श्लोक 1
अथातः पाण्डुरोगचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
पाण्ड्वामयिनमादौ कल्याणकपञ्चगव्यतिक्तकानामन्यतमं सर्पिः पाययेत्।
दाडिमसारतः कुडवं धान्यकार्धकुडवं पिप्पल्यष्टमिकां शुण्ठीचित्रकयोश्च पलं पलमेकतः कल्कीकृत्य तोयाढके विंशतिपलं घृतस्य सिद्धं हृत्पाण्डुरोगगुल्मप्लीहार्शःश्वासकासमूढवातवातकफार्तिहरमग्निदीपनं वन्ध्यानां सम्मतं दुःखप्रसविनीनां च॥
श्लोक 3
दुरालभाचन्दनपटोलत्रायमाणागुडूचीकिराततिक्तरोहिणीघननिशाद्वयेन्द्रयवदेवदारुपर्पटकाजमोदैः कार्षिकैः क्षीराढके घृतप्रस्थं साधयेत्।
पाण्डुरोगकामलारक्तपित्तज्वरदाहासृग्दरविस्फोटश्वयथुभगन्दरार्णोघ्नम्॥
श्लोक 4
स्निग्धं चैनं तीक्ष्णिर्वामयेत्।
पुनश्च स्निग्धं मूत्रयुक्तं गव्यं माहिषं वार्धमासं पयः पाययेत्।
मागधिकाशृतं वा।
मूत्रसिद्धां वा त्रिफलाम्।
सप्ताहं मूत्रेण वा हरीतकीः कल्किताः।
स्वर्णक्षीरीभद्रद्रारुनागरश्यामात्रिवृन्मूलानि तेनैव वा क्वथितानि।
एभिर्वा शृतं पयः॥
श्लोक 5
वत्सकबीजविशालाकुष्ठकटुकादारुमुस्तानां समा भागाः मूर्वाभागद्वयमतिविषाभागार्धं च चूर्णितं सुखाम्बुना पीत्वा क्षौद्रमनुलिह्यात्।
एतत् पाण्डुकामलाज्व्रारुचिगुल्मानाहामवातरक्तपित्तकासश्वासानपोहति॥
श्लोक 6
त्रिकटुककालतिललोहैर्वा माक्षिकधातुतुल्यैर्माक्षिकेणवटकाव्योषकाग्निविडङ्गभागा नव नव चायसचूर्णभागा मधुघृताभ्यां तक्रेणोष्णोदकेन वोपयुक्ता हृत्पाण्डुरोगकामलाकुष्ठार्शःशोफोदरप्लीहमेहहराः॥
श्लोक 7
माक्षिकधातुचविकादारुदार्वीत्वग्ग्रन्थिकान् त्रिफलादीनि च नव विचूर्ण्य चूर्णाद्द्विगुणं च सुश्लक्ष्णं पृथङ्मण्डूरं ततो गोमूत्रं सर्वतोऽष्टगुणं पक्त्वा तस्मिंस्तत् क्षिपेत्।
अनन्तरं च वटकान् कुर्यात्।
ते तक्रानुपानमभ्यस्ताः परमौषधं पाण्ड्वामयिनां शोफार्शःकुष्ठकामलामेहप्लीहाढ्यवातकफार्तानां च॥
श्लोक 8
शिलाजतुताप्यरूप्यायोमलाः पृथक् पञ्चपलिकास्त्रिफलादयश्च विगतघनाः पलांशाः श्लक्ष्णरजसः सितोपलापलाष्टकयुक्ताः क्षौद्रद्रुता योगराजः।
कुलत्थादियूषाशिना यथाग्न्यभ्यवहृतः समानः पूर्वेण।
यक्ष्मविषविषज्वरकासश्वासापस्मारहरश्च॥
श्लोक 9
त्रिफलाकुटजफलघनपटोलपिचुमन्दमहौषधकषायैर्मासमर्धमासं वा भावितान्यष्टौ शिलाह्वयपलानि समसितान्युपकुल्यातुगाक्षीरीधात्रीफलकर्कटकशृङ्ग्यः पृथक् पलांशाः निदिग्धिकाफलमूलयोः पलं त्रिजातकत्रिकर्षं च क्षौद्रत्रिपलयुक्तान् वटकान् वर्तयेत्।
ते दाडिमाम्बुक्षीररससलिलसुरासवान्यतमानुपाना वज्राभिधाना वज्रमिवानन्तरोक्तान् रोगान् दारयन्ति।
हृद्रोगगलरोगगरोदरासृग्दरभगन्दरगुल्मवर्ध्मशुक्रमूत्रदोषांश्च॥
श्लोक 10
द्राक्षापिप्पलीप्रस्थद्वयं शर्करार्धतुलां तवक्षीरीनागरमधुकानि च द्विपलिकानि चूर्णयित्वामलकरसद्रोणे प्रक्षिप्य मृद्वग्निना पचेत्।
लेहीभूते शीते च तस्मिन् मधुप्रस्थमावपेत्।
त्रिसुगन्धिकस्य कर्षत्रयं च चूर्णीकृत्य दर्व्या परिघट्य जातीपुष्पादिवासिते मृद्भाण्डे निदध्यात्।
अयं द्राक्षालेह उपयुज्यमानः पाण्ड्वामयहृद्रोगकामलाहलीमकज्वरगुल्मोदरशोफोदावर्तादीनपरानपि विरेकसाध्यान् व्याधीन् प्रसह्य वायुरिवाभ्राण्यपहरति॥
श्लोक 11
भोजनं तु सात्म्यतः शालियवगोधूममुद्गजाङ्गलमांसानि पयो घृतं वृषपटोलवेतपर्पटशाकं द्राक्षादाडिमखर्जूरामलकरसानि।
पानमनुपञ्चमूलसिद्धं वारि वाताधिके।
घनद्रीबेरशुण्ठीसाधितं पित्तोत्तरे।
श्लेष्मण्यरिष्टसीधुमार्द्वीकासवाः।
सर्वत्र वा तक्रम्॥
श्लोक 12
बीजकसारप्रस्थम्।
वरायाः पलानि पञ्चविंशतिः।
पञ्च द्राक्षाया बलायाः सप्त जलद्रोणे पक्त्वा पादशेषं तेभ्यो रसमादाय पूतशीतेऽस्मिन् शर्करातुलां मधुप्रस्थं कर्षांशानि च चूर्णितानि व्योषव्याघ्रनखोशीरक्रमुकैलावालुककुष्ठमधुकानि निक्षिप्य घृतभाजने सर्वमैकध्यं यवपल्ले ग्रीष्मे दशरात्रं विंशतिरात्रं शीते स्थापयेत्।
अयं बीजकसारारिष्टः पाण्डुकामलामेहहृद्रोगवातशोणितविषमज्वरारोचककासश्वासान् निबर्हति॥
श्लोक 13
गण्डीरतरोः समूलपुष्पशाखस्य तुलामाहरेत्।
अर्धतुलां दशमूलस्य त्रिफलायाः पृथगर्धप्रस्थ कुटजत्वचश्च।
कुडवांशान् मुस्तारुष्करकृमिघ्नेन्द्रयवान्।
पालिकान् पाठादन्तीमधुरसारास्नाशठीचित्रकान्।
मृद्वीकार्धप्रस्थं च षोडशगुणे पादशेषमम्भसि विपाच्य रसमाददीत।
तं पूतशीतं सितोपलातुलाद्वयेन लोहचूर्णप्रस्थेन च युक्तं मागधिकार्धप्रस्थेन श्लक्ष्णपिष्टेन ग्रन्थिकपलेनार्धपलिकैश्च मरिचविडङ्गैलवालुकैः प्रलिप्ते घृतकुम्भे निधापयेत्।
मासमात्रं स्थितोऽयं गण्डीरारिष्टोऽधिकगुणः पूर्वस्मात्।
ग्रन्थ्यर्बुदकृमिहरश्च॥
श्लोक 14
अथवा चव्यकुष्ठचित्रकप्रलिप्ते भाजने मस्तुद्रोणं गुडतुलां पिप्पलीप्रस्थत्रयं त्रिफलाप्रस्थत्रयं विडङ्गप्रस्थत्रयं कुडवांशांश्च मरिचपरूषकद्राक्षाकाश्मर्यफलेन्द्रयवान् द्विपलिकानि च दन्तीचित्रकभल्लातकानि चूर्णितानि प्रक्षिपेत्।
ततो यवपल्लस्थं पक्षमुपेक्ष्य यथाबलं पिबेत्।
एष मस्त्वरिष्टः पाण्डुरोगमेहस्थौल्यमेदोर्शोग्रहणीप्लीहशोफोदरभगन्दरहरः।
परमं चाग्निदीपन इति॥
श्लोक 15
भवति चात्र।
पाण्डुरोगप्रशान्त्यर्थं विहितं यच्चिकित्सितम्।
विकल्प्यमेतद्विदुषा पृथग्दोषबलं प्रति॥
श्लोक 16
स्नेहप्रायं पवनजे तिक्तशीतं तु पत्तिके।
श्लैष्मिके कटुरूक्षोष्णं विमिश्रं सान्निपातिके॥
श्लोक 17
मृदं निर्घातयेत् कायात्तीक्ष्णैः संशोधनैः पुरः।
बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत्॥
श्लोक 18
व्योषबिल्वद्विरजनीत्रिफलाद्विपुनर्नवम्।
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च॥
श्लोक 19
वृश्चिकाली च भार्ङ्गी च सक्षीरैस्तैः शृतं घृतम्।
सर्वान् प्रशमयत्याशु विकारान् मृत्तिकाकृतान्।
तद्वत् केसरयष्ट्याह्वपिप्पलीक्षीरशाद्वलैः॥
श्लोक 20
मृद्द्वेषणाय तल्लौल्ये वितरेद्भावितां मृदम्।
विडङ्गेनातिविषया पाठया निम्बपल्लवैः॥
श्लोक 21
वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाथवा।
मृद्भेदाभिन्नदोषानुगमाद्योज्यं च भेषजम्॥
श्लोक 22
कामलायां तु पित्तघ्नं पाण्डुरोगाविरोधि यत्।
पथ्याशतरसे पथ्यावृन्तार्धशतकल्कितः।
प्रस्थः सिद्धो घृताद् गुल्मकामलापाण्डुरोगजित्॥
श्लोक 23
दन्तीचतुष्पलरसे पिष्टैर्दन्तीशलाटुभिः।
घृतप्रस्थः शृतस्तद्वत् प्लीहाश्वयथुजिच्च सः॥
श्लोक 24
पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः।
कामलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः॥
श्लोक 25
हरिद्रात्रिफलानिल्बबलामधुकसाधितम्।
सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम्॥
श्लोक 26
गोमूत्रे द्विगुणे दार्वीकल्कार्धपलसाधितः।
दार्वीपञ्चपलक्वाथे कल्के कालीयके परः॥
श्लोक 27
माहिषात्सर्पिषः प्रस्थः पूर्वः पूर्वे परः परे।
सिद्धं कालीयकक्वाथे सनिशं चोत्तरे हितम्॥
श्लोक 28
आरग्वधं रसेनेक्षोर्विदार्यामलकस्य वा।
सत्र्यूषणं बिल्वमात्रं पाययेत् कामलापहम्॥
श्लोक 29
पिबेन्निकुम्भकल्कं वा द्विगुडं शीतवारिणा।
कुम्भस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा।
सशर्करां त्रिभाण्डीं वा गवाक्षीं वा प्रयोजयेत्॥
श्लोक 30
त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम्।
प्रातः प्रातर्मधुयुतं कामलार्ताय योजयेत्॥
श्लोक 31
तिलपिष्टनिभं यस्तु कामलावान् सृजेन्मलम्।
कफरुद्धपथं तस्य पित्तं कफहरैर्जयेत्॥
श्लोक 32
रूक्षशीतगुरुस्वादुव्यायामचलनिग्रहैः।
कफसम्मूर्छितो वायुर्यदा पित्तं बहिः क्षिपेत्॥
श्लोक 33
हारिद्रनेत्रमूत्रत्वक्श्वेतवर्चास्तदा नरः।
भवेत्साटोपविष्टम्भो गुरुणा हृदयेन च॥
श्लोक 34
दौर्बल्याल्पाग्निपार्श्वार्तिहिध्माश्वासारुचिज्वरैः।
क्रमेणाल्पेऽनुषज्येत पित्ते शाखासमाश्रिते॥
श्लोक 35
रसैस्तं रूक्षकट्वम्लैः शिखितित्तिरिदक्षजैः।
शुष्कमूलकजैर्यूषैः कुलत्थोत्थैश्च भोजयेत्॥
श्लोक 36
भृशाम्लतीक्ष्णकटुकलव्णोष्णं च शस्यते।
सबीजपूरकरसं लिह्याद्व्योषं तथाशयम्॥
श्लोक 37
स्वं पित्तमेति तेनास्य शकृदप्यनुरज्यते।
वायुश्च याति प्रशमं सहाटोपाद्युपद्रवैः।
निवृत्तोपद्रवस्यास्य कार्यः कामलिको विधिः॥
श्लोक 38
गोमूत्रेण पिबेत् कुम्भकामलायां शिलाजतु।
मासं माक्षिकधातुं वा किट्टं वाथ हिरण्यजम्॥
श्लोक 39
गुडूचीस्वरसक्षीरसाधितेन हलीमकी।
महिषीहविषा स्निग्धः पिबेद्धात्रीरसेन तु॥
श्लोक 40
त्रिवृतां तद्विरिक्तोऽद्यात् स्वादु पित्तानिलापहम्।
द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च॥
श्लोक 41
यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान्।
मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याग्निवृद्धये॥
श्लोक 42
कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम्।
पयसा च प्रयुञ्जीत यथादोषं यथाबलम्।
पाण्डुरोगेषु कुशलः शोफोक्तं च क्रियाक्रमम्॥
॥इति अष्टादशोऽध्यायः॥