श्लोक 1
अथातः सिद्धबस्तिकल्पं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
सिद्धबस्तीन् प्रयुञ्जीत सर्वदा सर्वदेहिनाम्।
निर्व्यापदो बहुफलान् बलपुष्टिकरान् सुखान्॥
श्लोक 2
मधुतैले समे कर्षः सन्धवात् द्विपचुर्मिसिः।
एरण्डमूलक्वाथेन निरूहो माधुतैलिकः।
रसायनं प्रमेहार्शः कृमिगुल्मान्त्रवृद्धिनुत्॥
श्लोक 3
सयष्टिमधुकश्चैष चक्षुष्यो रक्तपित्तजित्।
यापनो घनकल्केन मधुतैलरसाज्यवान्॥
श्लोक 4
पायुजानूरुवृषणबस्तिमेहनशूलजित्।
प्रसृतांशैर्घृतक्षौद्रवसातैलैः प्रक्ल्पयेत्।
यापनं सैन्धवार्धाक्षहपुषार्धपलान्वितम्॥
श्लोक 5
एरण्डमूलनिष्क्वाथो मधुतैलं ससैधवम्।
एष युक्तरथो बस्तिः सवचापिप्पलीफलः॥
श्लोक 6
सक्वाथो मधुषड्ग्रन्थाशताह्वाहिङ्गुसैन्धवः।
सुरदारु च रास्ना च बस्तिर्दोषहरः शिवः॥
श्लोक 7
पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु।
ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः॥
श्लोक 8
द्विपञ्चमूलत्रिफलाफलबिल्वानि पाचयेत्।
गोमूत्रे तेन पिष्टैश्च पाठातोयदवत्सकैः॥
श्लोक 9
सफलैः क्षौद्रतैलाभ्यां क्षारेण लवणेन च।
युक्तो बस्तिः कफव्याधिपाण्डुरोगविषूचिषु।
शुक्रानिलविबन्धेषु बस्त्याटोपे च पूजितः॥
श्लोक 10
मुस्तापाठामृतैरण्डबलारास्नापुनर्नवम्।
मञ्जिष्ठारग्वधोशीरत्रायमाणाक्षरोहिणीः॥
श्लोक 11
कनीयः पञ्चमूलं च पालिकं मदनाष्टकम्।
जलाढके पचेत्तच्च पादशेषं परिस्रुतम्॥
श्लोक 12
क्षीरद्विप्रस्थसंयुक्तं क्षीरशेषं पुनः पचेत्।
सपादजाङ्गलरसः ससर्पिर्मधुसैन्धवः॥
श्लोक 13
पिष्टैर्यष्टीमिसिश्यामाकलिङ्गकरसाञ्जनैः।
बस्तिः सुखोष्णो मांसाग्निबलशुक्रविवर्धनः॥
श्लोक 14
वातासृङ्मोहमेहार्शोगुल्मविण्मूत्रसङ्ग्रहम्।
विषमज्वरवीसर्पवर्ध्माध्मानप्रवाहिकाः॥
श्लोक 15
वङ्क्षणोरुकटीकुक्षिमन्याश्रोत्रशिरोरुजः।
हन्यादसृग्दरोन्मादशोफकासाश्मकुण्डलान्।
चक्षुष्यः पुत्रदो राजा यापनानां रसायनम्॥
श्लोक 16
पृथक् पलांशं विपचेत् पञ्चमूलमगोक्षुरम्।
क्षीराढके चतुर्थस्थं पिष्टैर्यष्ट्यादिभिर्युतम्॥
श्लोक 17
क्षौद्रतैलाज्यसिन्धूत्थयुक्तं बस्तिः सुपूजितः।
विशेषाद्बालवृद्धस्त्रीसुकुमारसुखात्मनाम्॥
श्लोक 18
तद्वत् सहाचरबलासारिवादर्भसाधितम्।
क्षीरं बस्तिस्तथाभीरुगुडूचीबृहतीद्वयैः।
सिद्धं पयो मागधिकायष्टीमधुककल्कवत्॥
श्लोक 19
पञ्चमूलं बृहत्यादि प्रतिद्रव्यं पलोन्मितम्।
द्विपलं शालिगोधूमयवमाषं सयष्टिकम्॥
श्लोक 20
तैः सिद्धं छागलं क्षीरं कुक्कुटाण्डरसः सिता।
साज्यक्षौद्रद्विलवणस्तैर्बस्तिः शुक्रकृत्परम्।
कल्पोऽयं शिखिगोनर्दमत्स्याद्यण्डरसेष्वपि॥
श्लोक 21
रसः कुलीरमांसस्य चटकाण्डरसान्वितः।
सशर्कराघृतमधुर्बस्तिर्वृष्यतमो मतः॥
श्लोक 22
बस्तसूकरजैर्मुष्कैः कुलीरचटकामिषैः।
सिद्धं पयो बस्तशुक्रमुच्चटेक्षुरकं मधु॥
श्लोक 23
तैर्घृताढ्योऽल्पलवणो बस्तिर्वृष्यतमः परम्।
सिद्धेन पयसा भोज्यमात्मगुप्तोच्चटेक्षुरैः॥
श्लोक 24
अतो दशदशाहेन यस्तु बस्तीन् निषेवते।
वाजीव पुष्टः सवृषो गच्छति प्रमदाशतम्।
एते माक्षिकसंयुक्ताः कुर्वन्त्यतिवृषं नरम्॥
श्लोक 25
नातियोगं न चायोगं स्ताम्भिनस्ते च कुर्वते॥
श्लोक 26
निरूहा लेखनाः प्रायो बृंहणाः स्नेहबस्तयः।
यापनेषूभयं तस्मान्नेष्टं तेष्वनुवासनम्॥
श्लोक 27
मृदुत्वान्न निवर्तन्ते यस्य त्वेते प्रयोजिताः।
समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यः क्षिप्रमेव सः॥
श्लोक 28
शोफाग्निनाशपाण्डुत्वशूलार्शःपरिकर्तिकाः।
स्युर्ज्वराश्चातिसाराश्च यापनात्यर्थसेवनात्॥
श्लोक 29
अरिष्टक्षारशीध्वाद्यैस्तत्रेष्टा दीपनी क्रिया।
युक्त्या तस्मान्निषेवेत यापनान् न प्रसङ्गतः॥
श्लोक 30
मृद्वल्पौषधसंयोगात् पादहीनप्रमाणतः।
अल्पकालोपयोगाच्च तेषु निष्परिहारता॥
श्लोक 31
द्रव्येषु यापनीयेषु सिद्धान् स्नेहान् पृथक् पृथक्।
बस्तीन् सर्वेषु वा युञ्ज्यात् परिहारविवर्जितान्॥
श्लोक 32
सहाचराभीरुबलारास्नागोक्षुरकात् पृथक्।
तुलां जलद्रोणशते पचेत् द्रोणावशेषिते॥
श्लोक 33
पूतशीते बिसद्राक्षातवक्षीरीनिदिग्धिकाः।
महासहाक्षुद्रसहायष्टीमधुमधूलिकाः॥
श्लोक 34
जीवकर्षभकोदीच्यमृणालोत्पलचन्दनम्।
खर्जूरतालमज्जात्मगुप्तामलकीकणाः॥
श्लोक 35
पटोलमेदात्वक्पत्रशीतपाक्योदनाह्वयाः।
कल्कीकृत्य क्षिपेत्तस्मिन् पृथक् च प्रस्थसम्मितम्॥
श्लोक 36
रसं वराहमहिषबस्तमुष्कोद्भवं तथा।
शिखिकुक्कुटहंसाण्डसम्भवं तैलसर्पिषी॥
श्लोक 37
धात्रीविदारीस्वरसं गव्यक्षीराढकद्वयम्।
ब्रह्मभेरीमृदङ्गादिनिनादैः साधितं च तत्॥
श्लोक 38
सितच्छत्रत्रकृतच्छायं सितवस्त्रावगुण्ठितम्।
आरोपितं गजस्कन्धे पूजयित्वा वृषध्वजम्॥
श्लोक 39
कृत्वा स्वस्त्ययनं दद्यात् स्नेहबस्तिमयन्त्रणम्।
प्राप्तस्तेनातिवृषतां श्रमयेद्वनिताशतम्॥
श्लोक 40
निर्वलीपलितः कान्तश्चिरजीवी भवेत् स च।
नष्टशुक्रक्षतक्षीणविषमज्वरिणां हितः।
व्यापन्नार्तवशुक्राणां पुत्रदाता रसायनम्॥
श्लोक 41
एवं च बस्तयोऽन्येऽपि कल्प्याः पाक्याश्च नैकशः।
शतं वारान् सहस्रं वा पाचयेत् सम्भवे सति॥
श्लोक 42
दोषघ्नाः सपरीहारा वक्ष्यन्ते स्नेहबस्तयः॥
श्लोक 43
दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्।
गुडूच्यैरण्डपूतीकभार्ङ्गीवृषकरोहिषम्॥
श्लोक 44
शतावरीं सहचरं काकनासां पलांशकम्।
यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्॥
श्लोक 45
वहे विपाच्य तोयस्य द्रोणशेषेण तेन च।
पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः॥
श्लोक 46
अनुवासनमित्येतत् सर्ववातविकारनुत्।
अनूपानां वसा तद्वज्जीवनीयोपसाधिता॥
श्लोक 47
शताह्वायवबिल्वाम्लैस्तैलं सिद्धं समीरणे।
सैन्धवेनाग्निव्रणेन तप्तं चानिलजिद्धृतम्॥
श्लोक 48
जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्।
शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्॥
श्लोक 49
स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शठीं वचाम्।
पिष्ट्वा तैलं घृतं क्षीरे साधयेत चतुर्गुणे॥
श्लोक 50
बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम्।
रजःशुक्रामयहरं पुत्रीयं चानुव सनम्॥
श्लोक 51
शिशिरस्पर्शवीर्यैश्च पिष्टैः क्षीरे चतुर्गुणे।
तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम्॥
श्लोक 52
सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा।
द्रीबेरं मधुकं भार्ङ्गी देवदारुसकट्फलम्॥
श्लोक 53
नागरं पुष्करं मेदा चविका चित्रकः शठी।
विडङ्गातिविषे श्यामा हरेणुर्नीलिनी स्थिरा॥
श्लोक 54
बिल्वाजमोदचपला दन्ती रास्ना च तैः स्मैः।
साध्यमेरण्डतैलं वा तैलं वा कफरोगनुत्॥
श्लोक 55
वर्ध्मोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान्।
आनाहमश्मरीं चाशु हन्यात्तदनुवासनम्॥
श्लोक 56
साधितं पञ्चमूलेन तैलं बिल्वादिनाथवा।
अन्वासनं श्लेष्महरं द्रव्यैर्वा कफघातिभिः।
फलैरष्टगुणे चाम्ले सिद्धमन्वासनं कफे॥
श्लोक 57
शूलानाहे तु तद्युक्तो निरूहः पटुमूत्रवान्।
पृच्छति स्म मुनिमित्यथ धीमानग्निवेश इह किन्तु फलानाम्।
बस्तिकर्मणि हितं सततं स्यात् तं पुनर्वसुरिति प्रशशास॥
श्लोक 58
इह कुष्ठहिता गरागरी हितमिक्ष्वाकुफलं प्रमेहिणाम्।
कुटजस्य फलं हृदामये प्रवरं कोशफलं तु पाण्डुषु॥
श्लोक 59
उदरे कृतवेधनं हितं मदनं सर्वगदाविरोधि च।
मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णपिच्छिलम्॥
श्लोक 60
कफपित्तहृदाशुकारि यन्निरपायं पवनानुलोमि च।
प्रवरं तदतः फलादिषु स्मृतमास्थापनयोजनास्विति॥
श्लोक 61
अथ मुनिवृषभे निगद्य वाक्यं स्थितवति विज्ञपयाम्बभूव भूयः।
इदमतिगहनं सहान्यशिष्यैरवनिगतोऽञ्जलिमग्रतो निधाय॥
श्लोक 62
चित्रकर्मगुणकृद्गुरुणोक्तो बस्तिरूर्ध्वमथ चैति न नाभेः।
शीघ्नमापतति चानु स देहात् सर्वतः कथमपोहति दोषान्॥
श्लोक 63
ऊचे गुरुस्तिमितमारुतवश्यमेतत् देहस्य यद्बहिरुपाश्रितमन्तरे वा।
दुष्टस्य तस्य जनयन्ननुलोमतां तु बस्तिर्हिनस्ति विषमानपि रोगपूगान्॥
श्लोक 64
शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च।
ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति॥
श्लोक 65
विट्श्लेष्मपित्तादिमलाचयानां विक्षेपसंहारकरो हि वायुः।
तस्यातिवृद्धस्य शमाय नान्यद्बस्तेः समं भेषजमस्ति यस्मात्॥
श्लोक 66
शाम्यन्ति यत्नेन जितेऽनिले च तदीरिताः पित्तकफादयोऽपि।
तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके॥
श्लोक 67
यच्च पक्वाशस्थोऽपि दोषानापादमस्तकम्।
वीर्येण बस्तिरादत्ते खस्थोऽर्को भूरसानिव॥
श्लोक 68
यत्तत्रौषधवीर्यं हि तदपानेन वायुना।
पर्याप्तमचिरादेव समानः प्रतिपद्यते॥
श्लोक 69
समानाद्दुत्तरंचैवं व्यानाद्याः पवनाः क्रमात्।
ते तृप्ताः प्रकृतिं याताः शरीरानुग्रहे स्थिताः॥
श्लोक 70
प्रसह्य पित्तश्लेष्माणौ यथास्थानं निवेश्य च।
सन्तर्पयन्ति परितः स्वान् स्वान् भूतगुणांस्तनौ॥
श्लोक 71
व्यानस्तिर्यगपानोऽधः प्राणश्चोर्ध्वं प्रकर्षति।
यथास्वमेव नाडीभिर्हारिणीभिरिवोदकम्॥
श्लोक 72
एवं वातैः सिराभिश्च वपुर्बस्तिः सुयोजितः।
व्याप्नुवत् प्रसभं हन्ति सकृछ्रानपि यक्ष्मणः॥
श्लोक 73
बस्तिस्तस्मात् सर्वकर्मप्रधानं सर्वातङ्कान् हन्ति निःशेषतश्च।
स्रोतांस्यन्तः शोधयित्वा च कुर्यादोजस्तेजः शुक्रमेधाग्निकीप्तिम्॥
॥इति पञ्चमोऽध्यायः॥