अष्टाङ्गसंग्रहः उत्तरस्थानम्  4

श्लोक 1

अथातो बालग्रहप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

ग्रहेषु साध्येषु शिशुं विविक्ते शरणे स्थितम्।
त्रिरह्ना मृष्टसंसिक्ते सदा सन्निहितानले॥

श्लोक 3

विकीर्णभूतिकुसुमबीजपत्रान्नसर्षपे।
रक्षोघ्नतैलज्वलितप्रदीपहतपाप्मनि॥

श्लोक 4

व्यवायमद्यपिशितनिवृत्तपरिचारके।
पुराणसर्पिषाभ्यक्तं परिषिक्तं सुखाम्बुना॥

श्लोक 5

साधितेन बलानिम्बवैजयन्तीनृपद्रुमैः।
पारिभद्रककट्वङ्गजम्बूवरणकत्तृणैः॥

श्लोक 6

कपोतवङ्कापामार्गपाटलीमधुशिग्रुभिः।
काकजङ्घामहाश्वेताकपित्थक्षीरिपादपैः॥

श्लोक 7

सकदम्बकरञ्जैश्च धूपं स्नातस्य चाचरेत्।
द्वीपिव्याघ्राहिसिंहर्क्षचर्मभिर्घृतमिश्रितैः॥

श्लोक 8

पूतीदशाङ्गसिद्धार्थवचाभल्लातदीप्यकैः।
सकुष्ठैः सघृतैर्धूपः सर्वग्रहविमोक्षणः॥

श्लोक 9

सर्षपा निम्बपत्राणि मूलमश्वखुराद्वचा।
भूर्जपत्रं घृतं धूपः सर्वग्रहनिबर्हणः॥

श्लोक 10

अनन्ताम्रास्थितगरं मरिचं मधुरो गणः।
शृगालविन्ना मुस्ता च कल्कितैस्तैर्घृतं पचेत्।
दशमूलरसक्षीरयुक्तं तद् ग्रहजित् परम्॥

श्लोक 11

रास्नाद्व्यंशुमतीवढ्रपञ्चमूलबलाघनात्।
क्वाथे सर्पिः पचेत् पिष्टैः सारिवाव्योषचित्रकैः॥

श्लोक 12

पाठाविडङ्गमधुकपयस्याहिङ्गुदारुभिः।
सग्रन्थिकैः सेन्द्रयवैः शिशोस्तत् सततं हितम्।
सर्वरोगग्रहहरं दीपनं बलवर्णदम्॥

श्लोक 13

सारिवासुरभिब्राह्मशिङ्खिनीकुष्ठसर्षपैः।
वचाश्वगन्धासुरसायुक्तैः सर्पिर्विपाचयेत्॥

श्लोक 14

तन्नाशयेद् ग्रहान् सर्वान् पानेनाभ्यञ्जनेन च। योजयेद् भूतविद्यायां यान्युक्तानि घृतानि च॥

श्लोक 15

हस्तमात्रं शुचौ देशे गोमयेनोपलेपयेत्।
तत्राक्षतानां चोक्षाणां स्थाप्यं पात्रं सदक्षिणम्॥

श्लोक 16

निर्धूमश्चानलस्तोयं गुग्गुलुः सर्पिराहुतिः।
शुक्लं पुष्पं बलिर्धूपो दूर्वा श्वेताश्च सर्षपाः॥

श्लोक 17

प्राङ्मुखोऽथ शुचिर्वैद्यस्त्रिवर्णामथवा सिताम्।
उपविष्टः प्रतिसरां गृहीत्वा वेष्टयेत्तया॥

श्लोक 18

भूर्जे रोचनया विद्यां लिखितामपराजिताम्।
विधिना साधितां भूतैः सर्वैरप्यपराजिताम्॥

श्लोक 19

लक्ष्मणादिपरीवारां नित्यानुस्मृतिसेविताम्।
लक्ष्मणा सहदेवाख्या नागदन्ती कटम्भरा॥

श्लोक 20

मर्कटी कर्कटी लम्बा बृहती कण्टकारिका।
खरनासा मृगोर्वारुर्महाश्वेता शतावरी॥

श्लोक 21

उदङ्मुखस्य बालस्य बध्नीयात्तां ततो गले।
तदभावे दृढं क्षौमसूत्रं मन्त्रमिदं जपन्॥

श्लोक 22

बध्नाम्यहं प्रतिसरां नमस्कृत्वा स्वयम्भुवे।
बालानां रक्षणार्थाय शिवां पूर्वर्षिनिर्मिताम्॥

श्लोक 23

इन्द्रोऽनुमन्यतां तुभ्यं ये च तस्यानुचारिणः।
वज्राशनिधरा भूता मेघवृन्दानुसारिणः॥

श्लोक 24

ऐरावतस्कन्धगतं येऽनुयान्ति पुरन्दरम्।
यमो वैवस्वतो राजा ये च तस्यानुचारिणः॥

श्लोक 25

मेषसूकरसिंहोष्ट्रखरवाजिसमाननाः।
काला कालायसैःपाशैःस्तब्धाक्षा भ्रुकुटीमुखाः॥

श्लोक 26

शक्तिमुद्गरहस्ताश्च खड्गपाशधराश्च ये।
पाशभृद्वरुणो राजा तोयभूः सागरालयः॥

श्लोक 27

शारदाभ्रघनाकारा ये च तस्यानुचारिणः।
महोर्मिमन्तं वेगेन क्षोभयन्ति सरित्पतिम्॥

श्लोक 28

धनाधिपो वैश्रवणः सर्वयक्षाधिपो विभुः।
नानाकाराश्च ये भूतास्तस्यैवानुचराः सदा॥

श्लोक 29

आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि।
एते सर्वेऽनुमन्यन्तामिमां प्रतिसरक्रियाम्॥

श्लोक 30

दीर्घमायुररोगं च तव दास्यन्ति स्वस्ति ते।
स्वस्ति ते भगवान् ब्राह्मा स्वस्ति नारदपर्वतौ॥

श्लोक 31

स्वस्ति वेदाश्च यज्ञाश्च अग्नीषोमौ च स्वस्ति ते।
स्वस्ति ते श्रीर्धृतिःकीर्तिर्लक्ष्मीर्मेधा क्षमा द्युतिः॥

श्लोक 32

स्वस्ति तुष्टिश्च पुष्टिश्च वपुर्द्रीर्बुद्धिरेव च।
स्वस्ति रुद्रो विशाखश्च स्कन्दः शक्तिधरश्च ते॥

श्लोक 33

स्वस्ति धाता विधाता च सुपर्णश्च महाबलः।
स्वस्ति देवाश्च यक्षाश्च मा च ते पापमागमत्॥

श्लोक 34

दुर्व्यादृतानि दुस्वप्नं मनसा चिन्तितानि च।
दुष्टादीनां भयकृतो वाचः प्रतिहता मया॥

श्लोक 35

रक्षा प्रतिसरा तुभ्यं बद्धेयं पापघातिनी।
निर्वृतस्त्वं निरुद्वेगो जीव वर्षशतं सुखी॥

श्लोक 36

अपूपपूपसंयावस्वस्तिकालोपिकादयः।
पायसो मिश्रकः सिद्धो गुडपूरो हरिद्रकः॥

श्लोक 37

कृसरो यावकः क्षौद्रं पललं लवणं हविः।
दधिकुल्माषनिष्पावो रक्तो भूतौदनः पयः॥

श्लोक 38

पक्वाममांसरुधिरमत्स्यसक्तु सुरासवाः।
गन्धं माल्यं फलं हेम धूपः सपुरकुन्दुरुः॥

श्लोक 39

सुरसार्जकनिर्गुण्डीकुसुमं च सपल्लवम्।
बलिः सुशस्तैर्देयः स्याद् भवनस्य चतुर्दिशम्॥

श्लोक 40

चतुष्कचैत्यत्रिपथदेवायतनगोपुरे।
रेखावृक्षोदपाने च सन्ध्ययोर्दीपवान् निशि॥

श्लोक 41

अथापतितगोवर्चः प्रलिप्ते दर्भसंस्तृते।
वृत्ते वा चतुरस्रे वा मण्डले कुसुमोज्वले॥

श्लोक 42

नानाग्रहपरीवारं भिषग्भूतपतिं लिखेत्।
तं प्रति प्राङ्मुखो विद्यां पठन्नुपहरेत् बलिम्॥

श्लोक 43

नमोविमारकस्य।
नमः कुमारङ्गाय।
नमः सप्तानां मातॄणाम्।
नमः स्कन्दाय।
एष परिग्रहमन्त्रः।
मातॄणामावाहनं च।
हिलिहिलिनिमापटलिनि स्वाहा।
अनेन सप्तकृत्वः परिजपितेन पानीयचलुकेनात्माभ्युक्षयितव्यः।
एवमात्मरक्षा कृता भवति॥

श्लोक 44

ग्रहाणां सन्निधानाय बलेश्च प्रतिपत्तये।
सत्यसाधनसंयुक्तमिमं मन्त्रं पठेदनु॥

श्लोक 45

प्रजापतौ च यत् सत्यं यत् सत्यममरेश्वरे।
धर्मराजे च यत् सत्यं यच्च सत्यं तपस्विषु॥

श्लोक 46

धनाधिते च यत् सत्यं यच्च सत्यं जलाधिते।
यत् सत्यमग्निहोत्रेषु सत्यं यच्छ्रोत्रियेषु च॥

श्लोक 47

पतिव्रतासु यत्सत्यमीश्वरे च महात्मनि।
एतैस्तु सत्यसमयैर्गुह्यकाः सत्यवादिनः॥

श्लोक 48

दर्शयध्वं स्वरूपाणि सत्यं रक्षत सर्वतः।
आमन्त्रिता मया सौम्याः सौम्यरूपाः प्रतीच्छता॥

श्लोक 49

बलिं चोपहृतं सर्वं सर्वे कौमारका ग्रहाः।
दर्शयध्वं स्वरूपाणि बलिश्च प्रतिगृह्यताम्॥

श्लोक 50

ततश्चानु पठेदेनां कुलविद्यां समाहितः।
औला नीला खला काला नकुला ग्रहकारिका॥

श्लोक 51

सेना सुसेना माता च महासेना यशस्विनी।
कृतमालाक्षतशिरा एतास्तु ग्रहमातरः॥

श्लोक 52

कुमारवचनाच्छीघ्रं प्रमुञ्चन्तु शिशुन्त्विमम्।
कालकल्पा ज्वलच्छक्तिः किङ्किणीजालभूषिता॥

श्लोक 53

कुमारवचनाद्दूती सम्प्राप्ता मुच्यतां शिशुः।
पताका कुक्कुटः छत्रं घण्टाबर्हधरः शिखी॥

श्लोक 54

शरस्तम्भश्च ते मुद्रा मुच्यतां मातरः शिशुः।
गन्धं धूपं च माल्यं च कुमारस्ते प्रयच्छति॥

श्लोक 55

न स्थातव्यं तदाघ्राय स्वां गतिं गच्छ मा चिरम्।
धात्र्यः सर्वाः कुमारस्य सङ्गता गन्धमादने॥

श्लोक 56

रक्तध्वजपताकस्य रक्तांशुकनिवासिनः।
कुमारस्यालयं तत्र यात बालं विमुञ्चत॥

श्लोक 57

षम्मुखो द्वादशाक्षो वै तस्मिन् काले वृतो वरम्।
वीरः कुमाराधिपतिस्तव पुत्रोऽभिषिच्यताम्॥

श्लोक 58

ब्राह्मणो ब्राह्मणानान्तु सर्ववेदविदां वरः।
यक्षराक्षसनागानां गन्धर्वासुरयोरपि॥

श्लोक 59

पिशाचभूतसङ्घानां व्याधीनां च स ईश्वरः।
आज्ञापयति वः स्कन्दो गम्यतां गन्धमादनम्॥

श्लोक 60

ग्रहो यः कोपयेदाज्ञां कुमारस्य यशस्विनः।
स्थानात् च्युतः स वै क्षिप्रं बाह्यः परिषदो भवेत्॥

श्लोक 61

बलेरनन्तरं कुर्याद्धोममभ्यर्च्य पावकम्।
पुष्पैर्भक्ष्यैश्च विविधैश्चरुणा लोहितैस्तथा॥

श्लोक 62

गन्धैर्गुग्गुलुधूपैश्च समिधः खदिरादथ।
शतमष्टोत्तरं हव्यमथवा चन्दनद्रुमात्॥

श्लोक 63

अग्निदण्डं प्रवक्ष्यामि सर्वग्रहविमोक्षणम्।
ब्रह्मण्यन्त्वनलं देवं हव्यकव्यप्रतीच्छकम्॥

श्लोक 64

देवानां प्राङ्मुखं स्वस्तिस्वाहापहरतिद्रुतम्।
सहस्रविद्यो दहनः पावकः सर्वभक्षणः॥

श्लोक 65

त्वं हि यज्ञश्च यूपश्च त्वं हि धर्मवतां गतिः।
हिरण्यरेता देवस्त्वं त्वं हि वेदविदां गतिः॥

श्लोक 66

दुर्वृत्तानां विनाशाय त्वं समुत्पादितः सुरैः।
दहसङ्ग्रहदेवत्वमिदं दुष्टस्य निग्रहम्॥

श्लोक 67

अग्नये स्वाहा।
महाग्नये स्वाहा।
त्वं हि शान्तिकरो वह्निस्त्वं मारुतहरोदनः।
हरिप्रधानगतिरासीदिमं निगृह्य गुह्यकमुत्सादय तेजसा त्वं मम वश्यं च तं कुरु दुष्टग्रहनिवारणं सर्वोपद्रवेषु च॥

श्लोक 68

त्वया कृतेन होमेन शीघ्रं शान्तिः प्रजायते।
आयाहि वह्ने देवानां त्वं हि वक्त्रं पुरातनम्।
तेन सत्येन देवेश इमं साधय मे ग्रहम्॥

श्लोक 69

नमोऽस्तुते हव्यवाहन दण्डं प्रदर्शय दह दह दर्श दर्श तेज तेज मोटय मोटय अपस्मारमुद्घाटय कुमार पिशाचरेवतीरोदनत्रासन वित्रासन कम्पन उत्कम्पन विजृम्भण देवयक्षगन्धर्वभूतनागराक्षससन्तजन दण्डनाविधूसारयभगवन्नग्निदण्ड अग्निवीर्य नमस्तेजसास्वेनत्यक्तमुत्सादय स्वाहा।
भूर्भुवस्स्वः स्वाहा।
दीप्ततेजसे स्वाहा।
हव्यवाहनाय स्वाहा।
यमाय स्वाहा।
नश्यन्त्यनेन होमेन समस्ता बालकग्रहाः॥

श्लोक 70

तत्राग्नावरुणे ताम्रे तप्तहेमसमार्चिषि।
तारावैदूर्यसदृशे शशिविद्युत्समप्रभे॥

श्लोक 71

घृतमण्डाभवर्णे वा गन्धेन च घृतोपमे।
केतकोत्पलदध्याभे द्रुवमारोग्यमादिशेत्।
अनारोग्यं तु नीलेऽग्नौ कपिले भस्मनिष्प्रभे॥

श्लोक 72

कृष्णे कपोते दुर्गन्धे मत्स्यपूयास्रगन्धिके।
वचालशुनगन्धाभे विस्रे कर्दमगन्धिके॥
॥इति चतुर्थोऽध्यायः॥