अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 22

श्लोक 1

अथातः श्वित्रकृमिचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

कुष्ठादपि बीभत्सं यच्छीघ्रतरं च यात्यसाध्यत्वम्।
श्वित्रमतस्तश्छान्त्यै यतेत दीप्ते यथा भवने॥

श्लोक 3

मदयन्त्याः सवायस्याः सुरभ्यारग्वधस्य च।
शतं पलानां प्रत्येकं वरायास्त्वाढकत्रयम्॥

श्लोक 4

व्याघ्रीवह्निकपोतावत्सकखदिरार्कमूलदन्त्यैन्द्र्यः।
सनिशाद्वया दशपला क्वाथेऽमीषां क्षिपेत् पिष्ट्वा॥

श्लोक 5

बीजं करञ्जेङ्गुदशिग्रुनिम्बान्नीलीं सनीलोत्पलचन्द्रलेखाम्।
श्यामां किरातं कटुकत्रयं च पञ्चाढकं तत्र च पञ्चगव्यात्॥

श्लोक 6

शमयत्यचिरेण घृतं मृदुहुतवहसाधितं महानीलम्।
न किलासमेव केवलमपचीकृमिकासकुष्ठमभ्यस्तम्॥

श्लोक 7

उन्मादापस्मारावर्शोविद्रधिशिरोरोगान्।
गलगण्डगुल्मगण्डानर्बुदशोफप्रमेहगलरोगान्॥

श्लोक 8

सविसर्पशोषपवनव्याधीन्विषमज्वरान् हन्यात्॥

श्लोक 9

संशोधनं विशेषात् पीतस्नेहस्य योजयेदनु च।
श्वित्रे स्रंसनमग्र्यं मलयूरस इष्यते सगुडः॥

श्लोक 10

तं पीत्वाभ्यक्ततनुर्यथाबलं सूर्यपादसन्तापम्।
सेवेत विरिक्तश्च त्र्यहं पिपासुः पिबेत् पेयाम्॥

श्लोक 11

श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान् भिन्द्यात्।
स्फोटेषु निस्सृतेषु प्रातः प्रातः पिबेत् पक्षम्॥

श्लोक 12

मलयूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य।
पालाशं वा क्षारं यथाबलं फाणितोपेतम्॥

श्लोक 13

वितुषावल्गुजबजाच्चूर्णं गोवारिभाविताद्वहुशः।
मूलक्वाहेन पिबेत् कलितरुकृतमालमदनफल्गूनाम्॥

श्लोक 14

पीते किलासी तिलतैलदिग्धो दिने दिने स्याद्रविपादसेवी।
जीर्णे च तक्राप्लुतकोद्रवाशी स्फोटोद्भवायैष विधिस्त्रिरात्रम्॥

श्लोक 15

विध्वान्येद्युः स्फोटकान् कण्टकैस्तान् बस्ताम्भोभिर्घृष्टया शुक्तवर्त्या।
लिम्पेत् कामं लेपनाद्वेदनायां लेपो योज्यः शङ्खनाभिर्जलेन॥

श्लोक 16

व्योषसर्षपनिशागृहधूमैर्यावशूकपटुचित्रकयुक्तैः।
कोलतुल्यगुटिकार्धविषांशा श्वित्रकुष्ठशमनो वरलेपः॥

श्लोक 17

गव्यं मूत्रं चित्रकव्योषयुक्तं सर्पिःकुम्भे संस्थितं क्षौद्रमिश्रम्।
पक्षादूर्ध्वं श्वित्रणा पेयमेतत् कार्यं चास्मै कुष्ठदृष्टं विधानम्॥

श्लोक 18

मार्कवमथवा खादेद् भृष्टं तैलेन लोहपात्रस्थम्।
बीजकशृतं च दुग्धं तदनुपिबेच्श्वित्रनाशाय॥

श्लोक 19

पूतीकार्कव्याधिघातस्नुहीना मूत्रैः पिष्टाः पल्लवा जातिजाश्च।
घ्नन्त्यालेपाच्श्वित्रदुर्नामदद्रून् पामाकोठान् दुष्टनाडीव्रणांश्च॥

श्लोक 20

द्वैप्यं दग्धं चर्म मातङ्गजं वा श्वित्रे लेपस्तैलयुक्तो वरिष्ठः।
पूतीकीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेकोऽपि हन्ति॥

श्लोक 21

रात्रौ गोमूत्रे वासितान् जर्जराङ्गानह्निच्छायायां शोषयेत् स्फोटहेतून्।
एवं वारांस्त्रीन् भावयेच्श्लक्ष्णपिष्टैः स्नुह्याः क्षीरेण श्वित्रनाशाय लेपः॥

श्लोक 22

अक्षतैलद्रुतालेपः कृष्णसर्पोद्भवामषी।
शिखिपित्तं तथा दग्धं द्रीबेरं वा तदाप्लुतम्॥

श्लोक 23

उपोषितायान्नकालांस्त्रीन् श्वेतकृकवाकवे।
यष्ट्याह्वकुष्ठैडगजबीजचूर्णं घृतान्वितम्॥

श्लोक 24

दद्यात्तस्य पुरीषेण श्वित्रमुद्दाल्य लेपयेत्।
मासं हन्त्याशु तच्श्वित्रं विशेषाद्गुह्यसंश्रयम्॥

श्लोक 25

लेपः पटुवेल्लशिला कासीसं रोचना कनकपुष्पी।
गोपित्तयुक्तमथवा चपलाञ्जनयुग्मलोहरजः॥

श्लोक 26

काकोदुम्बरिका वा सावल्गुजचित्रका सगोमूत्रा।
कदलीक्षारयुतं वा खरास्थि दग्धं सगोरुधिरम्॥

श्लोक 27

नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा।
हस्तिमदाध्युषितो वा मालत्याः क्षारकक्षारः॥

श्लोक 28

सिद्धार्थकाबृहत्यौ करञ्जकोशातकीफलं गुञ्जा।
शुकनासा सगवाक्षी स्वर्णक्षीरीनिकुम्भश्च॥

श्लोक 29

लाङ्गलिकी हयमारस्तिल्वकभल्लातकाश्वमूत्री च।
मुस्ता स्नुही सहिंस्रा सुवर्णशकला फलोपेता॥

श्लोक 30

मूलकबीजं व्योषं पीलुविडङ्गानि कर्णिकारश्च।
पिचुमन्दजातीकिसलयबाकुचिकातुत्थकुष्ठानि॥

श्लोक 31

कटुरोहिणीमनोह्वात्रिफला च सुकल्किता गवां मृत्रे।
गजहयखरमूत्राणां पात्रत्रितयं स्नुगर्कदुग्धाभ्याम्॥

श्लोक 32

द्वौ कुडवाविह दद्यात् सर्षपतैलाच्च चातुर्थीम्।
दर्वीलेपं सिद्धा रसक्रिया मूत्रिका नाम॥

श्लोक 33

श्वित्रं घृष्टं लिप्तं त्रीनालेपांस्तया न लङ्घयति।
मशतिलकचर्मकीलग्रन्थ्यर्बुदसर्वकुष्ठघ्नी॥

श्लोक 34

कुडवोऽवल्गुजबीजाद्धरितालचतुर्थभागसम्मिश्रः।
मूत्रेण गवां पिष्टः सवर्णकरणः परं श्वित्रे॥

श्लोक 35

क्षारे सुदग्धे गजलिण्डजे वा गजस्य मूत्रेण परिस्रुते च।
द्रोणप्रमाणे दशभागयुक्तं दत्वा पचेद्बीजमवल्गुजानाम्॥

श्लोक 36

श्वित्रं जयेच्चिक्कणतां गतेन तेन प्रलिप्तं बहुशः प्रघृष्टम्।
कुष्ठं मशं वा तिलकालकं वा यद्वा व्रणे स्यादधिमांसजातम्॥

श्लोक 37

भल्लातकद्वीपिसुधार्कमूलगुञ्जाफलत्र्यूषणशङ्खचूर्णम्।
तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकां च पक्त्वा॥

श्लोक 38

स्नुगर्कदुग्धे तद्विदधीत लेपम्।
कुष्ठे किलासे तिलकालकेषु मशेषु दुर्नामसु चर्मकीले॥

श्लोक 39

शुध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्।
श्वित्रं कस्यचिदेव प्रशाम्यति क्षीणपापस्य॥

श्लोक 40

कृमिचिकित्सितम्।
स्निग्धस्विन्ने गुडक्षीरमत्स्याद्यैः कृमिणोदरे।
उत्क्लेशितक्रिमिकफे शर्बरीं तां सुखोषिते॥

श्लोक 41

सुरसादिगणं मूत्रे क्वाथयित्वार्धवारिणि।
तं कषायं कणागालाकृमिजित्कल्कयोजितम्।
सतैलस्वर्जिकाक्षारं युञ्ज्याद्बस्तिं ततोऽहनि॥

श्लोक 42

तस्मिन्नेव निरूढं तं पाययेत विरेचनम्।
त्रिवृत्कल्कं फलकणाकषायालोडितं ततः।
ऊर्ध्वाधःशोधिते कुर्यात् पञ्चकोलयुतं क्रमम्॥

श्लोक 43

कटुतिक्तकषायाणां कषायैः परिषेचनम्।
काले विडङ्गतैलेन ततस्तमनुवासयेत्॥

श्लोक 44

शिरोरोगनिषेधोक्तमाचरेन्मूर्धगेष्वनु।
उद्रिक्ततिक्तकटुकमल्पस्नेहं च भोजनम्॥

श्लोक 45

विडङ्गकृष्णामरिचपिप्पलीमूलशिग्रुभिः।
पिबेत् सस्वर्जिकाक्षारैर्यवागूं तक्रसाधिताम्॥

श्लोक 46

रसं शिरीषकिणिहीपारिभद्रककेम्बुकात्।
पलाशबीजपत्तूरपूतीकाद्वा पृथक् पिबेत्।
सक्षौद्रं सुरसादीन् वा लिह्यात् क्षौद्रयुतान् पृथक्॥

श्लोक 47

शतकृत्वोऽश्वविट्चूर्णं विडङ्गक्वाथभावितम्।
कृमिमान्मधुना लिह्यात् भावितं वा वरारसैः।
शिरोगतेषु क्रिमिषु चूर्णं प्रधमनं च तत्॥

श्लोक 48

आखुकर्णीकिसलयैः सुपिष्टैः पिष्टमिश्रितैः।
पक्त्वा पूपलिकां खादेत् धान्याम्लं च पिबेदनु॥

श्लोक 49

सपञ्चकोललवणमसान्द्रं तक्रमेव वा।
नीपमार्कवनिर्गुण्डीपल्लवेष्वप्ययं विधिः॥

श्लोक 50

विडङ्गचूर्णमिश्रैर्वा पिष्टैर्भक्ष्यान् प्रकल्पयेत्।
विडङ्गतण्डुलैर्युक्तमर्धांशैरातपे स्थितम्॥

श्लोक 51

दिनमारुष्करं तैलं पाने बस्तौ च योजयेत्।
सुराह्वसरलस्नेहं पृथगेवं च कल्पयेत्॥

श्लोक 52

तिल्वकोद्दालकपले त्रिवृच्छ्यामे तदर्धतः।
दन्तीद्रवन्त्यावर्धेन तदर्धे चव्यचित्रकौ॥

श्लोक 53

पिष्ट्वा विडङ्गयूषेण तेन भावितपीडितात्।
तैलप्रस्थं तिलात्साध्यं क्रिमिघ्नद्विगुणे रसे।
तच्छोधनं पिबेत् काले विदध्याच्चानुवासनम्॥

श्लोक 54

कोशातकीकरञ्जोमासर्षपस्नेहकल्पनम्।
कृत्वा तेनैव विधिना पाययेदुदरक्रिमिम्॥

श्लोक 55

पुरीषजेषु सुतरां दद्याद्बस्तिविरेचने।
शिरोविरेकं वमनं शमनं कफजन्मसु॥

श्लोक 56

रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सितम्।
इन्द्रलुप्तविधिश्चात्र विधेयो रोमभोजिषु॥

श्लोक 57

क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्णवन्ति।
समासतोऽम्लान्मधुरान्रसांश्च क्रिमीन् जिघांसुः परिवर्जयेच्च॥
॥इति द्वाविंशोऽध्यायः॥