोन्मादकासापस्मारसूदनम्॥

श्लोक 27

पाण्डुकण्डूविषे शोषे मेहे मोहे ज्वरे गरे।
अरेतस्यल्परजसि दैवोपहतचेतसि॥

श्लोक 28

अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके।
बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम्।
कल्याणकामिदं सर्पिः श्रेष्ठं पुंसवनषे च॥

श्लोक 29

एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिम्।
जले तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरचतुर्गुणम्॥

श्लोक 30

वीराद्विमेदाकाकोलीकपिकच्छूविषाणिभिः।
सूप्यपर्णीयुतैरेतन्महाकल्याणकं परम्।
बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः॥

श्लोक 31

जटिला पूतना केशी चारटी मर्कटी वचा।
त्रायमाणा जया वीरा चोरकः कटुरोहिणी॥

श्लोक 32

कायस्था सूकरी छत्रा सातिच्छत्रा पलङ्कषा।
महापुरुषदन्ता च वयस्था नाकुलीद्वयम्॥

श्लोक 33

कटम्भरा वृश्चिकाली शालिपर्णी च तैर्घृतम्।
सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम्॥

श्लोक 34

महापैशाचकं नाम घृतमेतद्यथामृतम्।
बुद्धिमेधास्मृतिकरं बालानां चाङ्गवर्धनम्॥

श्लोक 35

लशुनानां शतं त्रिंशदभयात्र्यूषणात् पलम्।
गव्यचर्ममषीप्रस्थो द्व्याढकं क्षीरमूत्रयोः॥

श्लोक 36

पुराणसर्पिषःप्रस्थमेभिः सिद्धं प्रयोजयेत्।
हिङ्गुचूर्णपलं शीते दत्वा च मधुमानिकाम्॥

श्लोक 37

तद्दोषगन्तुसम्भूतानुन्मादान् विषमज्वरान्।
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः॥

श्लोक 38

केवलं सिद्धमेभिर्वा घृतमुत्तममात्रया।
पुराणं पाययित्वैनं श्वभ्रे रुन्ध्यात् गृहेऽथवा॥

श्लोक 39

एतानौषधवर्गान्वा विधेयत्वमगच्छति।
अञ्जनोद्वर्तनालेपनावनादिषु योजयेत्॥

श्लोक 40

अश्वगन्धाजगन्धोग्रगन्धालशुनसर्षपैः।
रास्नाकायस्थगोलोमीयुक्तैस्तैलं विपाचितम्॥

श्लोक 41

गोमूत्रसदृशं पाननस्याभ्यङ्गानुवासैनैः।
सर्वोन्मादग्रहालक्ष्मीपाप्मापस्मारनाशनम्॥

श्लोक 42

शिरीषो मधुकं हिङ्गु लशुनस्तगरं वचा।
कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्॥

श्लोक 43

तद्वद्व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः।
शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्॥

श्लोक 44

ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गुजटां मुरम्।
रास्नां विषघ्नां लशुनं विशल्यां सुरसं वचाम्॥

श्लोक 45

ज्योतिष्मतीं नागविन्नामनन्तां सहरीतकीम्।
काम्लीं च हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता।
वर्तिनस्याञ्जनालेपधूपैरुन्मादसूदनी॥

श्लोक 46

पिष्ट्वा फलान्यपामार्गाद्धिङ्गुलं हिङ्गुपत्रिकाम्।
वर्तिर्गोक्रोष्टुपित्तेन मरिचार्धांशकाञ्जनम्।
उन्मादभूतापस्मारे नृषु गोषु च गोचरे॥

श्लोक 47

अवपीडाश्च विविधाः सर्षपस्नेहसंयुताः।
कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद्रजः॥

श्लोक 48

सहिङ्गुतीक्ष्णधूमश्च सूत्रस्थानोदितो हितः।
शृगालशल्यकोलूकजतुकावृकबस्तजैः॥

श्लोक 49

मूत्रपित्तशकृल्लोमनखचर्मभिराचरेत्।
धूपधूमाञ्जनाभ्यङ्गप्रदेहपरिषेचनम्॥

श्लोक 50

धूपयेत् सततं चैनं श्वगोमत्स्यैः सुपूतिभिः।
वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते॥

श्लोक 51

तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः॥

श्लोक 52

शीतानि चान्नपानानि मधुराणि लघूनि च।
विध्येत् सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा।
निवाते शाययेदेवं मुच्यते मतिविभ्रमात्॥

श्लोक 53

प्रक्षिप्यासलिले कूपे शोषयेद्वा बुभुक्षया।
आश्वासयेत् सुहृत्तं वा वाक्यैर्धर्मार्थसंहितैः॥

श्लोक 54

ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा।
बद्धं सर्षपतैलाक्तं न्यस्तं चोत्तानमातपे॥

श्लोक 55

कपिकच्छ्वाथवा तप्तैर्लोहतैलजलैः स्पृशेत्।
कशाभिस्ताडयित्वा वा बध्वा श्वभ्रे विनिक्षिपेत्॥

श्लोक 56

अथवा वीतशस्त्राश्मजने सन्तमसे गृहे।
सर्पेणोद्घृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्।
त्रासयेच्छस्त्रहस्तैर्वा किरातारातितस्करैः॥

श्लोक 57

अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्।
भीषयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया॥

श्लोक 58

देहदुःखभयेभ्यो हि परं प्राणभयं मतम्।
तेन याति शमं तस्य सर्वतो विप्लुतं मनः।
सिद्धा क्रिया प्रयोज्येयं देशकालाद्यपेक्षया॥

श्लोक 59

इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते।
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः प्रसादयेत्॥

श्लोक 60

कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्।
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्॥

श्लोक 61

भूतानुबन्धमीक्षेत प्रोक्तलिङ्गाधिकाकृतिम्।
यद्युन्मादे ततः कुर्यात् भूतनिर्दिष्टमौषधम्॥

श्लोक 62

बलिं च दद्यात् पललं यावकं सक्तुपिण्डिकाम्।
स्निग्धं मधुरमाहारं तण्डुलान् रुधिरोक्षितान्॥

श्लोक 63

पक्वामकानिमांसानि सुरां मैरेयमासवम्।
अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च।
चतुष्पथे गवां तीर्थे नदीनां सङ्गमेषु च॥

श्लोक 64

निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः।
निजागन्तुभिरुन्मादैः सत्ववान् न स युज्यते॥

श्लोक 65

प्रसादश्चेन्द्रियार्थानां बुध्यात्ममनसां तथा।
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्॥
॥इति नवमोऽध्यायः॥