अष्टाङ्गसंग्रहः उत्तरस्थानम्  5

श्लोक 1

अथातः स्नपनाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

सरित्सङ्गमगोतीर्थगजेन्द्रस्कन्धगोकुले।
चतुष्पथे च स्नपयेद् बालं सस्तन्यमातरम्।
श्मशाने दीर्घरोगार्तं मृतापत्यां च योषितम्॥

श्लोक 3

दूर्वाक्षीरिद्रुमवती प्रागुदक्प्रवणा मही।
स्निग्धनीरुजपुष्पाढ्यपादपा स्नपने शुभा॥

श्लोक 4

रेवतीश्रवणस्वातीप्राजापत्योत्तरैन्दवे।
पुष्ये मूले च बालस्य स्नानं पर्वदिनेषु च॥

श्लोक 5

चतुर्हस्ताष्टहस्तं वा द्वात्रिंशद्धस्तमेव वा।
नल्वमात्रप्रमाणं वा त्रिवर्णं मण्डलं लिखेत्॥

श्लोक 6

गोचर्मचापेषुमितस्त्रिविधो नल्व उच्यते।
चतुरस्रं चतुर्द्वारं पताकाभिरलङ्कृतम्।
आकीर्णं परितो दूर्वासिद्धार्थकयवाङ्कुरैः॥

श्लोक 7

क्रमात् प्राच्यादिषु लिखेद् गजारूढं पुरन्दरम्।
धर्मराजं महिषगं चक्राह्वस्थमपां पतिम्॥

श्लोक 8

धनदं च गदापाणिं यमस्थानमतीत्य च।
मातृस्थानं लिखेत्तस्मिन् सवृषं नन्दिकेश्वरम्।
सवध्वनुचरं चादौ मृन्मयं च विनायकम्॥

श्लोक 9

अतीत्य वरुणावासं सहस्रारं निवेशयेत्।
विष्णुप्रहरणं चक्रं सर्वविघ्ननिवारणम्॥

श्लोक 10

सुरयक्षेशयोर्मध्ये पद्महस्तालयां श्रियम्।
नन्द्यावर्ताङ्कुशादर्शमत्स्यस्वस्तिकतोरणम्॥

श्लोक 11

शङ्खं च दक्षिणावर्तं श्रीवत्सं माल्यदाम च।
इन्द्रादीनां परीवारमैशान्यादि विदिक्षुच॥

श्लोक 12

लम्बोदरी लम्बभुजा लम्बकर्णी च राक्षसी।
इन्द्रद्वारे निवेश्याः स्युर्यमद्वारे प्रलम्बिनी।
लम्बकेश्यप्पतिद्वारे कौबेरे लम्बनासिका॥

श्लोक 13

षट्कीलानायसान्कुर्यात्सप्त त्रैलोहिकान् भिषक्।
द्वौ चात्र खादिरौ शङ्कू चन्दनाम्बुसमुक्षितौ॥

श्लोक 14

अष्टौ घटाः षोडश वा द्वात्रिंशद्विगुणा अपि।
स्वस्तिकाङ्काः प्रवालाभा रङ्गैरश्लेषकैः कृताः॥

श्लोक 15

यथार्हौषधसंयुक्तशुचितोयप्रपूरिताः।
क्षीरिवृक्षपलाशाब्जगन्धमाल्योपशोभिताः।
मण्डलस्य चतुर्द्वारे कर्तव्याः सुनिवेशिताः॥

श्लोक 16

पूर्वेषु प्रक्षिपेद्धेम ततश्च मणिमौक्तिकम्।
अपरेष्वौषधीबीजानुदक्ष्वक्षतसर्षपान्॥

श्लोक 17

मृदः पवित्रा रक्षोघ्नीराहरेत सुरालयात्।
हस्तिशालाश्वशालाभ्यां शृङ्गाटकचतुष्पथात्॥

श्लोक 18

वल्मीकाग्रान्नदीतीराद्वेश्याकोशनृपालयात्।
गुप्तिद्वारात् समुद्राच्च समिद्धं चाग्निमाहरेत्॥

श्लोक 19

समिधः क्षीरिवृक्षाणां गन्धमाल्यं घृतं मधु।
अक्षतांस्तण्डुलानलाजान्पञ्चवर्णौदनंतिलान्॥

श्लोक 20

ततो मध्यस्थिते पद्मे सह धात्र्योपवेशयेत्।
बालमौदुम्बरे पीठे पालाशे वाप्युदङ्मुखम्।
आस्तृते हरितैर्दर्भैर्न तु प्राच्यादिदिङ्मुखम्॥

श्लोक 21

उदाहरिष्यते मन्त्रो यः स्कन्दबलिकर्मणि।
जुहुयात्तेन तत्राग्निमुदीच्यां स्थापितं दिशि॥

श्लोक 22

त्रिरात्रोपोषितो वैद्यः शुक्लवासा जितेन्द्रियः।
सर्षपाक्षतयुक्ताभिर्मृद्भिर्गात्राणि मार्जयन्॥

श्लोक 23

यथोदिताभिःस्नपयेत्घटैःप्राच्यादिदिक्स्थितैः।
क्रमात् प्रदक्षिणोत्क्षिप्तैः तत्र मन्त्रं प्रयोजयेत्॥

श्लोक 24

अमृतात् पूर्वमुत्पन्नमिमं ते कलशं शुभम्।
ददातु भगवानिन्द्रो विजयं नाम नामतः॥

श्लोक 25

रक्तपीताम्बरधरैर्भूतैर्बहुभिरन्वितः।
राक्षसोरगगन्धर्वपिशाचैश्चानुसेवितः॥

श्लोक 26

वज्रघण्टाशनिधरैर्मेघैश्च विविधस्वनैः।
देवसङ्घैः परिवृतो गजेन्द्रस्कन्धसंश्रितः॥

श्लोक 27

एभिः सार्धं महानिन्द्रः स्नपनं तेनुमन्यताम्।
पूर्वद्वारे स्थितं दिव्यं वज्रमिन्द्राज्ञया शुभम्॥

श्लोक 28

तव सर्वाणि पापानि निहन्ता चापराजितः।
इन्द्राय नमः स्वाहा।
इन्द्राण्यै नमः स्वाहा।
अपराजिताय स्वाहा।
मेघाधिपतये स्वाहा।
देवाधिपतये स्वाहा।
शतक्रतवे स्वाहा॥

श्लोक 29

द्वितीयं कलशं पुण्यमादित्यसदृशप्रभम्।
यमो ददातु भगवान् वैजयन्तं तु नामतः॥

श्लोक 30

कृष्णाञ्जननिभिर्घोरैः कृष्णाम्बरधरैस्तथा।
वृतः करालैर्विकृतै राक्षसैरुग्रविक्रमैः॥

श्लोक 31

श्मशानारण्यनिलयैर्मृतवस्त्रान्त्रभूषणैः।
त्वगस्थिमज्जमांसादैः प्रेतैर्बहुभिरावृतः॥

श्लोक 32

धर्मराजो यमः श्रीमान् सत्यसन्धो महातपाः।
दिव्यं महिषमारुह्य स्नपनं तेनुमन्यताम्॥

श्लोक 33

दक्षिणद्वारसंस्थस्ते यमदण्डः प्रतापवान्।
दुःस्वप्नं दुष्कृतं पापं सर्वमद्य हनिष्यति॥

श्लोक 34

यमाय नमः स्वाहा।
यमदण्डाय नमः स्वाहा।
महिषवाहनाय स्वाहा।
प्रेताधिपतये स्वाहा।
धर्माधिपतये स्वाहा।
वैजयन्ताय स्वाहा॥

श्लोक 35

जयन्तं जयवृध्यर्धं तृतीयं कलशं शुभम्।
ददातु मधुराजस्ते भगवान् वरुणः स्वयम्॥

श्लोक 36

श्वेतमाल्याम्बरधरैः श्वेतगन्धानुलेपनैः।
गन्धर्वैः पन्नगेन्द्रैश्च भगवाननुशोभितः॥

श्लोक 37

तीर्थकूपनदीवृक्षनिष्कुटोद्यानवासिभिः।
प्रबलैः कापिलैर्मुण्डैर्विकटैर्वामनैस्तथा॥

श्लोक 38

वृतः परिषदैर्भूतैः पाशमुद्गरपाणिभिः।
एभिः सहाद्य भगवान् वरुणस्त्वाभिषिञ्चतु॥

श्लोक 39

वरुणस्य महापाशोप्यपरद्वारमाश्रितः।
तव पापं निहन्त्वाशु सर्वविघ्ननिवारणः॥

श्लोक 40

वरुणाय नमः स्वाहा।
श्वेताम्बरधराय स्वाहा।
मकरवाहनाय स्वाहा।
जयन्ताय स्वाहा॥

श्लोक 41

चतुर्थं कलशं पुण्यं प्रधानमपराजितम्।
धनेश्वरो महाबाहुः प्रयच्छत्वलकाधिपः॥

श्लोक 42

चित्रमाल्याम्बरधरौश्चित्रगन्धानुलेपनैः।
चित्रमद्यमदोन्मत्तैर्यक्षैः समुपसेवितः॥

श्लोक 43

मुदितोद्गीतगन्धैर्वैः सेवितश्चाप्सरोगणैः।
स ते वैश्रवणः श्रीमान् स्नपनन्त्वनुमन्यताम्॥

श्लोक 44

सर्वव्याधिहरा दीप्ता द्वारमुत्तरमाश्रिता।
गदा ते नाशयत्वद्य सर्वपापं दिशो दश॥

श्लोक 45

धनाधिपतये स्वाहा।
गदापाणये स्वाहा।
अपराजिताय स्वाहा।
चित्राम्बरधराय स्वाहा॥

श्लोक 46

आपः पवित्रं लोकेस्मिन्नापो वै परमं शुचिः।
आपो वै देवताः सर्वा आपस्त्वामभिषिच्यताम्।
ब्रह्माब्रह्मर्षिभिः सार्धं भगवांस्त्वाभिषिञ्च तु॥

श्लोक 47

स्वाहा।
साङ्गोपाङ्गास्तथा वेदाः कीर्तिर्लक्ष्मीः सरस्वती।
बाला दाक्षायणी सीता सावित्री सरमा द्युतिः।
आकाशगङ्गा गङ्गाद्या महानद्यो महोदधिः॥

श्लोक 48

नदीनां सङ्गमास्तीर्था निर्झराः सागरास्तथा।
मेरुर्महेन्द्रो हिमवान् जगच्च स्थावरत्रयम्॥

श्लोक 49

स्कन्दादयो ग्रहाश्चैव तोषिता बलिकर्मणा।
अद्य त्वामभिषिञ्चन्तु नीरुजो भव दारक॥

श्लोक 50

नमो भगवते पितामहाय।
ओं मं ओं मं ल्मि ल्मि लिभुक् लिभुक् लिपिभवनेभ्यः स्वाहा॥

श्लोक 51

नमो भगवते रुद्राय हिलिमिलि, मेल्लि, मेल्लि, वेल्लि वेल्लि, म्मिलिम्मिलि स्वाहा॥

श्लोक 52

राक्षसाच पलायन्तु भूताश्च त्रस्तमानसाः।
मृताशना महाजिह्वास्तथा विघ्नविनायकाः॥

श्लोक 53

नमो भगवते कुमाराय पिलि, पिलि, खिल्लि, खिल्लि, खिणि, खिणि, स्वाहा॥

श्लोक 54

पुष्करं पुष्करारण्यं नैमिषं च तथा गया।
प्रभासं प्रवरं तीर्थं तथा पिण्डारकाह्वयम्।
तीर्थान्येतानि सर्वाणि अभिषिञ्चन्तु स्वस्ति ते॥

श्लोक 55

नमो भगवतीभ्यो महायोगीश्वरीभ्यो।
निमिनिमि मेनुमेनु तुरुतुरु स्वाहा॥

श्लोक 56

याश्च जातापहारिण्यो राक्षस्यो विकृताननाः।
अपि ता निहताः सर्वा याश्चान्याः पापचिन्तकाः॥

श्लोक 57

सतीनां कपिलानां च सिद्धानां चैव तेजसा।
तेजसा चर्षिविप्राणां मयाद्य स्नपितो भवान्॥

श्लोक 58

प्रभुर्मृत्युरलक्ष्मीश्च कालरात्रिश्च सारथिः।
लम्बा च लोहशङ्कुश्च पूतना कूटपूतना।
अशुभं यच्च ते किञ्चित् सर्वं प्रतिहतं मया॥

श्लोक 59

आदित्या वसवो रुद्रा अश्विनावौषधीगणाः।
गावोन्तरिक्षं सन्ध्ये च नक्षत्रग्रहवत्सराः॥

श्लोक 60

विश्वावसुश्च हाहा च नारदस्तुम्बुरुस्तथा।
धन्वन्तरिरगस्त्यश्च सुस्नातं प्रदिशन्तु ते॥

श्लोक 61

स्नातो द्विजभिषग्भृत्यान्यथाविभवमर्चयेत्।
मांसव्यवायाहःस्वप्नान् पञ्चरात्रं विवर्जयेत्॥

श्लोक 62

स्नपनं पाप्मजित् पुण्यं नीरुजामपि पुष्टिकृत्।
रोगिणां सर्वरोगघ्नं वन्ध्यानामपि पुत्रदम्॥

श्लोक 63

विधिना विधिहीनन्तु सवैद्यं हन्ति बालकम्।
नैतदश्रद्दधानाय योज्यं नानुपसीदते॥

श्लोक 64

पूतीकरञ्जत्वक्पत्रं क्षीरिभ्यो बर्बरादपि।
तुम्बीविशालारलुकशमीबिल्वकपित्थतः॥

श्लोक 65

स्थाल्यामुत्क्वाथ्य तत्तोयं बालानां स्नपनं शिवम्।
रात्रौ प्रसुप्तलोकायां पुष्टिदं सर्वरोगजित्॥