श्लोक 1
अथातो बालामयप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
त्रिविधो हि बालः प्रागुक्तस्तत्र क्षीरपस्य क्षीरमदुष्टं प्रयुञ्जीत।
अन्नादस्य हितमन्नम्।
उभयवृत्तेरुभयम्॥
श्लोक 3
क्षीरं हि यथोक्तैर्दोषकोपनैराहारविहारैर्धात्र्या व्यापन्नं विविधामयोदयाय बालस्य प्रकल्पते॥
श्लोक 4
तत्र श्यावारुणवर्णं तिक्तकषायानुरसं विशदं रूक्षमलक्ष्यगन्धं फेनिलमतृप्तिकरमाध्मानमूत्रवर्चोविबन्धकृत् कर्शनमप्सु विसर्पति विच्छिन्नं च प्लवते वातदुष्टम्॥
श्लोक 5
कृष्णनीलताम्रावभासं तिक्ताम्लकटुकानुरसं कुणपरुधिरगन्धि भृशोष्णमप्सु पीतराजिमद्विदाहकरं च पित्तदुष्टम्॥
श्लोक 6
अत्यर्थशुक्लमधुरं लवणानुरसं घृततैलवसामज्जगन्धि पिच्छिलं बहलं तन्तुमत् गुरु सलिलेऽवसीदति निद्राबहुलं च श्लेष्मदुष्टम्॥
श्लोक 7
तदुपयुज्यमानं यथास्वलिङ्गान् व्याधीनभिनिर्वर्तयति॥
श्लोक 8
स यं प्रदेशमभीक्ष्णं स्पृशति स्पर्शं च न क्षमते तत्र रुजमुपलक्षयेत्॥
श्लोक 9
निमीलिताक्षतया मूर्ध्नि रुजम्।
जिह्वौष्ठदंशश्वासमुष्टिवन्धोर्ध्वेक्षणैर्हृदये।
विण्मूत्रच्छर्द्याध्मानान्त्रकूजनस्तनदंशवेष्टनपृष्ठविनमनजठरोन्नमनैर्जठरे।
मूत्रसङ्गतृण्मूर्च्छोत्रासदिग्वीक्षणखल्लीहस्तपादस्तम्भकुब्जीभवनकेशलुञ्चनैर्बस्तौ गुह्ये च सर्वत्र च स्वभा वातिरिक्तरोदनेन मुखविकूणनेन च॥
श्लोक 10
अथ यथामयं यथादोषं च धात्र्याः शमनशोधनानि प्रयुञ्जीत॥
श्लोक 11
तत्र वातदूषिते स्तन्ये देवदारुसरलकटुरोहिणीवचाकुष्ठपाठाभार्ङ्गीमागधिकावृश्चिकालीचित्रकाजमोदशुण्ठीमरीचानां क्वाथं दशमूलक्वाथं वा त्रिरात्रं पाययित्वा वातव्याधिविहितानां सर्पिषामन्यतमं निगदमदिरानुपानं दद्याद्वातहरद्रव्यसिद्धं वा।
ततः स्निग्धां मृदु विरेच्य बस्तिकर्मणोपचरेत्।
वातघ्नैश्चाभ्यङ्गस्वेदोपदेहोन्मर्दनैः।
सरलरास्नाजमोदादेवदारुचूर्णं सर्पिषा बालमवलेहयेत्।
एवंविधैरेव च विपक्वं सशर्करं सर्पिः॥
श्लोक 12
अपि च।
तिक्तानुरसं स्तन्यं मुद्गमाषपलाशाभ्यां काकोलीयुगलेन च शोधयेत्।
प्रियङ्गुधातकीपुष्पपद्मकदेवदारुक्षौद्रैर्वा।
कषायानुरसं हिङ्गुसैन्धववता घृतेन।
फेनिलं विच्छिन्नं प्लवमानं च बिल्वाग्निमन्थशृतेन पयसा हविषा च।
सूप्यपर्णी काकोलीबृहत्यवल्गुजफलैर्वा॥
श्लोक 13
पित्तेऽमृतापटोलपत्रसारिवाशतावरीनिम्बचन्दनक्वाथं धात्री बालश्च पिबेत्।
त्रिफलाभूनिम्बकटुकामुस्तक्वाथं वा।
जीवकर्षभकद्विकाकोलीमधुककट्फलकर्कटशृङ्गीक्वाथं वा।
सक्षौद्रं पटोलादिं पद्मकादिं वा।
सारिवादिं न्यग्रोधादिं वा।
एभिरेव च द्रव्यैः सर्पीषि पित्तघ्नानि च विरेचनानि शीतांश्चाभ्यङ्गप्रदेहसेकान् कुर्यात्॥
श्लोक 14
अपि च।
ताम्रावभासं पयो हृदयमुद्वेष्टयति।
तत्प्रियङ्गुमुस्ताशाबरलोद्ध्रैः शोधयेत्।
अम्लानुरसमम्लपित्तकरम्।
तत् द्राक्षामधुकपयस्याश्रीपर्णीभिः।
कटुकानुरसं छर्द्यतीसारकासश्वासकरम्।
तत् काकोलीविदारीभ्यां मधुपर्ण्या च।
भृशोष्णमनामदाहज्वरकरं विरेचनं च तच्चन्दनोत्पलकमलैः॥
श्लोक 15
कफे तु सैन्धवपिप्पलीयुक्तं सर्पिर्बालं पाययेत्।
सैन्धवमधुकसंसृष्टं वा मदनपुष्पकल्केन च सक्षौद्रेण स्तनं बालस्य चोष्ठमालिम्पेत्।
तेन सुखं वमति।
धात्रीं तु तीक्ष्णैर्वामयेत्।
ततः कृतसंसर्जनां पञ्चमूलघनवचातिविषाक्वाथं पाययेत्।
तगरसुरदारुसुरेन्द्रयवपृथ्वीकावृश्चिकालीक्वाथं वा।
आरग्वधादिं मुस्तादिं वा।
रूक्षोष्णांश्च नस्यधूमगण्डूषप्रदेहपरिषेकान् शीलयेत्।
अविरुद्धं चान्नपानं योजयेत्॥
श्लोक 16
अपि च।
लवणानुरसं विसर्पकोठकण्डूकरम्।
तत् पिचुमन्दपटोलीक्षीरीवृक्षैः शोधयेत्।
तन्तुमद्दौर्बल्यश्वासकासकरम्।
तत् पिप्पलीनागरचूर्णेन समधुघृतेन।
गुरु सदनात्मकं प्रतिश्यायसिङ्घाणकक्षीरालसककरम्।
तत् पाठाव्योषकल्केन पञ्चकोलचूर्णेन वा क्षौद्रघृताप्लुतेन।
दोषोपक्रमणीयं चेक्षेत॥
श्लोक 17
यदा पुनर्धात्री सन्निपातप्रकोपनान्यासेवेत तदस्यास्त्रयो मला युगपद्वक्षोऽभिप्रपन्नाः क्षीरवहा रसायनीः समनुसृत्य सङ्गीर्णलिङ्गं स्तन्यमावहन्ति।
तच्चेदविज्ञानात् सततमप्रत्यवेक्षणात् प्रमादाद्वा मातुः कुमारः पिबति ततः स तेन सलिलोपममच्छं विच्छिन्नमामं दुर्गन्धि नानावर्णवेदनं फेनिलमतिसार्यते।
पीतश्वेतमूत्रताविष्टम्भतृष्णाज्वरच्छर्दिविजृम्भिकाशुष्कोद्गारारुचिभ्रमाङ्गभङ्गविक्षेपकूजनघ्राणाक्षिमुखपाकदृष्ट्युपप्लवस्वरसादादयश्चास्य प्रादुर्भवन्ति।
तं क्षीरालसकमत्ययं चाचक्षते॥
श्लोक 18
तत्र धात्रीं बालं च पूर्वमेवाशु वामयेत्।
विहितसंसर्गयोश्च मुस्तापाठातिविषाकुष्ठकटुकानां क्वाथं पानाय दद्यात्।
रास्नाजमोदाप्रियङ्गुभद्रदारूणां वा।
पाठातेजोवतीपुनर्नववृश्चिकालीनां वा।
भूनिम्बामृताकुटजफलसारिवाणां वा।
वचाहरिद्रादिगणयोर्वा।
पाठादिमहाकषायस्य वा।
जम्ब्वाम्रतिन्दुककपित्थपत्राणां वा।
बिल्वभङ्गस्य वा।
अनुबन्धे च यथाव्याधि प्रतिकुर्वीत॥
श्लोक 19
दन्तोद्भेदश्च सर्वरोगायतनम्।
विशेषेण तु तन्मूला ज्वरशिरोभितापतृष्णाभ्रमाभिष्यन्दकुकूणकपोथकीवमथुकासश्वासातीसारविसर्पाः॥
श्लोक 20
स दीर्घायुषोऽष्टमान्मासात् परतो वा प्रवर्तते।
इतरेषां तु चतुर्थात्।
तेह्यतिबाल्ये दन्तोत्पादवेदनयातिपीडिता न सम्यक् सम्पूर्णधातुबला भवन्ति॥
श्लोक 21
तत्रास्थिमज्जानौ दन्तोत्पत्तिहेतू।
तदा च तयोरसम्पूर्णवीर्यत्वात् पुनः कालान्तरेण दन्तानां पतनमापूर्यमाणधातुत्वाच्च पुनरुत्थानमत एव च वृद्धानां न पुनर्दन्तोत्पत्तिः॥
श्लोक 22
बलान्निपतितानां तु सहसा तदधिष्ठानगतधातुबीजभ्रंशात् सन्ततिव्युच्छेदाच्छोणितातिप्रवृत्याभिघाताच्च निस्सारितत्वात्।
सिराणां पुनरनुत्पादः एतेन रोगच्युता अपि प्रायशो व्याख्याताः॥
श्लोक 23
तौ तु धातू कालक्रमेण पच्यमानौ यदा दन्ताशयमनुप्रपद्येते तदास्य किञ्चिदुत्सेधेनोर्ध्वाधोदन्तमांससङ्घट्टनादङ्गहर्षो जायते।
तद्गतेन च श्लेष्मणा कण्डूस्तया चूचुकं दश्यते।
यद्यदालभते तत्तदास्यमानयति।
मारुतश्चास्य दन्तमूलेषु मूर्छति।
ततः स कफानुविद्धोऽस्थिमज्जस्थितः सर्वतो विसरन् सह पित्तेन धातून् मलांश्च दूषयन् विविधान्यथोदितानुपद्रवानभिनिर्वर्तयति॥
श्लोक 24
यदा पुनर्दन्तमांसाश्रयी केवलो विकृतः प्रबलोऽनिलः सपित्तो वास्थिमज्जानौ शोषयति तदा द्विजानामसम्भव एवेति।
भवन्ति चात्र॥
श्लोक 25
पृष्ठभङ्गे बिडालानां बर्हिणां च शिखोद्गमे।
दन्तोद्भेदे च बालानां न हि किञ्चिन्न दूयते॥
श्लोक 26
यथादोषं यथारोगं यथोद्रेकं यथाबलम्।
विभज्य देशकालादींस्तत्र योज्यं भिषग्जितम्॥
श्लोक 27
त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च यत्।
अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी।
सौकुमार्याल्पकायत्वात् सर्वान्नानुपसेवनात्॥
श्लोक 28
स्निग्धा एव सदा बाला घृतक्षीरनिषेवणात्।
सद्यस्तान् वमनं तस्मात् पाययेन्मतिमान्मृदु॥
श्लोक 29
बस्तिं साध्ये विरेकेण मर्शेन प्रतिमर्शनम्।
युञ्ज्याद्विरेचनादींस्तु धात्र्या एव यथोचितान्॥
श्लोक 30
मूर्वाव्योषवराकोलजम्बूत्वग्दारुसर्षपाः।
सपाठा मधुना लीढाः स्तन्यदोषहराः परम्॥
श्लोक 31
इक्षुमूलकशेर्वाख्ययष्ट्याह्वैस्तनु शुध्यति।
सान्द्रं तु क्षौद्रकाश्मर्यगुडूचीतण्डुलाम्बुभिः॥
श्लोक 32
शृतैर्वा सुरसश्वेतसर्षपाबृहतीद्वयैः।
ग्रथितं पद्मकोशीरफलिनीश्वेतचन्दनैः॥
श्लोक 33
दन्तपालीं समधुना चूर्णेन प्रतिसारयेत्।
पिप्पल्या धातकीपुष्पधात्रीफलकृतेन वा॥
श्लोक 34
वाध्रीणसकपोतोत्थरजस्तद्वच्च योजितम्।
लावतित्तिरिवल्लूररजः पुष्परसद्रुतम्॥
श्लोक 35
द्रुतं करोति बालानां दन्तकेसरवन्मुखम्।
वचाद्विबृहतीपाठाकटुकातिविषाघनैः।
मधुरैश्च घृतं सिद्धं सिद्धं दशनजन्मनि॥
श्लोक 36
भद्रदारु घनं यष्टी समङ्गा ससितोपला।
वातज्वरपरीताङ्गः पिबेदन्तरपानकम्॥
श्लोक 37
सुराह्वघनयष्ट्याह्वपयस्यांशुमतीद्वयम्।
नागरं मरिचं भार्ङ्गी वृश्चिकाली शतावरी॥
श्लोक 38
घृतं तत्क्वाथदुग्धाभ्यां सिद्धं हन्त्यनिलज्वरम्।
बालस्य पानाभ्यङ्गाभ्यामेभिश्चोन्मर्दनं हितम्॥
श्लोक 39
हरिद्राकुष्ठषङ्ग्रन्थाशतपुष्पाहरेणुभिः।
भार्ङ्ग्येलासुषवीरास्नावर्षाभूनतसर्षपैः॥
श्लोक 40
अक्षांशैः साम्बुसौवीरैर्मस्तुपिष्टैर्मरुज्ज्वरे।
तैलप्रस्थं सुरामण्डतुल्यमभ्यञ्जनं पचेत्॥
श्लोक 41
लाजनीलोत्पलकणामधुकाञ्जनशर्करम्।
पित्तज्वरमतीसारं मधुलीढं निवर्तयेत्॥
श्लोक 42
लाजद्विपिप्पलीक्वाथः शर्करामधुसंयुतः।
पीतो ज्वरमतीसारं तृष्णां छर्दिं च नाशयेत्॥
श्लोक 43
आमातिसारे रक्ते च कल्कितां गजपिप्पलीम्।
पाययेच्छर्करोपेतां चूर्णं वा देवदारुजम्॥
श्लोक 44
शिरोभितापे सघृतैः शिरः शीतैः प्रलेपयेत्।
पत्रैः कपित्थचाङ्गेरीबदरीकाकमाचिजैः॥
श्लोक 45
शिरोरुक्च्छर्द्यतीसारनाशनं मूर्धलेपनम्।
गवादनीं दाडिमं च तृड्वान् कोष्णाम्भसा पिबेत्॥
श्लोक 46
कुर्यात् कुकूणपोथक्योर्यथोक्तं स्वं स्वमौषधम्।
मनश्शिलाशङ्खनाभिः पिप्पल्यो मधुयष्टिका॥
श्लोक 47
क्षौद्रेण घृष्टा गुलिका शिशोः सर्वाक्षिरोगजित्।
पिप्पलीतण्डुलैर्मुद्गैः सुमनःकोरकैर्यवैः।
नीलोत्पलस्य पत्रैश्च श्रेष्ठा वर्तिः शतोन्मितैः॥
श्लोक 48
प्रियङ्ग्वञ्जनमुस्तानां चूर्णस्तण्डुलवारिणा।
तृष्णातीसारवमथून् हन्ति पीतः समाक्षिकः॥
श्लोक 49
पटोलनिम्बकुटजसप्तपर्णं सदीप्यकम्।
देवदारुविडङ्गानि सरलो माक्षिकं घृतम्॥
श्लोक 50
लीढं ज्वरमतीसारं कासं पाण्ड्वामयं वमिम्।
हन्याच्च मातृकादोषान् रोगानन्यांश्च तद्विधान्॥
श्लोक 51
मधुकव्योषषड्ग्रन्थाग्रन्थिकास्पृष्टरोदिकाः।
क्षीरिणां च प्रवालानि पाठा च विपचेत् घृतम्।
तत् पीतं समधु श्लेष्मज्वरघ्नं दीपनं परम्॥
श्लोक 52
रास्नैलानततर्कारीमधुशिग्रुसुराह्वयैः।
सबिल्वकुष्ठवरणरेणुकामिसिभिः कृतः॥
श्लोक 53
श्लेष्मज्वरहरो लेपस्तैलमभ्यञ्जनं च तैः।
मण्डलानि तु साज्येन गजमूत्रेण लेपयेत्॥
श्लोक 54
रजनी दारु सरलश्रेयसी बृहतीद्वयम्।
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा।
ग्रहणीदीपनं श्रेष्ठं मारुतस्यानुलोमनम्॥
श्लोक 55
अतीसारज्वरश्वासकामलापाण्डुकासजित्।
बालस्य सर्वरोगेषु पूजितं बलवर्णदम्॥
श्लोक 56
बिल्वपेशीगजकणाधातकीलोध्रवालकम्।
हन्ति लीढमतीसारं शिशोः क्षौद्रद्रुतं द्रुतम्॥
श्लोक 57
त्रिफलाधातकीपुष्पपद्मबिल्वशलाटुभिः।
सक्ट्वङ्गैर्घृतं सिद्धमुदरामयनाशनम्॥
श्लोक 58
पथ्यासौवर्चलक्षारवेल्लव्योषाग्निहिङ्गुभिः।
तिक्तया च घृतं सिद्धं समक्षीरं व्यपोहति।
शूलानाहगुदभ्रंशश्वासकासविलम्बिकाः॥
श्लोक 59
समङ्गाधातकीलोध्रकुटन्नटबलाद्वयैः।
महासहाक्षुद्रसहामुद्गबिल्वशलाटुभिः॥
श्लोक 60
सकार्पासीफलैस्तोये साधितैः साधितं घृतम्।
क्षारमस्तुयुतं हन्ति शीघ्रं दन्तोद्भवोद्भवान्।
विविधानामयानेतद्वृद्धकाश्यपनिर्मितम्॥
श्लोक 61
दन्तोद्भेदोत्थरोगेषु न बालमतियन्त्रयेत्।
स्वयमाप्युपशाम्यन्ति जातदन्तस्य यत् गदाः॥
श्लोक 62
यावन्मासस्य यो जातस्तावद्वर्षस्य स द्विजः।
पतति प्रायशोऽष्टानां तेषां पूर्वेषु सम्भवः॥
श्लोक 63
अत्यहःस्वप्नशीताम्बुश्लैष्मिकस्तन्यसेविनः।
शिशोः कफेन रुद्धेषु स्रोतस्सु रसवाहिषु॥
श्लोक 64
अरोचकः प्रतिश्यायो ज्वरः कासश्च जायते।
कुमारः शुष्यति ततः स्निग्धशुक्लमुखेक्षणः॥
श्लोक 65
सैन्धवव्योषशाअर्ङ्गेष्ट्अपाठागिरिकदम्बकान्।
शुष्यतो मधुसर्पिर्भ्यामरुच्यादिषु योजयेत्॥
श्लोक 66
अशोकरोहिणीयुक्तं पञ्चकोलं च चूर्णितम्।
बदरीधातकीधात्रीचूर्णं वा सर्पिषा द्रुतम्॥
श्लोक 67
अश्वलिण्डरसक्षौद्रयुक्तां वा मधुयष्टिकाम्।
द्विवार्ताकीफलरसं केवलं वाश्वविड्रसम्॥
श्लोक 68
मधुना वा घनव्योषपाठा मूर्वा शतावरी।
सपयस्या पृथक्पर्णी घृतं वा माक्षिकान्वितम्।
स्थिरामरतरुव्योषद्विपुनर्नवसाधितम्॥
श्लोक 69
स्थिरावचाद्विबृहतीकाकोलीपिप्पलीनतैः।
निचुलोत्पलवर्षाभूभार्ङ्गीमुस्तैश्च कार्षिकैः॥
श्लोक 70
सिद्धं प्रस्थार्धमाज्यस्य स्रोतसां शोधनं परम्।
सिंह्यश्वगन्धासुरसकणागर्भं च तद्गुणम्॥
श्लोक 71
यष्ट्याह्वपिप्पलीलोध्रपद्मकोत्पलचन्दनैः।
तालीससारिवाभ्यां च साधितं शोषजित् घृतम्॥
श्लोक 72
रास्नामधूलिकाभार्ङ्गीपिप्पलीदेवदारुभिः।
अश्वगन्धाद्विकाकोली शृङ्ग्यर्षभकजीवैकः॥
श्लोक 73
सूप्यपर्णीविडङ्गैश्च कल्कितैः साधितं घृतम्।
शशोत्तमाङ्गनिर्यूहे शुष्यतः पुष्टिकृत् परम्॥
श्लोक 74
वचावयस्थातगरकायस्थाचोरकैः शृतम्।
बस्तमूत्रसुराभ्यां च तैलमभ्यञ्जने हितम्॥