श्लोक 1
अथातो भूतप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
भूतं जयेदहिंसेच्छुं जपहोमबलिव्रतैः।
तपःशीलसमाधानज्ञानदानदयादिभिः॥
श्लोक 3
हिङ्गुव्योषालनैपालीलशुनार्कजटाजटाः।
अजलोमीसगोलोमी भूतकेशी वचा लता॥
श्लोक 4
कुक्कुटीसर्पगन्धाख्यातिलाः काणविकाणिके।
वज्रप्रोक्ता वयस्था च शृङ्गी मोहनवल्यपि॥
श्लोक 5
स्रोतोजाञ्जनरक्षोघ्नं रक्षोघ्नं चान्यदौषधम्।
खराश्वश्वाविडुष्ट्रर्क्षगोधानकुलशल्यकात्॥
श्लोक 6
द्वीपिमार्जारगोसिंहव्याघ्रसामुद्रसत्वतः।
चर्मपित्तद्विजनखा वर्गेऽस्मिन् साधयेत् घृतम्॥
श्लोक 7
पुराणमथवा तैलं नवं तत्पाननस्ययोः।
अभ्यङ्गे च प्रयोक्तव्यमेषां चूर्णं च धूपने॥
श्लोक 8
एभिश्च गुलिकां युञ्ज्यादञ्जने सावपीडने।
प्रलेपे कल्कमेतेषां क्वाथं च परिषेचने।
प्रयोगोऽयं ग्रहोन्मादान् सापस्मारान् शमं नयेत्॥
श्लोक 9
गजाह्वापिप्पलीमूलव्योषामलकसर्षपान्।
गोधानकुलमार्जारशशपित्तप्रपेषितान्।
नावनाभ्यङ्गसेकेषु विदधीत ग्रहापहान्॥
श्लोक 10
अश्वश्वाश्वतरोलूककङ्कगृध्नशृगालजा।
विट्खरोष्ट्रवराहाच्च तया तैलं विपाचितम्।
पिष्टया बस्तमूत्रेण नावनादिषु पूजितम्॥
श्लोक 11
शिरीषपुष्पं लशुनं शुण्ठीं सिद्धार्थकं वचाम्।
मञ्जिष्ठां द्वे निशे कृष्णां बस्तमूत्रेण पेषयेत्।
छायाशुष्का कृता वर्तिः मत्स्यपित्तद्रुताञ्जनम्॥
श्लोक 12
नक्तमालफलं व्योषं बिल्वस्योनाकयोर्जटा।
हरिद्रे च कृता वर्तिः पूर्ववन्नयनाञ्जनम्।
वयस्था हिङ्गु कटुका षड्ग्रन्था सैन्धवं तथा॥
श्लोक 13
सिद्धार्थकवचाहिङ्गुप्रियङ्गुरजनीद्वयम्।
मञ्जिष्ठाश्वेतकटभीवराश्वेताद्रिकर्णिकाः॥
श्लोक 14
निम्बस्य पत्रं बजिं तु नक्तमालशिरीषयोः।
सुराह्वं त्र्यूषणं सर्पिर्गोमूत्रे तैश्चतुर्गुणे॥
श्लोक 15
सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम्।
ग्रहान् सर्वान् निहन्त्याशु विशेषादासुरान् ग्रहान्॥
श्लोक 16
कृत्यालक्ष्मीविषोन्मादज्वरापस्मारपाप्मजित्।
एभिरेवौषधैर्बस्तवारिणा कल्पितोऽगदः॥
श्लोक 17
पाननस्याञ्जनालेपस्नानोद्घर्षणयोजितः।
गुणैः पूर्ववदुद्दिष्टो राजद्वारे च सिद्धिकृत्॥
श्लोक 18
सिद्धार्थकव्योषवचाश्वगन्धा निशाद्वयं हिङ्गुपलाण्डुकन्दम्।
बीजं करञ्जात् कुसुमं शिरीषात् फलं च वल्कं च कपित्थवृक्षात्॥
श्लोक 19
समाणिमन्थं सनतं सकुष्ठं स्योनाकमूलं किणिही सिता च।
बस्तस्य मूत्रेण सुभावितं तत् पित्तेन गव्येन गुडान् विदध्यात्॥
श्लोक 20
दुष्टग्रहोन्मादतमोनिशान्धानुद्बन्धकान् वारिनिमग्रदेहान्।
दिग्धाहतान् दर्पितसर्पदष्टां स्तेसाधयन्त्यञ्जननस्यलेपैः॥
श्लोक 21
कार्पासास्थिमयूरपत्रबृहतीनिर्माल्यपिण्डीतक।
त्वग्वांशीबृषदंशविट् तुषवचाकेशाहिनिर्मोचनैः।
नागेन्द्रद्विजशृङ्गहिङ्गुमरिचैस्तुल्यैः कृतं धूपनं।
स्कन्दोन्मादपिशाचराक्षससुरावेशग्रहघ्नं परम्॥
श्लोक 22
त्रिकटुकदलकुंकुमग्रन्घिकक्षारसिंही निशादारुसिद्धार्थयुग्माम्बुशक्राह्वयैः।
सितलशुनफलत्रयोशीरतिक्तावचा तुत्थयष्टीबलालोहितैलाशिलापद्मकैः॥
श्लोक 23
विषातार्क्ष्यशैलैः सचव्यामयैः कल्कितैः।
घृतमनवमशेषमूत्रांशासिद्धं मतं भूतरावाह्वयं पानतस्तद्ग्रहघ्नं परम्॥
श्लोक 24
नतमधुककरञ्जलाक्षापटोलीसमङ्गावचा।
पाटलीहिंगुसिद्धार्थसिंहीनिशायुग्लतारोहिणैः॥
श्लोक 25
बदरकटुफलत्रिकाकाण्डदारुक्रिमिघ्नाजगन्धामरा।
ङ्कोलकोशातकीशिग्रुनिम्बाम्बुदेन्द्राह्वयैः॥
श्लोक 26
गदशुकत्रुपुष्पबीजोग्रयष्ट्यद्रिकर्णीनिकुम्भाग्नि।
बिल्वैःसभैःकल्कितैर्मूत्रवर्गेण सिद्धं घृतम्॥
श्लोक 27
विधिविनिर्हितमाशु सर्वैःक्रमैर्योजितं हन्तिसर्वग्रहोन्मादकुष्ठज्वरांस्तन्महाभूतरावं स्मृतम्॥
श्लोक 28
ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः।
दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः॥
श्लोक 29
स्नानवस्त्रवसामांसमद्यक्षीरगुडादि च।
रोचते यद्यदा येभ्यस्तत्तेषामाहरेत्तदा॥
श्लोक 30
रत्नानि गन्धमाल्यानि बीजानि मधुसर्पिषी।
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरित्ययम्॥
श्लोक 31
सुरषिर्गुरुवृद्धेभ्यः सिद्धेभ्यश्च सुरालये।
दिश्युत्तरस्यां तत्रापि देवायोपहरेत् बलिन्॥
श्लोक 32
पश्चिमायां यथाकालं दैत्यभूताय चत्वरे।
गन्धर्वाय गवां मार्गे सवस्त्राभरणं बलिम्॥
श्लोक 33
पितृनागग्रहे नद्यां नागेभ्यः पूर्वदक्षिणे।
यक्षाय यक्षायतने सरितोर्वा समागमे॥
श्लोक 34
चतुष्पथे राक्षसयोर्भीमेषु गहनेषु वा।
रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्मरक्षसाम्॥
शून्यालये पिशाचाय पश्चिमां दिशमास्थिते॥
श्लोक 35
शुचिशुक्लानि माल्यानि गन्धाः क्षैरेयमोदनम्।
दधिच्छत्रं च धवलं देवानां बलिरिष्यते॥
श्लोक 36
हिङ्गुसर्षपषड्ग्रन्थाव्योषैरर्धपलोन्मितैः।
चतुर्गुणे गवां मूत्रे घृतप्रस्थं विपाचयेत्।
तत्पाननावनाभ्यङ्गैर्देवग्रहविमोक्षणम्॥
श्लोक 37
नस्याञ्जनं वचाहिङ्गुलशुनं बस्तवारिणा॥
श्लोक 38
दैत्ये बलिर्बहुफलः सोशीरकमलोत्पलः॥
श्लोक 39
नागानांसुमनोलाजगुडापूपगुडौदनैः।
परमान्नमधुक्षीरकृष्णमृन्नागकेसरैः।
वचापद्मपुरोशीररक्तोत्पलदलैर्बलिः॥
श्लोक 40
श्वेतपत्रं च लोध्रं च तगरं नागसर्षपाः।
शीतेन वारिणा पिष्टं नावनाञ्जनयोर्हितम्॥
श्लोक 41
यक्षाणां क्षीरदध्याज्यमिश्रकौदनगुग्गुलु।
देवदारूत्पलं पद्ममुशीरं वस्त्रकाञ्चनम्॥
श्लोक 42
हिरण्यं च बलिर्योज्यो मूत्राज्यक्षीरमेकतः।
सिद्धं समोन्मितं पाननावनाभ्यञ्जने हितम्॥
श्लोक 43
हरीतकी हरिद्रे द्वे लशुनो मरिचं वचा।
निम्बपत्रं च बस्ताम्बुकल्कितं नावनाञ्जनम्॥
श्लोक 44
ब्रह्मरक्षोबलिः सिद्धं यवानां पूर्णमाढकम्।
तोयस्य कुम्भः पललं छत्रं वस्त्रं विलेपनम्॥
श्लोक 45
गायत्रीविंशतिपलक्वाथेऽर्धपलिकैः पचेत्।
त्र्यूषणत्रिफलाहिङ्गुषड्ग्रन्थामिसिसर्षपैः॥
श्लोक 46
सनिम्बपत्रलशुनैः कुडवान् सप्त सर्पिषः।
गोमूत्रे त्रिगुणे पाननस्याभ्यङ्गेषु तद्धितम्॥
श्लोक 47
रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम्।
बलिः पक्वाममांसानि निष्पावा रुधिरोक्षिताः॥
श्लोक 48
नक्तमालशिरीषत्वङ्मूलपुष्पफलानि च।
तद्वच्च कृष्णपाटल्या बिल्वमूलं कटुत्रिकम्॥
श्लोक 49
हिङ्ग्विन्द्रयवसिद्धार्थलशुनामलकीफलम्।
नावनाञ्जनयोर्योज्यो बस्तमूत्रद्रुतोऽगदः॥
श्लोक 50
एभिरेव घृतं सिद्धं गवां मूत्रे चतुर्गुणे।
रक्षोग्रहान् वारयते पानाभ्यञ्जननावनैः॥
श्लोक 51
पिशाचानां बलिः सीधुः पिण्याकः पललं दधि।
मूलकं लवणं सर्पिः सभूतौदनयावकम्॥
श्लोक 52
हरिद्राद्वयमञ्जिष्ठामिसिसैन्धवनागरम्।
हिङ्गुप्रियङ्गुत्रिकटुरसोनत्रिफलावचाः॥
श्लोक 53
पाटलीश्वेतकटभीशिरीषकुसुमैर्घृतम्।
गोमूत्रपादिकं सिद्धं पानाभ्यञ्जनयोर्हितम्॥
श्लोक 54
बस्ताम्बुपिष्टैस्तैरेव योज्यमञ्जननावनम्॥
श्लोक 55
देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि वर्जयेत्।
सर्पिष्पानादि मृद्वस्मिन् भैषज्यमवचारयेत्॥
श्लोक 56
ऋते पिशाचात् सर्वेषु प्रतिकूलं च नाचरेत्।
सवैद्यमातुरं घ्नन्ति क्रुद्धास्ते हि महौजसः॥
श्लोक 57
ईश्वरं द्वादशभुजं नाथमार्यावलोकितम्।
सर्वव्याधिचिकित्सां च जपन्सर्वग्रहान्जयेत्।
तथोन्मादानपस्मारानन्यं वा चित्तविप्लवम्॥
श्लोक 58
महाविद्यां च मायूरीं शुचिस्तं श्रावयेत् सदा॥
श्लोक 59
भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश्च तद्गणान्।
जपन् सिद्धांश्च तन्मन्त्रान् ग्रहान् सर्वानपोहति॥
श्लोक 60
यच्चानन्तरयोः किञ्चिद्वक्ष्यतेऽध्याययोर्हितम्।
यच्चोक्तमिह तत् सर्वं प्रयुञ्जीत परस्परम्॥
॥इति अष्टमोऽध्यायः॥