श्लोक 1
अथातो वमनकल्पं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
वमनद्रव्याणां मदनजीमूतकेक्ष्वाकुद्विकोशातकीकुटजफलानि श्रेष्ठानि तेष्वपि मदनफलम्॥
श्लोक 3
दोषदूष्यादिवशाच्चैषामेतत्कल्पनानां च प्राधान्यम्॥
श्लोक 4
दोषादीनामेव चातिबह्ववस्थाभेदाद्वमनादिषु कल्पनानां व्यापदां साधनानां च यदसङ्ख्येयत्वमतो बुद्धिमतां विकल्पमार्गप्रदर्शनार्थमुदाहरणमात्रं कल्पसिद्धिस्थानमुपदेक्ष्यते॥
श्लोक 5
अथ वसन्तग्रीष्मयोरन्तरे प्रशस्तेऽहनि मुहूर्ते च नातिहरितपाण्डूनि मदनफलान्यादाय तानि प्रमृज्य कुशमूटके बध्वा गोमयेनालिप्य यवबुसमाषशालिव्रीहिकुलत्थमुद्गान्यतमराशावष्टरात्रमुषितान्युद्धृत्यातपे शोषयेत्।
सुशुष्काणां पिप्पलीरुद् वृत्य दधिघृतमधुपललमृदिताः पुनः शोषयित्वा नवं कलशमरजस्कमाकण्ठं पूरयित्वा सुगुप्तं निधापयेत्॥
श्लोक 6
ततः प्रयोगकाले तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत तावज्जर्जरीकृत्य यष्टीमधुककषाये कोविदारकच्छुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पीप्रत्यक्पुष्प्यन्यतमकषाये वा रात्रिमुषितं विमृदितं पूतं सूत्रोक्तविधिना पाययेत्।
श्लेष्मज्वरगुल्मप्रतिश्यायान्तर्विद्रधिषु विशेषेण पुनः पुनरापित्तागमनात्।
तेन साधु वमति॥
श्लोक 7
फलपिप्पलीनां चूर्णं वा स्वक्वाथभावितं त्रिभागत्रिफलाचूर्णं कोविदारादिनिर्यूहेण बलवत्कफप्रसेकापच्यर्बुदग्रन्थिज्वरोदरारोचकेषु पिबेत्॥
श्लोक 8
फलमज्जचूर्णं वा जीमूतादिनिर्यूहेण पित्ते कफस्थानगते॥
श्लोक 9
फलमज्जसिद्धं वा पयस्तस्मिन्नेव वा यवागूमधोभागे रक्तपित्ते हृद्दाहे च॥
श्लोक 10
तस्य वा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरसि कण्ठे हृदये च तनुकफोपदिग्धे॥
श्लोक 11
तज्जं वा दधि दध्युत्तरं वा कफच्छर्दिप्रसेकतमकेषु।
तस्माद्वा पयसो नवनीतमुत्पन्नं फलादिषट्कक्वाथसिद्धं कफाभिभूतेऽग्नौ शुष्यच्छरीरे च॥
श्लोक 12
फलमज्जचूर्णमिश्रेण वारग्वधादि द्रव्याणां घोण्टनिम्बबाणवर्जानां ससोमवल्कपञ्चकोलकानामन्यतमस्य निर्यूहेण साधितं लेहमुपयुञ्जीत॥
श्लोक 13
फलमज्जचूर्णमिश्रेण वा रेणुकैलाशताह्वाकुस्तुम्बुरुतगरकृष्ठत्वक्चोरकमरुबकागरुगुग्गुलुवालकश्रीवेष्टकपरिपेलवमांसीशैलेयस्थौणेयकसुरसारेवतपूत्यशोकरोहिणीनां द्वाविंशतेरन्यतमस्य कषायेण साधितामुत्कारिकां मोदकं वा भक्षयेत्॥
श्लोक 14
फलपिप्पलीस्वरसकषायपरिपीतैर्वा तिलशालितण्डुलपिष्टैस्तत्कषायोपसृष्टैः सुरसादिद्रव्यान्यतमनिर्यूहोपसृष्टैर्वा शष्कुलीरपूपानन्यान् वा भक्ष्यान् साधयित्वा भक्षयेत्॥
श्लोक 15
फलपिप्पलीनां वा भल्लातकविधिस्रुतं स्वरसमादर्वीप्रलेपात् पक्त्वा लेहयेत्।
अन्नपानेषु वा तं लेहमवचारयेत्।
तत्कषायैरेव चान्नपानानि कल्पयेत्॥
श्लोक 16
फलमज्जक्वाथं वा वत्सकादिप्रतिवापं निम्बरूपिकान्यतरकषायोपसर्जनं सन्तर्पणोत्थसर्वश्लेष्मव्याधिहरम्॥
श्लोक 17
फलपिप्पलीनां वा फलादिनिर्यूहेणैकविंशतिकृत्वः सुभावितानां कुसुमरजःसदृशेन चूर्णेनावचूर्णयेत् सरसि सरोरुहं बृहत्सायाह्ने तद्रात्रिमुषितं प्रभाते पुनरवचूर्णितमुद् वृत्य हरिद्राकृसराक्षरियवागूनामन्य तमं सैन्धवगुडफाणितोपेतमाकण्ठं पीतवानुपजिघ्रेत्।
सुकुमारः समुचितसुरभिर्गन्धसम्पदुत्क्लिष्टकफपित्तो भेषजद्वेषी च तथा हि सुखेन छर्दयति॥
श्लोक 18
एतेन सर्वमाल्यगन्धप्रावरणपटा व्याख्याताः।
एवमेव च फलाभावे मदनपुष्पाणि शलटूनि च कल्पयेत्।
इति फलविधानमुक्तम्॥
श्लोक 19
एवं च जीमूतादीनपि कल्पयेत्।
विशेषतस्तु ज्वरश्वासहिध्मादिषु जीमूतकम्॥
श्लोक 20
तत्र पुष्पेषु क्षीरम्।
फलेषु क्षीरपेयाम्।
लोमशेषु सन्तानिकाम्।
निर्लोमकेषु दधि दध्युत्तरं वा।
हरितपाण्डुषु क्षीरं दध्यम्लं वा।
तत्कषायसंसृष्टां पर्यागतानां जीर्णानां जीमूतकफलानां शुष्काणां चूर्णं पयसा वातपित्ते पिबेत्॥
श्लोक 21
द्वित्राणि वापोथ्यारग्वधादीनां नवानामन्यतमस्य पटोल्या वा निर्यूहेणासुतानि मथित्वा पित्तश्लेष्मजे ज्वरे।
जीमूतचूर्णं कल्कं वा शीताम्बुना पित्तजे।
तदेवोष्णेन वातकफजे कफजे वा॥
श्लोक 22
जीवकर्षभकेक्षुशतावरीणामन्यतमस्य स्वरसेन वातपित्तजे।
अथवा पूर्ववत् सिद्धं घृतम्॥
श्लोक 23
इक्ष्वाकुस्तु विशेषेण कासश्वासज्वरच्छर्दिविषश्लेष्मरोगेषूपयोज्यः।
तस्यापुष्पफलस्य प्रवालैः शृतं क्षीरमुद्रिक्तपित्ते कफज्वरे॥
श्लोक 24
पुष्पादिषु च सुतरां जीमूतवत् प्रयोगाः।
इक्ष्वाकुफलस्वरसं वा त्रिगुणक्षीरसाधितमुरस्थिते कफे पीनसे स्वरसादे वा वमनार्थी पिबेत्।
जीर्णे वा समुद्वृतबीजे क्षीरं प्रक्षिपेत्।
तत्र जातं दधि श्लेष्मकासश्वासच्छर्दिषु॥
श्लोक 25
इक्ष्वाकुबीजानि वा छागक्षीरभावितानि विषगुल्मोदरगरगण्डग्रन्थ्यर्बुदश्लीपदेषु इक्ष्वाकुफलमध्यं वा मस्तुना कुष्ठविषपाण्ड्वामयेषु।
तद्विपक्वं वा तक्रं समधुसैन्धवम्।
तदेव वा मध्यं सगुडपललं भक्षयेत्॥
श्लोक 26
इक्ष्वाकुफलतैलं वा पिबेत्।
तत्फलस्वरसभावितैर्वा सक्तुभिर्मन्थं श्लेष्मज्वरकासकण्ठरोगारोचकेषु।
इक्ष्वाकुकल्कं वा मांसरसेन वातकफगुल्मप्रसक्तज्वरेषु॥
श्लोक 27
बिल्वमूलद्विप्रस्थक्वाथेन वा तुम्बीबीजानि क्वाथयेत् ततस्तस्मिन् त्रिभागेन घृतम्।
घृतसमानि च पिष्ट्वा तुम्बीबीजानि।
तदर्धांशानि च प्रत्येकं जीमूतमहाजालिनीवत्सककृतवेधनानि।
क्वाथतुल्यमावपेत् त्रिकटुकम्।
पुनरधिश्रित्य लेहं साधयेत्तमवलिह्य प्रमथ्यामनुपिबेत्॥
श्लोक 28
अयमेव च कल्पः काश्मर्यादिषु चतुर्षु महापञ्चमूलाङ्गेषु पृथक् पृथगुक्तो वेदितव्यः॥
श्लोक 29
धामार्गवो विशेषेण गरगुल्मोदरकासकफसञ्चयोत्थरोगेषु स्थिरेषु गुरुषु च श्लेष्माशयस्थे वातश्लेष्मणि च कण्ठाश्रये प्रकल्प्यः।
जीवनीयान्यतमचूर्णसंयुक्तान् समधुशर्करांस्तत्कषायैर्लेहान् पित्तोपसर्जने श्लेष्मणि विदध्यात्॥
श्लोक 30
सुमनःसौमनस्यायनीहरिद्राचोरकहैमवतीमहासहाक्षुद्रसहावृश्चीवबिम्बीपुनर्नवकासमर्दान्यतमकषायेण वा धामार्गवफलमेकं द्वे वा मनोविकारेषु॥
श्लोक 31
कृतवेधनमत्यर्थकटुतीक्ष्णोष्णं सुतरां गरोदरगुल्मप्लीहपाण्डुरोगश्वयथुषु कल्पयेत्॥
श्लोक 32
कुटजफलं पुनः सुकुमारेषूल्बणास्रपित्तकफेषु वातशोणितविसर्पज्वरकुष्ठादिषु च योजयेत्।
कुटजफलचूर्णान्यर्कक्षीरेण सप्ताहं भावयित्वा जीवककषायेण पिबेत्।
फलजीमूतकेक्ष्वाकुजीवन्तीमूलान्यतमकषायेण वा सर्षपमधूकलवणान्यतमाम्भसा वा कुटजफलचूर्णं कृसरया वा वमनाय कल्पयेदिति।
भवति चात्र॥
श्लोक 33
वमनानां दिगित्येषा सुतरामुपयोगिनाम्।
बीजेनानेन मतिमानन्यानपि च कल्पयेदिति॥
॥इति प्रथमोऽध्यायः॥