श्लोक 1
अथातः स्नेहादिव्यापत्सिद्धिं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
स्नेहबस्तौ मरुत्पित्तकफात्याशाविडावृते।
अभुक्ते शूनपाय्वामदत्तेऽष्टौ व्यापदः स्मृताः॥
श्लोक 3
शीतोऽल्पो वाधिके वाते पित्तेत्युष्णः कफे मृदुः।
अतिभुक्ते गुरुर्वर्चःसञ्चयेऽल्पबलस्तथा।
दत्तस्तैरावृतः स्नेहो नायात्यभिभवादपि॥
श्लोक 4
स्तम्भोरुसदनाध्मानज्वरशूलाङ्गमर्दनैः।
पार्श्वरुग्वेष्टनैर्विद्याद्वायुना स्नेहमावृतम्॥
श्लोक 5
स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः।
सौवीरकसुराकोलकुलत्थयवसाधितैः॥
श्लोक 6
निरूहैर्निर्हरेत् सम्यक् समूत्रैः पाञ्चमूलिकैः।
ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्॥
श्लोक 7
तृड्दाहरागसम्मोहवैवर्ण्यतमकज्वरैः।
विद्यात् पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्॥
श्लोक 8
तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः।
समूर्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्॥
श्लोक 9
कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः।
फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्॥
श्लोक 10
छर्दिमूर्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः।
आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्॥
श्लोक 11
कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्।
मृदुर्विरेकः सर्वं च तत्रामविहितं हितम्॥
श्लोक 12
विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः।
स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सबस्तिभिः॥
श्लोक 13
श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः।
निर्हरेद्विधिना सम्यगुदावर्तहरेण च॥
श्लोक 14
अभुक्ते शूनपायोर्वा पेयामात्राशितस्य वा।
गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः।
ऊर्ध्वकायं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि॥
श्लोक 15
मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्।
तत्सिद्धतैलो देयः स्यान्निरूहः सानुवासनः॥
श्लोक 16
कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः।
छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निवर्तनम्॥
श्लोक 17
नापक्वं प्रणयेत् स्नेहं गुदं स ह्युपलिम्पति।
ततः कुर्यात् सरुङ्मोहकण्डूशोफान् क्रियात्र च।
तीक्ष्णो बस्तिस्तथा तैलमर्कपत्ररसे शृतम्॥
श्लोक 18
ह्रस्वं दीर्घं तनु स्थूलं जीर्णं शिथिलबन्धनम्।
पार्श्वच्छिद्रं तथा वक्रमष्टौ नेत्राणि वर्जयेत्॥
श्लोक 19
अप्राप्त्यतिगतिक्षोभकर्षणनस्रवाः।
गुडपीडा गतिर्जिह्मा तेषां दोषा यथाक्रमम्॥
श्लोक 20
मांसलस्निग्धविषमजालवत्स्थूलवातलः।
छिन्नः क्लिन्नश्च तानष्टौ बस्तीन् कर्मसु वर्जयेत्॥
श्लोक 21
गतिवैषम्यदौर्गन्ध्यजिह्मत्वस्रुतिदुर्ग्रहाः।
फेनिलच्युत्यधार्यत्वं बस्तेः स्युर्बस्तिदोषतः॥
श्लोक 22
उच्चकैरत्यवाक्शीर्षं न्युब्जं सङ्कुचितं स्थितम्।
उत्तानं दक्षिणं पार्श्वं सप्त शय्याः परित्यजेत्॥
श्लोक 23
मूत्राघातोऽतिसम्प्राप्तिरप्राप्तिः साधुनागतिः।
आश्वागतिर्मरुत्कोपस्तृप्तिः पक्वाशयस्य च।
तद्दोषाः स्युर्विधातव्यं यथौपयिकमत्र च॥
श्लोक 24
सवातातिद्रुतोत्क्षिप्ततिर्यगुल्लुप्तकम्पिताः।
अतिमन्दकबाह्यातिवेगदोषाः प्रणेतृतः॥
श्लोक 25
अनुच्छ्रवास्य तु बद्धे वा दत्ते निःशेष एव वा।
प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत्।
तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च॥
श्लोक 26
द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा।
स्यात् कटीगुदजङ्क्षोरुबस्तिस्तम्भार्तिभेदनम्॥
भोजनं तत्र वातघ्नं स्वेदाभ्यङ्गाः सबस्तयः॥
श्लोक 27
तिर्यग्वल्यावृते द्वारे बद्धे वापि न गच्छति।
नेत्रे तदृजु निष्कृष्य संशोध्य च पुनर्नयेत्॥
श्लोक 28
पीड्यमानेऽन्तरामुक्ते गुदे प्रतिहतोऽनिलः।
उरः शिरोरुजं सादमूर्वोश्च जनयेद्बली।
बस्तिःस्यात्तत्रबिल्वादिः फलश्यामादिमूत्रवान्॥
श्लोक 29
स्याद्दाहो दवथुः शोफः कम्पेनाभिहते गुदे।
कषायमधुराः शीताः सेकास्तत्र सबस्तयः॥
श्लोक 30
अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वलेः।
स्यात् सार्तिदाहनिस्तोदगुरुवर्चःप्रवर्तनम्।
तत्र सर्पिः पिचुः क्षीरं पिच्छाबस्तिश्च शस्यते॥
श्लोक 31
न भावयति मन्दस्तु बाह्यश्चाशु निवर्तते।
स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता॥
श्लोक 32
अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्।
तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च॥
श्लोक 33
वमनाद्यैर्विशुद्धं च क्षामदेहबलानलम्।
यथाण्डं तरुणं पूर्णं तैलपात्रं यथा तथा।
भिषक् प्रयत्नतो रक्षेत् सर्वस्मादपचारतः॥
श्लोक 34
दद्यान्मधुरहृद्यानि ततोऽम्ललवणौ रसौ।
स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः॥
श्लोक 35
अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः।
व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्।
सर्वंसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः॥
श्लोक 36
अत्रान्तरे त्यजेदष्टौ भाष्यादीनि विशेषतः।
उच्चैर्भाष्याच्छिरोरोगतिमिरोरःस्वरव्यथाः॥
श्लोक 37
रक्तनिष्ठीवतमकज्वराद्यास्तत्र साधनम्।
अभ्यङ्गस्वेदनस्याधोभक्तस्नेहोपसेवनम्।
मौनं विधिर्वातहरो यथास्वं च विकारजित्॥
श्लोक 38
अत्यास्यायानयानाभ्यां सन्धिमूर्धत्रिकादिरुक्।
अतिचङ्क्रमणात् पादजङ्क्षोरुसदनादयः॥
श्लोक 39
तेषां वातहरं सर्वं स्नेहस्वेदादि शस्यते।
अजीर्णभोजनादामविषच्छर्दिज्वरादयः॥
श्लोक 40
तत्र मात्राशितीयोक्तो विधेयो विधिरामहा।
अहितान्नाद्यथादोषं रोगाः स्युर्भेषजानि च॥
श्लोक 41
हलीमकादयः प्रोक्ता दिवास्वप्नात् पुरा गदाः।
विदध्यात् कफजित्तेषु धूमरूक्षान्नलङ्क्षनम्॥
श्लोक 42
व्यवायाज्जीवितभ्रंशस्तैस्तैरस्यानिलामयैः।
गुदोऽवलुप्यत इव भ्रमतीव च चेतना॥
श्लोक 43
मेढ्रं धूमायति मनस्तमसीव प्रवेश्यते।
जीवनीयशृतक्षीरसर्पिषोरुपसेवनम्।
आहारो बृंहणस्तत्र वृष्यास्ते ते च बस्तयः॥
श्लोक 44
वेगरोधोर्ध्ववातत्वात् प्रागुक्ता ये सदातुराः।
तेषां विबद्धे पवने सर्वदेहोपतापित्नि।
फलवर्तिं पुरा दद्यादथ बस्तिं चलापहम्॥
श्लोक 45
निकुम्भकुम्भाग्न्युरुबूकधावनीपुनर्नवं दारु महच्च पञ्चकम्।
फलं च मूत्रे क्वथितं समस्तु तत् घृतं सतैलं लवणानि पञ्च च॥
श्लोक 46
निरूहितं धन्वरसेन भोजयेन्निकुम्भतैलेन ततोऽनुवासयेत्।
बलां सरास्नां फलबिल्वचित्रकान् द्विपञ्चमूलं कृतमालकात् फलम्॥
श्लोक 47
यवान् कुलत्थांश्च पचेज्जले रसः समुस्तपाठेन्द्रयवैश्च कल्कवान्।
सतैलसर्पिर्गुडसैन्धवो हितः सदातुराणां बलपुष्टिवर्णदः॥
श्लोक 48
तथानुवास्यं मधुकेन साधितं फलेन बिल्वेन शताह्वयाथवा।
सजीवनीयस्तु रसोऽनुवासने निरूहणे चालवणः शिशोर्हितः॥
श्लोक 49
निरूहबस्तेर्नैवान्यत् पथ्यं स्थविरबालयोः।
बलाङ्गवर्धनं शीघ्रमादृतो योजयेदतः॥
॥इति सप्तमोऽध्यायः॥