अष्टाङ्गसंग्रहः उत्तरस्थानम्  3

श्लोक 1

अथातो बालग्रहविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

पुरा गुहस्य रक्षार्थं निर्मिताः शूलपाणिना।
मनुष्यविग्रहाः पञ्च सप्त स्त्रीविग्रहा ग्रहाः॥

श्लोक 3

स्कन्दो विशाखो मेषास्यः श्वग्रहः पितृसंज्ञितः।
शकुनिः पूतना शीतपूतनादृष्टिपूतना।
मुखमण्डितिका तद्वद्रेवती शुष्करेवती॥

श्लोक 4

ते कामरूपिणः स्कन्दमुपचेरुः समाहिताः।
स्कन्दस्य बालधारत्वात्तेषां स्कन्दोऽग्रणीरभूत्॥

श्लोक 5

स्कन्देऽथ यौवनं प्राप्ते सेनापत्यं च तान् ग्रहान्।
रौद्रान् रुद्रोऽनुजग्राह प्रह्वान् वृत्त्यभिलाषिणः॥

श्लोक 6

न तिथिष्वप्यतिथयो देवताः पितरोऽपि वा।
येषु वेश्मसु पूज्यन्ते निवृत्ताचारवर्त्मसु॥

श्लोक 7

उत्सन्नबलिहोमेषु भिन्नकांस्योपभोजिषु।
हरध्वं तेषु बालानामारोग्यं धारि शर्म च॥

श्लोक 8

शूलिनेति नियुक्तास्ते बलिपूजाभिकाङ्क्षिणः।
क्रुद्धान् भीतान् विमनसः शून्यस्थानैकचारिणः॥

श्लोक 9

परोपभुक्तकुसुमवस्त्राभरणधारिणः।
बालान्कश्मलधात्रीकान्सन्ध्यासु रुदतोऽशुचीन्॥

श्लोक 10

ऋक्षोलूकबिडालादिरूपैरन्यैस्तथाद्भुतैः।
सन्त्रासयन्तःशयितान्कदाचिज्जाग्रतोऽपि वा।
प्रायः पर्वसु गृह्णन्ति ग्रहाश्छिद्रप्रहारिणः॥

श्लोक 11

आविशन्तश्च लक्ष्यन्ते केवलं शास्त्रचक्षुषा।
शुद्धेन देहं बालानां गन्धर्वा इव योषिताम्॥

श्लोक 12

तेषां ग्रहिष्यतां रूपं प्रततं रोदनं ज्वरः॥

श्लोक 13

सामान्यं रूपमुत्रासजृम्भाभ्रूक्षेपदीनताः।
फेनस्रावोर्ध्वद्ष्ट्योष्ठदन्तदंशप्रजागराः॥

श्लोक 14

रोदनं कूजनं स्तन्यविद्वेषः स्वरवैकृतम्।
नखैरकस्मात् परितः स्वधात्र्यङ्गविलेखनम्॥

श्लोक 15

तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः।
हतैकपक्षः स्तब्धाङ्गः सस्वेदो नतकन्धरः॥

श्लोक 16

दन्तखादी स्तनद्वेषी त्रस्यन्रोदिति विस्वरम्।
वक्रवक्त्रो वमन्लालां भृशमूर्ध्वं निरीक्षते॥

श्लोक 17

वसास्रगन्धिरुद्विग्रो बद्धमुष्टिशकृच्छिशुः।
चलितैकाक्षिगण्डभ्रूः संरक्तोभयलोचनः।
स्कन्दार्तस्तेन वैकल्यं मरणं वा भवेद्ध्रुवम्॥

श्लोक 18

संज्ञानाशो मुहुः केशलुञ्चनं कन्धरानतिः।
विनम्य जृम्भमाणस्य शकृन्मूत्रप्रवर्तनम्॥

श्लोक 19

फेनोद्वमनमूर्ध्वेक्षा हस्तभ्रूपादनर्तनम्।
स्तनस्वजिह्वासन्दंशसंरम्भज्वरजागराः।
पूयशोणितगन्धश्च स्कन्दापस्मारलक्षणम्॥

श्लोक 20

आध्मानं पाणिपादस्य स्पन्दन फेननिर्वमिः।
तृण्मुष्टिबन्धातीसारस्वरदैन्यविवर्णताः॥

श्लोक 21

कूजनं स्तननं छर्दिः कासहिध्माप्रजागराः।
औष्ठदंशांससङ्कोचस्तम्भबस्ताभगन्धताः॥

श्लोक 22

ऊर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः।
मूर्छैकनेत्रशोफश्च नैगमेषग्रहाकृतिः॥

श्लोक 23

कम्पो हृषितरोमत्वं स्वेदश्चक्षुर्निमीलनम्।
बहिरायामनं जिह्वादंशोऽन्तःकण्ठकूजनम्।
धावनं विट्सगन्धत्वं क्रोशनं च श्ववच्छुनि॥

श्लोक 24

रोमहर्षो मुहुस्त्रासः सहसा रोदनं ज्वरः।
कासातिसारवमथुजृम्भातृट्च्छवगन्धिताः॥

श्लोक 25

अङ्गेष्वाक्षेपविक्षेपशोषस्तम्भविवर्णताः।
मुष्टिबन्धः स्रुतिश्चाक्ष्णोर्बालस्य स्युः पितृग्रहे॥

श्लोक 26

स्रस्ताग्गत्वमतीसारो जिह्वातालुगले व्रणाः।
स्फोटाःसदाहरुक्पाकाःसन्धिषु स्युः पुनःपुनः॥

श्लोक 27

निश्यह्नि प्रविलीयन्ते पाको वक्त्रे गुदेऽपिवा।
भयं शकुनिगन्धत्वं ज्वरश्च शकुनिग्रहे॥

श्लोक 28

पूतनायां वमिः कम्पस्तन्द्रा रात्रौ प्रजागरः।
हिध्माध्मानं शकृद्भेदः पिपासा मूत्रनिग्रहः।
स्रस्तहृष्टाङ्गरोमत्वं काकवत् पूतिगन्धिता॥

श्लोक 29

शीतपूतनया कम्पो रोदनं तिर्यगीक्षणम्।
तृष्णान्त्रकूजोऽतीसारो वसावद्विस्रगन्धिता।
पार्श्वस्यैकस्य शीतत्वमुष्णत्वमपरस्य च॥

श्लोक 30

अन्धपूतनया च्छर्दिर्ज्वरः कासोऽल्पनिद्रता।
वर्चसो भेदवैवर्ण्यदौर्गन्ध्यान्यङ्गशोषणम्॥

श्लोक 31

दृष्टिसादोऽक्षिरुक्कण्डूः पोथकीजन्म शूनता।
हिध्मोद्वेगः स्तनद्वेषवैवर्ण्यस्वरतीक्ष्णताः।
वेपथुर्मत्स्यगन्धित्वमथवा साम्लगन्धिता॥

श्लोक 32

मुखमण्डितया पाणिपादास्यरमणीयता।
सिराभिरसिताभाभिराचितोदरता ज्वरः।
अरोचकोऽङ्गग्लपनं गोमूत्रसमगन्धिता॥

श्लोक 33

रेवत्यां श्यावनीलत्वं कर्णनासाक्षिमर्दनम्।
कासहिध्माक्षिविक्षेपवक्त्रवक्रत्वरक्तताः॥

श्लोक 34

बस्तगन्धो ज्वरः शोषः पुरीषं हरितं द्रवम्।
जायते शुष्करेवत्यां क्रमात् सर्वाङ्गसङ्क्षयः॥

श्लोक 35

केशशातोऽन्नविद्वेषः स्वरदैन्यं विवर्णता।
नानावर्णपुरीषत्वमुदरे ग्रन्थयः सिराः।
रोदनं गृद्ध्रगन्धित्वं दीर्घकालानुवर्तनम्॥

श्लोक 36

उदरे ग्रन्थयो वृत्ता यस्य नानाविधं शकृत्।
जिह्वाया निम्नतामध्ये श्यावं तालु च तं त्यजेत्॥

श्लोक 37

भुञ्जानोऽन्नं बहुविधं यो बालः परिहीयते।
तृष्णागृहीतः क्षामाक्षो हन्ति तं शुष्करेवती॥

श्लोक 38

हिंसारत्यर्चनाकाङ्क्षा ग्रहग्रहणकारणम्॥

श्लोक 39

तत्र हिंसात्मके बालो महान् वा स्रुतनासिकः।
क्षतजिह्वः क्वणन् बाढमसुखी सास्रलोचनः॥

श्लोक 40

दुर्वर्णो हीनवचनः पूतिगन्धिश्च जायते।
क्षामो मूत्रपुरीषं स्वं मृद्नाति न जुगुप्सते॥

श्लोक 41

हस्तौ चोद्यम्य संरब्धो हन्त्यात्मानं तथापरम्।
तद्वच्च शस्त्रकाष्ठाद्यैरग्निं वा दीप्तमाविशेत्॥

श्लोक 42

अप्सु मज्जेत् पतेत् कूपे कुर्यादन्यच्च तद्विधम्।
तृट्दाहमोहान् पूयस्य छर्दनं च प्रवर्तयेत्।
रकं च सर्वमार्गेभ्योऽरिष्टोत्पत्तिं च तं त्यजेत्॥

श्लोक 43

रहःस्त्रीरतिसंल्लापगन्धस्रग्भूषणप्रियः।
हृष्टः शान्तश्च दुःसाधो रतिकामेन पीडितः॥

श्लोक 44

दीनः परिमृशन् वक्त्रं शुष्कौष्ठगलतालुकः।
शङ्कितं वीक्षते रौति ध्यायत्यायाति भीतताम्॥

श्लोक 45

अन्नमन्नाभिलाषेऽपि दत्तं नाति बुभुक्षते।
गृहीतं बलिकामेन तं विद्यात् सुखसाधनम्॥

श्लोक 46

हन्तुकामं जयेद्धोमैः सिद्धमन्त्रप्रवर्तितैः।
इतरौ तु यथाकामं रतिबल्यादिदानतः॥ ॥इति तृतीयोऽध्यायः॥