श्लोक 1
अथातो विरेचनकल्पं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
विरेचनद्रव्याणां मूलेषु त्रिवृत्।
त्वक्षु तिल्वकः।
क्षीरेषु स्नुही।
फलेषु हरीतकी प्रधानानि।
त्रिवृतायाः खलु द्विविधं मूलमरुणं श्यावं च।
तत्रारुणं कषायमधुरं विपाके कटुकं रूक्षं श्लेष्मपित्तहरं कल्पनांविशेषात् पुनः सर्वव्याधिप्रशमनम्।
सुखविरेचनत्वात् शिशुस्थविरसुकुमारमृदुकोष्ठेषु प्रशस्तं त्रिवृच्छब्दवाच्यं च॥
श्लोक 3
इतरदपि तस्मात् गुणैः किञ्चिदूनं तीक्ष्णं कण्ठहृदयकर्षणं मूर्छासम्मोहकृदाशु दोषहरत्वात् बहुदोषक्लेशक्षमक्रूरकोष्ठेषु प्रशस्तं श्यामाशब्दवाच्यं च॥
श्लोक 4
अथ तयोर्मूलमतिर्यग्विसृतं गम्भीरानुगतं श्लक्ष्णमाहरेत्।
ततस्त्वचं शोषयित्वा सम्यक् सुगुप्तं स्थापयेत्॥
श्लोक 5
तच्चूर्णं शुण्ठीसैन्धवयुक्तमम्लैर्मांसरसेन वा पिबेद्वातामयेषु।
क्षीरक्षौद्रद्राक्षेक्षुकाश्मर्यस्वरससर्पिःस्वादुद्रव्यक्वाथैः सशर्करं पित्तोत्थेषु।
मूत्रक्सौद्रद्राक्षारिष्टपीलुरसत्रिफलापञ्चकोलक्वाथैर्व्योषचूर्णानुविद्धं कफजेषु॥
श्लोक 6
एभिरेव च द्रव्यैर्यथास्वं घृतशर्कराद्राक्षेक्षुरसतुगाक्षीरीमधुराणि मातुलुङ्गदाडिमामलककोलकरमर्दकपित्थरसतक्राम्लानि सैन्धवलवणानि व्योषतीक्ष्णानि विविधवेशवारपरिपूरितानि सहकाररसत्रिजातनागकेसरकर्पूरसुरभीणि लेहगुटिकामोदकभक्ष्यभोज्यान्युपकल्पयेदिति।
भवति चात्र॥
श्लोक 7
त्रिवृत्कल्ककषायेण साधितः ससितो हिमः।
मधुत्रिजातसंयुक्तो लेहो हृद्यं विरेचनम्॥
श्लोक 8
अजगन्धा तुगाक्सीरी विदारी शर्करा त्रिवृत्।
चूर्णितं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते।
सन्निपातज्वरस्तम्भपिपासादाहपीडितः॥
श्लोक 9
लिम्पेदन्तस्त्रिवृतया द्विधाकृत्वेक्षुगण्डिकाम्।
एकीकृत्य च तत्स्विन्नं पुटपाकेन भक्षयेत्॥
श्लोक 10
त्वगेलाभ्यां समा नीली तैस्त्रिवृत्तश्च शर्करा।
चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत्॥
श्लोक 11
वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च।
नरेषु सुकुमारेषु निरपायं विरेचनम्॥
श्लोक 12
विडङ्गतण्डुलवरायावशूककणास्त्रिवृत्।
सर्वतोऽर्धेन तल्लीढं मध्वाज्येन गुडेन वा॥
श्लोक 13
गुल्मं प्लीहोदरं कासं हलीमकमरोचकम्।
कफवातकृतांश्चान्यान् परिमार्ष्टिगदान् बहून्॥
श्लोक 14
विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्।
मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः॥
श्लोक 15
दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक्।
तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ॥
श्लोक 16
धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान्।
पक्त्वा मृद्वग्निना खादेत्ततो मात्रामयन्त्रणः॥
श्लोक 17
कुष्ठार्शःकामलागुल्ममेहोदरभगन्दरान्।
ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः॥
श्लोक 18
गुडः कल्याणको नाम सर्वर्तुषु च यौगिकः।
व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत्॥
श्लोक 19
सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः।
मूत्रकृच्छ्रज्वरच्छर्दिकासशोषभ्रमक्षये।
तापे पाण्ड्वामयेऽल्पेग्नौ शस्ताः सर्वविषेषु च॥
श्लोक 20
त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम्।
क्षौद्रद्राक्षारसोपेतं वर्षाकाले विरेचनम्॥
श्लोक 21
त्रिवृद्दुरालभामुस्ताशर्करोदीच्यचन्दनम्।
द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये॥
श्लोक 22
त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम्।
स्वर्णक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत्॥
श्लोक 23
त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम्॥
श्लोक 24
त्रिवृत्त्रायन्तिहपुषासातलाकटुरोहिणीः।
स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत्त्र्यहम्।
एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत्॥
श्लोक 25
श्यामात्रिवृद्दुरालम्भाहास्तिपिप्पलिवत्सकम्।
नीलिनीकटुकामुस्ताश्रेष्ठायुक्तं सुचूर्णितम्।
रसाज्योष्णाम्बुभिः शस्तं रूक्षाणामपि सर्वदा॥
श्लोक 26
त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम्।
सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसात्॥
श्लोक 27
तच्चूर्णं शर्करातुल्यं मण्डेनाम्लेन वा पिबेत्।
गुल्मपार्श्वार्तिनुत् सिद्धं जीर्णे चास्मिन्रसौदनम्॥
श्लोक 28
त्रिवृतात्रिफलादन्तीसातलाव्योषसैन्धवैः।
प्रकल्प्य चूर्णं सप्ताहं भाव्यमामलकाद्रसे।
तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु॥
श्लोक 29
तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम्।
श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पयोऽपि वा॥
श्लोक 30
त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेऽम्भसः पचेत्।
पादशेषं कषायं तं पूतं गुडतुलायुतम्॥
श्लोक 31
स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः।
लिप्ते मासे गते पीतं पाण्डुश्वयथुगुल्मजित्॥
श्लोक 32
सुरा वा त्रिवृतापादाकण्वा तत्क्वाथसंयुता।
यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा।
आसुतं षडहं पल्ले जातं सौवीरकं पिबेत्॥
श्लोक 33
भृष्टान्वा सतुषान्शुष्कान्यवांस्तच्चूर्णसंयुतान्।
आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम्॥
श्लोक 34
ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु।
राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः॥
श्लोक 35
बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे।
योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः॥
श्लोक 36
फलकाले परिणतं फलं तस्य समाहरेत्।
तेषां गुणवतां भारं सिकतासु विनिक्षिपेत्॥
श्लोक 37
सप्तरात्रात्समुद्धृत्य शोषयेदातपे ततः।
ततोमज्जानमुद्धृत्य शुचौ पात्रे निधापयेत्॥
श्लोक 38
द्राक्षारसेन तं दद्याद्दाहोदावर्तपीडिते।
चतुर्वर्षे सुखं बाले यावद्द्वादशवार्षिके॥
श्लोक 39
चतुरङ्गुलमज्ञो वा कषायं पाययेद्धिमम्।
दधिमण्डसुरामण्डधात्रीफलरसैः पृथक्।
सौवीरकेण वा युक्तं कल्केन त्रैवृतेन वा॥
श्लोक 40
चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियात् घृतम्।
मज्जकल्केन धात्रीणां रसे तत्साधितं पिबेत्॥
श्लोक 41
तदेव दशमूलस्य कुलत्थानां यवस्य च।
कषाये साधितं सापःकल्कैःश्यामादिभिः पिबेत्॥
श्लोक 42
दन्तीकषाये तन्मज्ज्ञो गुडं जीर्णं च निक्षिपेत्।
तमरिष्टं स्थितं मासं पाययेत् पक्षमेव वा॥
श्लोक 43
त्वचं तिल्वकमूलस्य त्यक्ताभ्यन्तरवल्कलम्।
विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत्ततः॥
श्लोक 44
लोध्रस्यैव कषायेण तृतीयं तेन भावयेत्।
कषाये दशमूलस्य तं भागं भावितं पुनः॥
श्लोक 45
शुष्कचूर्णं पुनः कृत्वा ततः पाणितलं पिबेत्।
मस्तुमूत्रसुरामण्डकोलधात्रीफलाम्बुभिः॥
श्लोक 46
मेषशृङ्ग्यभयाकृष्णाचित्रकैः क्वथिते जले।
मरुजाः सुनुयात्तच्चजातं सौवीरकं यदा।
भवेदञ्जलिनातस्य लोध्रकल्कं पिबेत्तदा॥
श्लोक 47
सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत्।
तिल्वकस्य कषायेण कल्केन च सशर्करः।
सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम्॥
श्लोक 48
सुधा भिनत्ति दोषाणां महान्तमपि सञ्चयम्।
आश्वेव कष्टविभ्रंशा नैव तां कल्पयेदतः॥
श्लोक 49
मृदुकोष्ठेऽबले बाले स्थविरे दीर्घरोगिणि।
कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु।
पाण्डौ दूषीविषे शोफे दोषविभ्रान्तचेतसि॥
श्लोक 50
सा श्रेष्ठा कण्टकैस्तीक्ष्णैर्बहुभिश्च समाचिता।
द्विवर्षां वा त्रिवर्षां वा शिशिरान्ते विशेषतः॥
श्लोक 51
तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः।
बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः॥
श्लोक 52
मिश्रयित्वा सुधाक्षीरं ततोऽङ्गारेषु शोषयेत्।
पिबेत् कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः॥
श्लोक 53
त्रिवृतादीन्नव वरां स्वर्णक्षीरीं ससातलाम्।
सप्ताहं स्नुक्पयःपीतान्रसेनाज्येन वा पिबेत्।
तद्वद्व्योषोत्तमाकुम्भनिकुम्भाग्नीन् गुडाम्बुना॥
श्लोक 54
अद्यात्च्छ्यामात्रिवृत्क्वाथं स्नुक्क्षीरघृतफाणितैः।
कासारिरसयूषाद्यैर्युक्तं वा स्नुक्पयः पिबेत्॥
श्लोक 55
निकुम्भकुम्भशम्याकशङ्खिनीसप्तलारजः।
रात्रौ मूत्रे दिवा घर्मे सप्ताहं स्थापयेदिति॥
श्लोक 56
स्नुक्क्षीरेऽपि ततस्तेन माल्यं वासोऽवचूर्णितम्।
आजिघ्नन् प्रावृणानश्च मृदुकोष्ठो विरिच्यते॥
श्लोक 57
नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्।
सप्तलायास्तथा मूलं ते तु तीक्ष्णविकाषिणी।
श्लेष्मामयोदरगरश्वयथ्वादिषु कल्पयेत्॥
श्लोक 58
अक्षमात्रं तयोः पिण्डं मदिरालवणान्वितम्।
हृद्रोगे वातकफजे तद्वद्गुल्मेऽपि योजयेत्॥
श्लोक 59
शङ्खिनीचूर्णभागौ द्वौ तिलकल्कस्य चापरः।
हरीतकीकषायेण ततैलं पीडितं पिबेत्।
अतसीसर्षपैरण्डकरञ्जेष्वप्ययं विधिः॥
श्लोक 60
दन्तिदन्तस्थिरस्थूलं मूलं दन्तीद्रवन्तिजम्।
आताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाषि च॥
श्लोक 61
गुरुप्रकोपिवातस्य पीतश्लेष्मविलायनम्।
तत्क्षौद्रपिप्पलीलिप्तं स्वेदयेन्मृत्कुशान्तरे।
शोषयेच्चातपेऽग्न्यर्कौ हतो ह्यस्य विकाषिताम्॥
श्लोक 62
तत् पिबेन्मस्तुमदिरातक्रपीलुरसासवैः।
अभिष्यण्णतनुर्गुल्मी प्रमेही जठरी गरी।
गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी॥
श्लोक 63
सिद्धं तत् क्वाथकल्काभ्यां दशमूलरसेन च।
विसर्पाविद्रध्यलजीकक्ष्यादाहान् जयेत् घृतम्॥
श्लोक 64
तैलं तु गुल्ममेहार्शोविबन्धकफमारुतान्।
महास्नेहः शकृच्छुक्रवातसङ्गानिलव्यथाः॥
श्लोक 65
दन्त्या रसेऽजशृङ्ग्याश्च गुडक्षौद्रघृतान्वितः।
लेहः सिद्धो विरेकार्थे दाहसन्तापमेहनुत्।
वाततर्षे ज्वरे पैत्ते स्यात्स एवाजगन्धया॥
श्लोक 66
दन्तीद्रवन्त्योर्मूलानि पचेद्धात्रीरसे ततः।
त्रीनंशान् फाणितात् द्वौ च भृष्टस्तैले घृतेऽथवा॥
श्लोक 67
श्यामादिकल्कयुक्तोऽयं लेहः सिद्धं विरेचनम्।
पथ्याक्षदशमूलानां तद्वल्लेहाः पृथग्रसैः॥
श्लोक 68
तयोर्बिडसमं चूर्णं तद्रसेनैव भावितम्।
विबद्धविशि वातोत्थे गुल्मे चाम्लयुतं हितम्।
मुद्र्गादिसिद्धैस्तन्मूलैर्यूषादींश्च प्रकल्पयेत्॥
श्लोक 69
दन्तीद्रवन्तीमरिचस्वर्णक्षीरीयवासकम्।
सशुण्ठ्यग्निकपृथ्वीकं चूर्णितं सप्त वासरान्॥
श्लोक 70
मूत्रभावितमाज्येन विबेज्जीर्णे च तर्पणम्।
सर्वदा सर्वरोगेषु बाले वृद्धे च तद्धितम्॥
श्लोक 71
दुर्भुक्ताजीर्णपांश्वार्तिर्गुल्मप्लीहोदरेषु च।
गण्डमालासु वाते च पाण्डुरोगे च शस्यते॥
श्लोक 72
गुडस्याष्टपले पथ्या विंशतिः स्यात् पलं पलम्।
दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश॥
श्लोक 73
प्रकल्प्य मोदकानेकं दशमे दशमेऽहनि।
उष्णाम्भोऽनुपिबन् खादेत्तान् सर्वान् विधिनामुना॥
श्लोक 74
एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः।
विशेषाद्ग्रहणीपाण्डुकण्डूकोठार्शसां हिताः।
विरेचने मुख्यतमा नवैते त्रिवृतादयः॥
श्लोक 75
हरीतकीमपि त्रिवृद्धिधानेनोपकल्पयेत्।
विशेषात् ग्रहणीशोफपाण्डुमेहोदरापहाम्॥
श्लोक 76
पिबेत् पथ्यां ससिन्धूत्थविडङ्गोषणनागराम्।
मूत्रेण वत्सकादेर्वा निर्यूहेण हरीतकीम्॥
श्लोक 77
पथ्यानागरचूर्णं वा संयुतं नीलिनीफलैः।
गुडेन भक्षयेत्तोयं कवोष्णं च पिबेदनु॥
श्लोक 78
पथ्यात्रिवृद्भ्यां गुटिकाः कार्या द्राक्षारसाप्लुताः।
माषप्रमाणास्ताः शुष्का लिह्याद्यक्ष्मी घृतद्रुताः।
पथ्यात्रिवृत्पटूष्णाम्बु सर्वत्रेष्टं विरेचनम्॥
श्लोक 79
स्नुक्क्षीरभाविते पथ्याचूर्णे कुर्वीत मोदकान्।
कोलास्थिमात्रान् शुष्कांश्च नवनीतेन लेहयेत्।
गुल्मोदरयकृत्प्लीहशूलानाहविबन्धिनः॥
श्लोक 80
लिह्यादेरण्डतैलेन कुष्ठं त्रिकटुकान्वितम्।
सुखोदकं चानुपिबेत्सुखमेतद्विरेचनम्॥
श्लोक 81
अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्।
कुर्यात् संश्लेषविश्लेषकालसंस्कारयुक्तिभिः॥
श्लोक 82
त्वक्केसराम्रातकदाडिमैलासितोपलामाक्षिकमातुगुङ्गैः।
मद्येन तस्तैश्च मनोऽनुकूलैर्युक्तानि देयानि विरेचनानि॥
॥इति द्वितीयोऽध्यायः॥