श्लोक 1
अथात् उदरचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
सर्वमेवोदरमतिमात्रदोषसञ्चयानुबन्धेन स्रोतोमुखनिरोधाद्व्याकुलानिलतया यत् प्रजायते तस्मादभीक्ष्णमुदरी विरेचनान्युपयुञ्जीत।
मूत्रक्षीरान्यतरयुक्तमेरण्डतैलमहरहर्मासमेकं द्वौ वा क्षीराहारो वा गव्यं वा माहिषं वा मूत्रम्।
उष्ट्रीक्षीरवृत्तिर्वा स्यात्॥
श्लोक 3
शोफशूलानाहतृण्मूर्च्छापरीतो विशेषेण पयोऽनुपानं गोमूत्रेण प्राणदां पिबेत्।
पिप्पलीसहस्रं वा स्नुहीक्षीरभावितं सेवेत।
तद्भावितेन वा कृष्णाभयाचूर्णेन कासरम्।
सैन्धवाजमोदयुक्तं वा नैम्बं तैलम्।
अथवार्द्रकरसानुविद्धम्।
सिद्धं वा॥
श्लोक 4
हरीतकीचूर्णप्रस्थयुक्तमाढकं घृतस्याङ्गारेष्वभिविलाप्य खजेनाभिमथ्य सुगुप्तं यवपल्ले मासं स्थापयेत्।
ततश्चोद् वृत्य परिस्राव्य हरीतकीक्वाथाम्लदधिप्रतीवापं विपाचयेत्॥
श्लोक 5
अथवा गव्ये पयसि महावृक्षक्षीरमावाप्य विपाच्य शीतीभूतमभिमथ्य तं नवनीतं महावृक्षक्षीरेणैव सह साधयेत्॥
श्लोक 6
अथवा चविकाचित्रकदन्त्यतिविषाकुष्ठसारिवाविडङ्गत्रिफलाकटुरोहिणीद्विहरिद्राशाङ्खिनीत्रिवृद्दीप्यकानर्धकार्षिकान् राजवृक्षफलमज्जाद्विपलं महावृक्षक्षीरद्विपलं गोमूत्रक्षीरघृतत्रिकुडवं चैकध्यं पाचयेत्।
विद्रध्यष्ठीलानाहकुष्ठोन्मादापस्मारान्निघ्नन्ति॥
श्लोक 7
यावशूकपञ्चकोलकषट्पलेन वा मस्तुदशमूलक्वाथाढकद्वयेन च सिद्धं सर्पिःप्रस्थं प्रयोजयेत्॥
श्लोक 8
यवकोलकुलत्थपञ्चमूलकषायेण वा सुरासौवीरकयुक्तं सर्पिः॥
श्लोक 9
सर्पिष्पानस्रस्ते च दोषे बलवान् विरेचनार्थं मूत्रासवारिष्टसुराः स्नुहीक्षीरयुक्ताः शीलयेत्।
विरेचनद्रव्यकषायं नागरदेवदारुप्रगाढम्।
त्रिलवणादिचूर्णं वा द्वित्रिगुणानुलोमनद्रव्यम्॥
श्लोक 10
पटोलमूलरजनीविडङ्गत्रिफलाः कर्षांशाः।
कम्पिल्लकनीलिनीफलत्रिवृतानां क्रमाद् द्वित्रिचतुर्भिः कर्षैर्युक्ताश्चूर्णयित्वा मूत्रेण पिबेत्।
जीर्णे च पेयामण्डपो रसाशी वा स्यात्।
ततः षड्रात्रं सव्योषेण पयसाश्नीयात्।
ततः सप्तमेऽहनि पुनश्चूर्णं पिबेत्।
अनेन विधिना चूर्णमिदमुदराणि जातोदकान्यपि निबर्हयति।
गुल्मभेदनानि च प्रयुञ्जीत॥
श्लोक 11
वमनविरेचनशिरोविरेचनवत्सकादिवचाहरिद्रादिवर्गद्रव्याणि पृथक्पालिकानि सूक्ष्मकल्कीकृतानि लवणानि च वज्रवृक्षक्षीरप्रस्थं च प्रक्षिप्य मूत्रगणे मृद्वग्निना घट्टयन् पाचयेत्।
अविदग्धकल्कं च तत्सिद्धमवतार्य शीतीभूतमङ्गुष्ठमात्रां गुटिकां वर्तयित्वा यथाबलं त्रिचतुरो मासानुपयोजयेत्।
एषा मूत्रवर्तिर्महारोगश्वासकासपीनसप्रसेकश्वयथुगुल्मपाण्डुकृमिकोष्ठारोचकाविपाकोदावर्तेषु परममगदम्॥
श्लोक 12
कृतविरेचनश्च क्षामदेहोऽन्तरान्तरा क्षीरमौष्ट्रकं गव्यमाजं वा व्योषयुक्तं शीलयेत्।
दोषशेषविजयाय च शीलयेच्चविकानागरं क्षीरेण पिष्टम्।
सुरदारुचित्रकं वा सुरङ्गां वा पुनर्नवं वा त्रिफलादन्तीरौहीतकनिर्यूहं वा व्योषक्षारोपेतं तत् स्नुहीक्षीरघृतयुक्तम्॥
श्लोक 13
पुराणमन्नं तक्रमरिष्टांश्च तांस्तान् क्षीरं च दन्तीचित्रकविडङ्गचविकात्रिकटुकोपेतम्।
तुल्यार्द्रकरसं वा क्षीरं शीलयेत्।
पिप्पलीवर्धमानां वा सेवेत।
शिलाजतु वा क्षीराशी गुग्गुलुं वा।
पुनः पुनश्च स्नेहयेद्विरेचयेच्च।
आत्ययिकांस्तु स्नेहविरेकैरेवोपक्रमेत।
सलिलं तु वर्जयेत्।
आनाहोदावर्तयोर्यथास्वं प्रतिकुर्वीत॥
श्लोक 14
वातकृतेषु पार्श्वशूलोपस्तम्भहृद्ग्रहेषु बिल्वक्षाराम्भसा तैलं पाचयेत्।
स्योनाकाग्निमन्थतिलकुन्तलकदल्यपामार्गान्यतमक्षारेण वा विपक्वं तैलम्॥
श्लोक 15
कफे पित्ते वा वातेनावृते ताभ्यां वा वाते बलवान् वातगुल्मोक्तक्रमेणैरण्डतैलं पिबेत्॥
श्लोक 16
लिम्पेच्च जठरमुदरिणां शिग्रुपलाशार्काश्वकर्णगजपिप्पलीदेवदारुभिर्मूत्रपिष्टैः सुखोष्णैः।
वृश्चिकालीकुष्ठषड्ग्रन्थाद्विपुनर्नवधान्यनागरपञ्चमूलक्वाथैर्मूत्रैश्च परिषेचयेत्।
प्रततमेव च स्वेदयेत्॥
श्लोक 17
विरिक्तस्य चास्य सदा म्लानमुदरं साल्वलादिभिरुपनद्धं घनेन वाससा वेष्टयेत्।
एवमेनमनवकाशो वायुर्न पुनराध्मापयति।
तथापि पुनः सुविरिक्तस्याध्मानेऽम्ललवणान् सुस्निग्धान् निरूहान् दद्यात्।
सोपस्तम्भे तु वायौ तीक्ष्णोष्णान्॥
श्लोक 18
अथ वातोदरिणं विदार्यादिसिद्धेन सर्पिषोपस्नेह्य स्वेदिताङ्गं तिल्वकघृतेन बहुशोऽनुलोमयेत्।
कृतायां च संसर्ग्यां बलार्थं क्षीरमवचारयेत्।
निवर्तयेच्च प्रागुत्क्लेशात् क्रमेण।
ततो यूषरसादिभिर्मन्दाम्ललवणैः समिद्धानलमुदावर्तिनं पुनः स्निग्धस्विन्नमास्थापयेद्विदार्यादिक्वाथेन चित्राफलतैलप्रगाढेन तीक्ष्णोष्णाधोभागिकद्रव्ययुक्तेन वा दाशमूलिकेन॥
श्लोक 19
दीप्ताग्निं च बद्धमलमस्थिसन्धित्रिकपार्श्वादिशूलस्फुरणाक्षेपयुक्तं रूक्षमनुवासयेद्वातहराम्लसिद्धाभ्यां तिलोरुबूकतैलाभ्याम्।
भोजयेच्चैनं जाङ्गलरसेन विदार्यादिशृतेन वा पयसा॥
श्लोक 20
सरलमधुशिग्रुमूलकबीजस्नेहाश्च पानाभ्यञ्जनेन शूलघ्नाः।
स्वेदयेच्चाभीक्ष्णं जठरम्॥
श्लोक 21
अविरेच्यस्य तु पयःसर्पिर्यूषरसबस्त्यभ्यङ्गसमभक्तौषधैः संशमयेत्॥
श्लोक 22
पित्तोदरिणं मधुरविपक्वेन सर्पिषोपस्नेह्य श्यामात्रिवृत्त्रिफलाविपक्वेनानुलोम्यैनं मधुघृतसिताढ्येन न्यग्रोधादिनिर्यूहेणास्थापयेदनुवासयेच्च॥
श्लोक 23
दुर्बलं तु प्रागेवानुवास्य क्षीरबस्तिभिः शोधयेत्॥
श्लोक 24
सञ्जातबलाग्निं च स्निग्धं पुनःक्षीरेण सत्रिवृत्ककेनोरुबूकशृतेन वा।
सातलात्रायमाणाभ्यां वारग्वन्धेन वा सश्लेष्मणि पित्ते समूत्रेण सवाते तिक्तघृतान्वितेन पयसा पुनःपुनर्विरेचयेत् बस्तिकर्म चाचरेत्॥
श्लोक 25
एभिरेव क्षीरैर्विदार्यादिशृतेन वा भोजयेत्।
पायसेन चोपनाहयेदुदरम्॥
श्लोक 26
श्लेष्मोदरिणं वत्सकादिसिद्धेन सर्पिषोपस्नेह्य स्नुहीक्षीरविपक्वेनानुलोम्य कटुक्षारयुक्तैः कफहरैराहारैः संसर्ज्य त्रिकटुमूत्रतैलप्रगाढेन मुष्ककादिक्वाथेनास्थापयेदनुवासयेच्च।
कुलत्थयूषेण व्योषवता क्षीरेण वा भोजयेत्।
स्त्यानकफोदरं क्षारमरिष्टांश्च तीक्ष्णान् पाययेत्।
सततं च स्वेदयेत्।
किण्वसर्षपमूलकबीजकल्कैर्जठरमुपनाहयेत्॥
श्लोक 27
सान्निपातिकमुदरं प्रत्याख्याय चिकित्सेत्।
सर्वमेवेत्येके सर्वस्य सर्वात्मकत्वात् कृच्छ्रतमत्वाच्च।
दोषोद्रेकतस्तु प्रतिकुर्वीत॥
श्लोक 28
सप्तलाशङ्खिनीनिर्याससिद्धेन च सर्पिषा विरेचयेन्मासमर्धमासं वा।
महावृक्षक्षीरमूत्रसिद्धेन वा॥
श्लोक 29
अथावाजगन्धाजशृङ्गीदन्तीद्रवन्तीस्वादुकण्टकपुनर्नवाझरसीवृश्चिकालीमूषिकपर्णीमहासहाक्षुद्रसहावृक्षादिनीभार्ङ्गीगृध्रनखीतण्डुलीयकदाडिममातुलुङ्गमूलक्वाथेन मदनफलैलाकुष्ठकुटिलरास्नाकल्कगोमूत्रसंसृष्टेन सैन्धवलवणितेनस्निग्धेनास्थापयेत्॥
श्लोक 30
तथा चानुपशाम्यति निचयात्मके सर्वत्र च जठरे ज्ञातीनाश्राव्य मद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कं पाययेत्।
पानभोजनेषु वा विषं निक्षिपेत्।
इक्षुगण्डिकां वा भक्षयेत् कृष्णसर्पेण दंशयित्वा वल्लीफलानि वा मूलकं वा॥
श्लोक 31
एवं ह्यस्य दोषसङ्घातः स्थिरो लीन उन्मार्गगो विषेणाशु प्रमाथिना विभिन्नो बहिः प्रवर्तते।
तेनागदतां व्रजति।
भवान्तरं वा॥
श्लोक 32
हृतदोषं च शीताम्बुपरिषिक्तं क्षीरयवागूं पाययेत्।
ततस्त्रिवृद्वास्तुकमण्डूकपर्णीकालशाकयवशाकानामन्य तमं स्वरससाधितमनम्ललवणस्नेहं स्विन्नास्स्विन्नमनन्नभुङ्मासमेकमश्नीयात्।
तत्स्वरसमेव च तृषितः पिबेत्।
ततः शाकैर्निर्हृते दोषे परतो दुर्बलाय कारभं क्षीरं प्रयुञ्जीत॥
श्लोक 33
प्लीहोदरे यथादोषमुपस्निग्धस्विन्नस्य दध्ना भुक्तवतो वामबाहौ सिरां विध्येत्।
रुधिरस्यन्दनार्थं च पाणिना प्लीहानं विमर्दयेत्।
पुनश्च स्नेहपीतं विशुद्धदेहं समुद्रशुक्तिक्षारं पयसा पाययेत् हिङ्गु सुवर्चिकां वा।
पलाशक्षारोदकेन वा यवक्षारम्॥
श्लोक 34
पारिजातकेक्ष्वाक्वपामार्गक्षारं वा तैलसंसृष्टम्।
सौभञ्जनकनिर्यूहं वा पिप्पलीचित्रकसैन्धवचूर्णयुक्तम्।
अम्लस्रुतं वा बिडमागधिकाढ्यं पूतिकरञ्जक्षारम्।
अग्निसादे तु त्रिलवणादिं क्षारानरिष्टांश्च पिबेत्।
घृतं षट्पलं महाषट्पलं रोहीतकषट्पलं वा॥
श्लोक 35
रोहीतकत्वक्पलानि पञ्चविंशतिं कोलप्रस्थद्वयं च तोये क्वाथयेत् तेन क्वाथेन तथा पालिकैः पञ्चकोलकैस्तैः सर्वैश्च तुल्यया रोहीतकत्वचा कल्कीकृतैर्घृतप्रस्थं साधयेत्।
तत् परं प्लीहहितम्॥
श्लोक 36
रोहीतकलताः खण्डशः कल्पिताः हरीतकीश्च तोये गोमूत्रे वा सप्तरात्रमासुनुयात्।
स रसः प्लीहगुल्मोदरकृमिमेहकामलार्शांसि साधयति।
एवमनुपशाम्यत्यप्राप्तपिच्छोदके वातकफोल्बणे गुल्मविधिनाग्निकर्म कुर्यात्॥
श्लोक 37
पित्तोल्बणे तु जीवनीयघृतक्षीरबस्तिविरेचनानि प्रयुञ्जीत।
पुनःपुनश्च रुधिरमवसेचयेत्।
यकृदाख्येऽप्ययमेव क्रियाविभागः॥
श्लोक 38
बद्धोदरे स्विन्नाय सतैललवणमूत्रं तीक्ष्णं निरूहमनुवासनं च दद्यात्।
स्रंसनानि चान्नान्युदावर्तहराणि च तीक्ष्णं च विरेचनं यच्च किञ्चिद्वातघ्नम्॥
श्लोक 39
छिद्रोदरे स्वेदवर्ज्यं कफोदरवदाचरेत्।
दकोदरेतु पूर्वमुदकदोषहरणार्थं रूक्षतीक्ष्णौषधान् समूत्रान्निर्यूहचूर्णक्षारान् कफघ्नानि दीपनीयानि चान्नपानानि योजयेत्॥
श्लोक 40
एवमसिद्धौ बद्धच्छिद्रदकोदरेष्वश्मर्यामिव सुहृदां प्रकाश्य शस्त्रमवचारयेत्।
तत्र बद्धच्छिद्रोदरयोः स्निग्धस्विन्नस्याधो नाभेश्चतुरङ्गुलानि वामतोऽपहायोदरं पाटयित्वा चतुरङ्गुलप्रमाणमान्त्राणि निष्कास्य निरीक्ष्य बद्धगुदोदरस्यान्त्रप्रतिरोधकरं बालं मलोपलेपमश्मानं चापहरेत्।
परिस्राविणि शल्यमुद्धृत्यान्त्रपरिस्रावं विशोध्य तच्छिद्रं मर्कोटकैर्दंशयेत्।
लग्नेषु च शिरस्सु कायमपनयेत्।
ततो मधुघृताभ्यामभ्यज्यान्त्राणि यथास्थानं स्थापयित्वा बाह्यं व्रणमुदरस्य सीव्येत्।
यष्टीमधुकमिश्रया च कृष्णमृदा व्रणमभिलिप्य बध्नीयात्।
अथ निवातमागारं प्रवेश्य क्षीरवृत्तिं स्नेहद्रोण्यां वासयेत्॥
श्लोक 41
दकोदरे सवषु च जातोदकेषु जठरेषु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्याप्तैः परिगृहीतस्याकक्ष्यातः पटवेष्टितोदरस्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय व्रीहिमुखेनाङ्गुष्ठोदरमात्रमवगाढं विध्वा नाडीं निधाय दोषोदकमर्धमात्रमवसिञ्चेत्।
ततोनाडीमुद्धृत्य तैललवणेनाभ्यज्य व्रणं बन्धनेनोपचरेत्॥
श्लोक 42
सहसा सर्वस्निम् विस्राविते तृष्णा ज्वरोऽङ्गमर्दोऽतीसारः श्वासः कासः पाददाहो वा जायते।
पूर्यते च सुतराम्।
अतस्तृतीयचतुर्थपञ्चमषष्ठाष्टमद्वादशषोडशरात्राणामन्यतममन्तरं कृत्वा दोषोदकमल्पशो विस्रावयेत्।
निस्रुते च दोषोदके विमृद्योदरमाविककौशेयचर्मणामन्यतरेण गाढतरं वेष्टयेत्।
तथा नाध्मापयति वायुः।
लङ्घयित्वा च यवागूमल्पस्नेहलवणां मात्रया पाययेत्।
ततः परं षण्मासान् क्षीरवृत्तिर्भवेत्।
ततो मासत्रयं क्षीरपेयां पिबेत्।
अन्यच्च मासत्रयमल्पलवणमल्पक्षीरं श्यामाकं कोरदूषं वा भुञ्जीतेति।
भवति चात्र॥
श्लोक 43
प्रयतो वत्सरेणैवं विजयेत जलोदरम्।
वर्ज्येषु यन्त्रितो दिष्टे नात्यदिष्टे जितेन्द्रियः॥
श्लोक 44
सर्वमेवोदरं प्रायो दोषसङ्घातजं यतः।
अतो वातादिशमनी क्रिया सर्वत्र शस्यते॥
श्लोक 45
वह्निर्मन्दत्वमायाति दोषैः कुक्षौ प्रपूरिते।
तस्मात् भोज्यानि योज्यानि दीपनानि लघूनि च॥
श्लोक 46
सपञ्चमूलान्यल्पाम्लपटुस्नेहकटूनि च।
भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः॥
श्लोक 47
यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्।
पिबेदिक्षुरसं चानु जठराणां निवृत्तये॥
श्लोक 48
स्वं स्वं स्थानं व्रजन्त्येषां वातपित्तकफास्तथा।
अत्यर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु॥
श्लोक 49
गुडं तिलकृतं शाकं वारि पानावगाहयोः।
आयासाध्वदिवास्वप्नयानयानानि च त्यजेत्॥
श्लोक 50
नात्यच्छसान्द्रमधुरं पान तक्रं प्रशस्यते।
सकणालवणं वाते पित्ते सोषणशर्करम्॥
श्लोक 51
यवनीसैन्धवाजाजीमधुव्योषैः कफोदरे।
त्र्यूषणक्षारलवणैः संयुक्तं निचयोदरे॥
श्लोक 52
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः।
प्लीह्नि बद्धे तु हपुषायवानीपट्वजाजिभिः॥
श्लोक 53
सकृष्णामाक्षिकं छिद्रे व्योषवत्सलिलोदरे।
गौरवारोचकानाहमन्दवह्न्यतिसारिणाम्।
तक्रं वातकफार्तानाममृतत्वाय कल्पते॥
श्लोक 54
प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत्।
स्थैर्यकृत् सर्वधातूनां बल्यं दोषानुबन्धहृत्।
भेषजापचिताङ्गानां क्षीरमेवामृतायते॥
॥इति सप्तदशोऽध्यायः॥