अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 21 contd.

श्लोक 70

यतेर्लेलीतकवसा क्षौद्रजातीरसान्विता।
कुष्ठघ्नी समसर्पिर्वा सगायत्र्यसनोदका॥

श्लोक 71

मूत्रे विनीता त्रिफलारसे वा सिद्धा घृते वाम्भसि केवले वा।
रसायनं पथ्यभुजो हरिद्रा निहन्ति पाण्ड्वामयकुष्ठमेहान्॥

श्लोक 72

पिबेदमृतवल्या वा स्वरसं यन्त्रपीडितम्।
मेध्यं तत् कुष्ठमेहार्शश्छर्दिवातास्रनाशनम्॥

श्लोक 73

स्थिरकठिनमण्डलानां कुष्ठानां पोट्टलैर्हितः स्वेदः।
स्विन्नोत्सन्नं विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण॥

श्लोक 74

रुधिरागमार्थमथवाशृङ्गालाबूभिरपहरेद्रक्तम्।
प्रच्छेदल्पं कुष्ठं निरेचयेद्वा जलौकोभिः॥

श्लोक 75

ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्।
संशोधिताशयानां सद्यः सिद्धिर्भवति तेषाम्॥

श्लोक 76

येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनेषु कुष्ठेषु।
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य॥

श्लोक 77

लेपोऽतिकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च।
पीतागदस्य कार्यो विषैः समन्त्रागदैश्चानु॥

श्लोक 78

स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि।
कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम्॥

श्लोक 79

जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनेन।
घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि॥

श्लोक 80

आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे।
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गः करवीरकश्च॥

श्लोक 81

ग्रन्थिश्च भूर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे।
फणिज्जको वत्सकसप्तपर्णपीलूनि कुष्ठं सुमनःप्रवालाः॥

श्लोक 82

वचाहरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च।
मनःशिलाले गृहधूम एला कासीसलोध्रार्जुनमुस्तसर्जाः॥

श्लोक 83

इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः।
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णाः प्रदेहा बहुशाः प्रयोज्याः॥

श्लोक 84

कुष्ठानि कृच्छ्राणि नवं किलासं सुरेन्द्रलुप्तं किटिभं सदद्रुम्।
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तानचिरान्नराणाम्॥

श्लोक 85

निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारुशिग्रु।
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्॥

श्लोक 86

तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत।
तथास्य कण्डूःपिटकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति॥

श्लोक 87

मुस्तामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लककुष्ठलोध्राः।
गन्धोपलः सर्जरसं विडङ्गं मनःशिलाले करवीरकत्वक्॥

श्लोक 88

तैलक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्।
दद्रुःसकण्डूः किटिभानि पामा विचर्चिका चेति तथा न सन्ति॥

श्लोक 89

काण्डे महावृक्षभवे निलीनः स्विन्नः कुकूले पुटपाकयुक्त्या।
विचर्चिकां सर्षपकल्कपिण्डो निहन्ति लज्जामिव रागवेगः॥

श्लोक 90

मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः।
तथा करञ्जप्रपुनाटबीजं कुष्ठान्वितं गोसलिलेन पिष्टम्॥

श्लोक 91

गुग्गुलुमरिचविडङ्गैः सर्षपकासीससर्जरसमुस्तैः।
श्रीवेष्टकालगन्धैर्मनःशिलाकुष्ठकम्पिल्लैः॥

श्लोक 92

उभयहरिद्रासहितैश्चात्रिकतैलेन मिश्रितैरेभिः।
दिनकरकराभितप्तैः कुष्ठं घृष्टं च नष्टं च॥

श्लोक 93

मरिचं तमालपत्रं कुष्ठं समनःशिलं सकासीसम्।
तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे॥

श्लोक 94

तेनालिप्तं सिध्म सप्ताहात् घर्मसेविनोऽपैति।
मासान्नवं किलासं स्नानेन विना विशुद्धस्य॥

श्लोक 95

मयूरकं जर्जरितं समूलं दग्ध्वा परिस्राव्य च सप्तकृत्वः।
तेनाम्भसा कङ्गुणिकोत्थतैलं सिद्धं परं सिध्मनिबर्हणाय॥

श्लोक 96

जीवन्ती मञ्जिष्ठा दार्वी काम्पिल्लकं पयस्तुत्थम्।
एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः॥

श्लोक 97

देयः समधूच्छिष्टो विपादिका तेन नश्यति ह्यक्ता।
चर्मैर्कुष्ठकिटिभं कुष्ठं शाम्यत्यलसकं च॥

श्लोक 98

सप्तपर्णकरञ्जार्कमालतीकरवीरजम्।
मूलं स्नुहीशिरीषाभ्यां चित्रकास्फोतयोरपि॥

श्लोक 99

करञ्जबीजद्विनिशाव्योषैडगजसर्षपाः।
वरा वेल्लं च तैस्तैलं सगोमूत्रैर्विपाचितम्॥

श्लोक 100

कुष्ठदुष्टव्रणग्रन्थिगण्डमालाभगन्दरान्।
विशेषाद्वातकफजान् हन्त्यभ्यङ्गेन वज्रकम्॥

श्लोक 101

एरण्डतार्क्ष्यघननीपकदम्बभार्ङ्गीकम्पिल्लवेल्लफलिनीसुरवारुणीभिः।
निर्गुण्ड्यरुष्करसुराह्वसुवर्णदुग्धाश्रीवेष्टगुग्गुलुशिलाहरितालविश्वैः॥

श्लोक 102

तुल्यस्नुगर्कदुग्धं सिद्धं तैलं स्मृतं महावज्रम्।
अतिशयितवज्रकगुणं श्वित्रार्शोग्रन्थिमालाघ्नम्॥

श्लोक 103

कनकक्षीरी शैला भार्ङ्गी दन्त्याः फलानि मूलं च।
जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक्॥

श्लोक 104

सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोतम्।
गुञ्जैरण्डकबृहतीमूलत्वक्सुरसार्जकफलानि॥

श्लोक 105

कुष्ठं पाठा मुस्ता षड्ग्रन्थातुम्बुरुत्वचो मूर्वा।
एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः॥

श्लोक 106

हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासङ्गः।
सौराष्ट्री कासीसं दार्वीत्वक् स्वर्जिकालवणम्॥

श्लोक 107

एतैस्तैलं तैलं कटुतैलं वा चतुर्गुणे मूत्रे।
करवीरमूलपल्लवतोये च विपाचितं जयति॥

श्लोक 108

कटुकालाबुन्यस्तं जित्याभ्यङ्गेन वातकफकुष्ठम्।
मण्डलदद्रूकोष्ठकृमिपामाविचर्चिकाः सुतराम्॥

श्लोक 109

सिक्थकतुत्थकगुग्गुलुसिन्दूररसाञ्जनैः कटुकतैलम्।
पामाकिटिभविचर्चिषु साधितमभ्यञ्जने श्रेष्ठम्॥

श्लोक 110

शैलेयकम्पिल्लकपट्टिकाह्वसुराष्ट्रजासर्जरसोपलानि।
शिला च चूर्णो नवनीतयुक्तं कुष्ठे स्रवत्यभ्यधिकं प्रशस्तः॥

श्लोक 111

एडगजकुष्ठसैन्धवसिद्धार्थविडङ्गकाञ्जिकैर्लिप्तम्।
कृमिपामासिध्मदद्रूमण्डलकुष्ठं शमं याति॥

श्लोक 112

लाक्षाव्योषं प्रापुनाटं च बीजं सश्रीवेष्टाः कुष्ठसिद्धार्थकाश्च।
तक्रोन्मिश्रः स्याद्धरिद्रा च लेपो दद्रूषूक्तो मूलकोत्थं च बीजम्॥

श्लोक 113

दूर्वाभयासैन्धवचक्रमर्द कुष्ठेरकाः काञ्जिकतक्रपिष्टाः।
त्रिभिः प्रलेपैरपि बद्धमूलां दद्रूं च कण्डूं च विनाशयन्ति॥

श्लोक 114

मनःशिलात्वक्कुटजं सकुष्ठं सलोमशः सैडगजः करञ्जः।
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन॥

श्लोक 115

पलाशनिर्दाहरसेन वापि कर्षोन्मितान्याढक सम्मितेन।
दर्वीप्रलेपं प्रवदन्ति लेपमेतत् परं कुष्ठनिषूदनाय॥

श्लोक 116

एलाचित्रकनिम्बवृषकं कुरुविन्दनागरार्कं च।
चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य॥

श्लोक 117

क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु।
भिद्यन्ते दीर्यन्ति च लिप्तान्यर्काभितप्तानि॥

श्लोक 118

मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः।
मूत्रं पित्तं क्षारः पालाशः कुष्ठनुल्लेपः॥

श्लोक 119

मुस्तं त्रिफला मदनं करञ्ज आरग्वधः कलिङ्गयवाः।
ससप्ताह्वकुष्ठफलिनीदार्व्यःसिद्धार्थकं स्नानम्॥

श्लोक 120

एष कषायो वमनं विरेचनं वर्णदस्तथोद्घर्षः।
त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः॥

श्लोक 121

करवीरनिम्बकुटजाच्छम्याकाच्चित्रकाच्च मूलानाम्।
मूत्रे दर्वीलेपः क्वाथो लेपेन कुष्ठघ्नः॥

श्लोक 122

श्वेतकरवीरमूलं कुटजकरञ्जात् फलं त्वचो दार्व्याः।
सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः॥

श्लोक 123

शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि।
पिष्टा च काकमाची चतुर्विधः कुष्ठहा लेपः॥

श्लोक 124

दार्वीरसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य।
आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य॥

श्लोक 125

इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य।
स्नाने पाने च हितास्तथाष्टमश्चाश्वमारस्य॥

श्लोक 126

आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः।
तैलघृतपाकयोगैश्चेष्यन्ते कुष्ठशान्त्यर्थम्॥

श्लोक 127

सर्षपकरञ्जकोशातकानि तैलान्यथेङ्गुदीनां च।
कुष्ठेषु हितान्याहुस्तैलं श्रेष्ठं च खदिरसारस्य॥

श्लोक 128

शीताः प्रदेहसेकास्तिक्तं सर्पिः सिराविरेकश्च।
विशरणदाहक्लेदे विस्फोटे चर्मदलने च॥

श्लोक 129

शीर्णनखरोममांसः कृमिमानन्नाम्भसी त्यजेत् कुष्ठी।
सध्योदुग्धं दुग्धं षण्मासान् कारभं भजेत्समधु॥

श्लोक 130

एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्।
उद्दालनं च दन्ता गोश्ववराहोष्ट्रदन्ताश्च॥

श्लोक 131

रजनीद्वयं कृमिघ्नं प्रपुनाटं राजवृक्षमूलं च।
कुष्ठोत्पाटनमग्र्यं सपिप्पलीपाकलं योज्यम्॥

श्लोक 132

श्वित्राणां सविशेषं योक्तव्यं सर्वतो विशुद्धानाम्।
उत्सन्नेषु च लेपाः सवर्णकरणास्तथाभ्यङ्गाः॥

श्लोक 133

पक्षात् पक्षात् छर्दनान्यभ्युपेयान्मासान्मासाच्छोधनं चाप्यधस्तात्।
शुद्धिर्मूर्ध्नःस्यात्त्रिरात्रात्त्रिरात्रात् षष्ठे षष्ठे मास्यसृङ्मोक्षणं च॥

श्लोक 134

यो दुर्वान्तो दुर्विरिक्तोऽथवा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्यतेऽसौ।
निस्सन्देहं यात्यसाध्यत्वमेवं तस्मात् कृत्स्नान्निर्हरेदस्य दोषान्॥

श्लोक 135

व्रतदमयमसेवात्यागशीलाभियोगो द्विजगुरुसुरपूजा सर्वसत्त्वेषु मैत्री।
जिनजिनसुतताराभास्कराराधनानि प्रकटितमलपापं कुष्ठमुन्मूलयन्ति॥
॥इति एकविंशोऽध्यायः॥