श्लोक 1
अथातो गुल्मचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
गुल्मो हि वातादृते न सम्भवति।
तस्मात्तेषु सर्वेष्वपि प्रथमं स्नेहस्वेदौ वातहहरौ।
स्नेहोपसंहितं मृदु विरेचनं तद्विधांश्च बहुशो बस्तीनम्ललवणमधुरांश्च रसान् युक्त्यावचारयेत्।
मारुते हि विजितेऽल्पेनापि यत्नेन शक्योऽन्योऽपि दोषो गुल्मेषु नियन्तुम्॥
श्लोक 3
अथ वातोत्तरे रूक्षं बद्धमरुच्छकृतमातुरं तीव्ररुजमानिलव्याधिविहितमन्यतम तैलं पाययेत्।
अथवा विडङ्गपञ्चकोलमरिचत्रिफलाधान्यकगर्भं सपयस्सर्पिर्विपक्वम्।
अनेनैव वा कल्केन दशमूलक्वाथोपहितम्।
राजयक्ष्मविहितं वा षट्पलम्।
हिङ्गुधानकाम्लवेतससौवर्चलैलाबिडशठीदाडिमयवक्षारत्रिकटुकाजगन्धाजमोदाजाजीपुष्करमूलवचाचित्रकसुरसैर्वा दधिसंयुक्तम्॥
श्लोक 4
हपुषामरिचबाष्विकासैन्धवदीप्यकाजाजीपञ्चकोलकैः कोलमूलकदाडिमरसदधिक्षीरवत् सर्पिः सिद्धं सिद्धं शूलविबन्धहिध्माध्मानप्लीहहृद्रोगग्रहणीहतनामकृमिवर्ध्मपाण्डुक्षयश्वासकासयोनिरोगोदरज्वरारोचकेषु।
शुण्ठीपलं पिप्पलीपलमध्यर्धं धानकाकुडवं दाडिमद्विकुडवं घृतपलानि विंशतिः क्षीरं चैकध्यं विपचेत्।
एतत्सर्पिः समानं पूर्वेण॥
श्लोक 5
लशुनस्य विगतत्वचस्तुलां प्रत्येकं पञ्चपलिकं च महापञ्चमूलमष्टगुणेऽम्भसि साधयेत्।
तेन क्वाथेन तदर्धांशैश्च पृथक् सुरादधिमस्तुधान्याम्लदाडिमरसैः यवानीदीप्यकाम्लवेतसहिङ्गुचविकासैन्धवत्र्यूषणत्रिफलामरदारुभिश्चार्धपलिकैः प्रस्थोन्मितं घृतं शृतं पीतं समानं पूर्वेण॥
श्लोक 6
वर्षाभूद्वयदशमूलाश्वगन्धासुषवीच्छिन्नरुहाभार्ङ्गीरास्नैरण्डबलाकालाशठीपुष्करमूलगन्धपलाशान् द्विपलांशान् प्रस्थं प्रस्थं च यवमाषकोलकुलत्थानां जलद्रोणे पादावशिष्टं विपचेत्।
तेन पृथक् समं मातुलुङ्गदाडिमाम्रातकरसशुक्ततुषोदकारनालं घृतप्रस्थं दध्याढकोपेतं वचाकारवीशताह्वाद्विक्षारत्रिलवणत्रिकटुकरास्नाकुम्भनिकुम्भयवानीयवानकहिंस्राम्लवेतसनीलिनीफलविडङ्गदाडिमहिङ्गुपाषाणभेदकोषकवृषकहपुषाभार्ङ्गीश्वदंष्ट्रात्रपुसैर्वारुबीजाजाजीसारिवोपकुञ्चिकाग्रन्थिककुस्तुम्बरीतुम्बुरुफलमूर्वाचित्रकसुरसागजपिप्पलीगर्भं साधयेत्।
दाधिकाख्यमेतत् सर्पिः समानं पूर्वेण।
मूत्रघातोन्मादापस्मारवातव्याधिहरं च।
पिबेद्वा व्योषषड्ग्रन्थाकृमिघ्नकटुकाचित्रकसौवर्चलाभयायवक्षारैर्दशांशक्षीरसंयुक्तं साधितं सर्पिः।
क्षीरायोग्याय च सुरामदिरामस्तुदधिसरदाडिमरसानामन्यतमं विदध्यात्॥
श्लोक 7
अभ्यङ्गपूर्वं चैनं सदा स्वेदयेत्।
स्नेहस्वेदौ हि सम्यक् प्रयुक्तौ स्रोतसां मार्दवमुपजनय्यानिलं जित्वा भित्वा च विबन्धमाशु गुल्ममपकर्षतः॥
श्लोक 8
तत्र हृदयजे विशेषेण स्नेहपानमिच्छन्ति।
बस्तिजे बस्तिमुभयं नाभिपार्श्वाश्रये।
विबद्धानिलवर्चसश्च दीप्ताग्नेः स्निग्धोष्णानि बृंहणानि चान्नपानानि पुनःपुनश्च स्नेहपाननिरूहानुवासनानि कफपित्तानुरक्षिणायोज्यानि॥
श्लोक 9
अन्यथा कफो विवृद्धस्तन्द्रागौरवारुचिहृल्लासाग्निसादान् कुर्यात्।
तमुल्लिखेत्।
तत्कृतेषु च शूलानाहविबन्धेष्वनन्तरोक्तानां घृतानामौषधैश्चूर्णगुटिकाक्वाथान् कोलदाडिममातुलुङ्गसुरामण्डतक्रमस्तुधान्याम्लोष्णोदकानामन्यतमेन प्रकल्पयेत्।
अपि च॥
श्लोक 10
त्रिलवणहपुषाजमोदाजगन्धावचाहिङ्गुपाठोपकुञ्चीशठीजीरकाजाजिकुस्तुम्बरीबाष्पिकाकारवीतुम्बुरुस्वर्जिका यावशूको जटापौष्करी दाडिमं तिन्तिणीकं विडङ्गानि भार्ङ्गी वरो वेतसाम्लो मिशिर्मरिचगजकणाभयापञ्चकोलानि कुम्भो निकुम्भो विशाला यवानी सुराह्वं च तत्सर्वमेकत्र चूर्णीकृतं बीजपूराद्रसेनासकृत् भावितं यः पिबेत् प्रातराहारकालेऽथवा मासमात्रं हिताशी नरः सादरम्।
प्लुतमशिशिरवारिणा जीर्णमद्येन मूत्रेण तक्रेण कोलाम्भसा मस्तुना पेयया सर्पिषौष्ट्रेण दुग्धेन कौलत्थयूषेण वा क्षारनिश्च्योततोयेन वा दाडिमाद्वारसेनात्मवानेभिरेवौषधैः साधितं वा घृतं हृदयगुदकटीयकृत्प्लीहगुह्याश्रितं तस्य शूलं प्रणश्येत् तथा गुल्मविष्टम्भदुर्नामकृच्छ्रोदराध्मानहिध्माविबन्धाः सवर्ध्मारुचिश्वासकासाः प्रपक्तुं च शक्तो भवेत् पावकः प्राश्यमानानि पाषाणचूर्णान्यपि॥
श्लोक 11
अभयापलद्वयमम्लवेतसपलद्वयं पालिकान् वचाविश्वभेषजत्रिवृद्दन्तीचित्रकशठीपुष्करजटायावशूकान् कार्षिकान् मरिचाजाजीसैन्धवोपकुञ्चिकाशितिवारकयवानीधातकीपुष्पविडङ्गान् हिङ्गुत्रिकर्षं च चूर्णितं पूर्ववद्भावितं पीतं च समानं तेन॥
श्लोक 12
यवानीशतपुष्पानागकेसरवचामुस्तव्योषपाठागुग्गुलुत्रिवृतागजपिप्पलीतालीसैलापामार्गद्रवन्तीनिदिग्धिकामूलानां भागो भागश्चाम्लवेतसस्य तत्सूक्ष्मरजीकृतं मातुलुङ्गदाडिमबदररसशीधुसुरोष्णसलिलान्यतमेन पीतं शूलगुल्मवर्ध्मानाहोदरकोष्ठस्तैमित्यार्शोश्मरीमूत्रग्रहकटीपृष्ठग्रहोन्मादापस्मारस्कन्नशुक्रताग्निसादानपनयति॥
श्लोक 13
तिलकुन्तलपलाशसर्षपयवनालमूलकबीजानामन्तर्धूमदग्धानां क्षारं गोजाविमहिषीखरहस्तिमूत्रैर्बहुकृत्वो गालयेत्।
ततस्तदच्छं शुण्ठीसैन्धवकुष्ठकृमिघ्नचूर्णप्रतीवापमधिशृत्य लेहीभूतमाददीत।
तत्तैलयुक्तं समानं पूर्वेण॥
श्लोक 14
महौषधदेवदारुदन्तीत्रिवृत्पाठाक्षारद्वयत्रिफलोपकुञ्चिकाचविकाद्वीपिप्पलीद्वयपिप्पलीमूलसर्पसुगन्धा कुष्टकटुरोहिणीनामर्धपलिकान् भागान् पलं पलं च पञ्चानां लवणानामेकत्र चूर्णयित्वा दध्ना त्रिवृतेन चाप्लाव्य कलशोदरेऽन्तर्धूमं पाचयेत्।
अग्निवर्णं च कलशमपनीय क्षारमाददीत।
एष क्षारागदो भेलविहितः समानः पूर्वेण सर्पमूषिकदष्ट्Aगरापस्मारोन्मादाश्मरीयोनिशुक्रदोषांश्च साधयति॥
श्लोक 15
पित्तं च विवृद्धमन्तः सन्तापं जनयेत्।
तत्रैरण्डतैलं सपयस्कं विरेचनार्थं पिबेत्।
सकफस्तु वारुणीमण्डमिश्रम्।
अत्युद्रिक्तपित्तस्त्रिफलां त्रायमाणां वा क्षीरेण पिबेत्।
विरिक्तस्यापि सन्तापानुवृत्तौ रक्तमवसेचयेत्॥
श्लोक 16
विड्विबन्धे चोदावर्तक्रमं कुर्यात्।
लुञ्चिततिलपलद्वयं शुण्ठ्यर्धपलं च पिष्टं गुडपलोपेतमुष्णेन पयसा पिबेत्।
तद्वातगुल्मोदावर्तयोनिशूलानपोहति तथाक्षीरशृतेन महापञ्चमूलेन शिलाह्वयम्।
लशुनं तु क्षीरसिद्धं पीत्वा गुल्मोदावर्तगृध्रसीहृद्रोगविद्रधिशोषविषमज्वरान् जयति॥
श्लोक 17
बृहतीद्वयबिल्वगोक्षुरकैरण्डमातुलुङ्गीमूलपाषाणभेदक्वाथः सयावशूको गुल्मशूलहरः।
माषपर्णीमुद्गपर्णीसहदेवाद्द्रस्वपञ्चमूलैरण्डेक्षुवालिकानिर्यूहो यवक्षारोपेतः सर्वगुल्मकोष्ठशूलघ्नः।
देवदारुनागरैरण्डपुष्करमूलानां क्वाथः सर्वगुल्मशूलघ्नः।
पुष्करमूलदुरालभायवशुण्ठीनां वा।
तैलारनालमूत्रमदिरायावशूकाश्चैकत्र पीता गुल्मोदरानाहप्लीहहराः।
स्वेदांश्च विविधान् पुनःपुनर्योजयेत्॥
श्लोक 18
स्रंसनार्थी नीलिनीफलचूर्णयुक्तानि पूर्वोक्तानि हवींषि पिबेत्।
अथवा रामठस्यैको भागः सैन्धवस्य त्रयो नवैरण्डतैलस्य सप्तविंशतिर्लशुनस्वरसस्य तदैकध्यं कृत्वा पीतमुदरगरगुल्मवर्ध्मप्लीहशूलहरम्।
नीलिनीबलाव्याघ्नीकटुकाफलतालपत्रिकारास्नाकृमिघ्नानि पालिकान्यपामाढके साधयित्वाष्टभागावशिष्टमवतारयेत्।
तेन स्नुहीक्षीरपलप्रतीवापं दधिसमं सर्पिःप्रस्थं पचेत्।
तत्पेयामण्डेन सह रसाशिना नीलिनीघृतं पलमात्रया पीतं गुल्मप्लीहकुष्ठश्वित्रजठरव्यङ्गशोफज्वरपाण्डुरोगोन्मादापस्मारानपकर्षति।
दुर्विरेच्यो हि सर्व एव गुल्मी मारुताभिभूतकोष्ठत्वात्।
तस्मात्सुस्निग्धमेनं स्नेहविरेकैर्वा शोधयेत्॥
श्लोक 19
पित्तगुल्मे तु स्निग्धोष्णेन जाते स्रंसनार्थं मधुना कम्पिल्लकमवलिह्यात्।
द्राक्षाभयारसं वा सगुडं पिबेत्।
कल्पोदितानि वा विरेचनानि प्रयुञ्जीत॥
श्लोक 20
रूक्षोष्णसमुद्भूते पुनः संशमनार्थं तिक्तकं वासाघृतं वा पिबेत्।
अथवा तृणपञ्चमूलक्वाथेन जीवनीयकल्केन च सिद्धं सर्पिः।
तथा न्यग्रोधादिगणेन तृणपञ्चमूलादिभिर्वा पृथक् साधितं क्षीरम्॥
श्लोक 21
रूक्षोष्णजेऽपि चात्ययिके सामान्यतो वा समुत्पन्ने विद्रधिविहितानां त्रिफलादिक्वाथत्रायमाणाघृतद्राक्षाघृतानामन्यतमं पिबेत्।
क्षीरं वा त्रायमाणाशृतं कोष्णं पीत्वा क्षीरमेव सुखोष्णमनुपिबेत्॥
श्लोक 22
पक्वाशयस्थे वा गुल्मे क्षीरबस्तिभिः सतिक्तैः संशोधयेत्।
शीतद्रव्यसिद्धैश्च स्नेहैरभ्यञ्जयेत्।
मणिकनकरजतताम्रभाजनानि च शिशिरवारिपूर्णानि गुल्मदेशस्योपरि धारयेन्मुक्तावलीश्च सुशीताः।
एवमसिद्धौ विदाहपूर्वरूपेषु चासृक् स्रावयेत्।
स्रुतरक्तं च जाङ्गलरसैर्लब्धबलमर्तिशेषनाशाय पुनः सर्पिरभ्यासयेत्॥
श्लोक 23
विद्रधिवच्च विदह्यमानमुपनाहयेत्।
पर्यागतमाप तद्वदुपलक्ष्य तथैव सर्वथोपचरेत्॥
श्लोक 24
श्लेष्मगुल्मिनं प्रागेव विधिवद्वामयेदवाम्यमुपवासयेत्।
लङ्घितस्योष्णकटुतिक्तदीपनं संसर्गमाचरेत्।
तथा स्वेदान् वातगुल्मोक्तानि च घृतादीनि द्विगुणहिङ्गुक्षाराम्लवेतसानि॥
श्लोक 25
दशमूलक्वाथे व्योषदाडिमहिङ्गुयवक्षारबिडसैन्धवयुक्तं सर्पिः सिद्धं श्लेष्मगुल्मघ्नम्।
भल्लातकपलद्वयं लघुपञ्चमूलं च पालिकमुदकाढके प्रस्थावशेषं पाचयेत्।
तस्मिन् क्षीरप्रस्थे च सर्पिःप्रस्थं हिङ्गुविडङ्गशठीबिडसैन्धवक्षाररास्नानागरपिप्पलीषड्ग्रन्थामधुकचित्रकैः काषिकैर्विपचेत्।
एतद् भल्लातकघृतं कफगुल्मप्लीहकासश्वासग्रहणीपाण्डुरोगघ्नम्।
षट्पलं वा द्विगुणक्षारं क्षीररहितं मस्तुदधिकाञ्जिकार्द्रकरसाढकद्वयोपेतं साधयित्वा प्रयुञ्जीत।
हिङ्गुहरीतकीपुष्करमूलशुण्ठीसैन्धवबिडश्यामायवक्षारतुम्बुरुचूर्णो यवक्वाथाप्लुतः सर्पिर्भृष्टो भक्षितः शूलगुल्मकाठि न्यघ्नः॥
श्लोक 26
ततोऽस्य सर्वमङ्गं गुल्मं च साध्मानं सविबन्धं कठिनमुन्नतं गूढमांसं स्थिरं महावस्तुं च बहुधा बहुशश्च स्वेदयेत्।
स्निग्धस्विन्नशरीरस्य शिथिलतां गते गुल्मे यथोक्तां घटिकां लागयेत्।
तया सङ्गृहीते च गुल्मे घटीमपनयेत् भिन्द्याद्वा॥
श्लोक 27
ततो हृदयमान्त्रं च वर्जयन् गुल्मं विमार्गाजपदादर्शान्यतमेन वस्त्रान्तरितं प्रपीडयेत् प्रमृज्यात्।
ततः साल्वलादिभिः सुखोष्णैर्लेपयित्वा लोहपात्रैः स्वेदयेत्।
एवममुना क्रमेण स्थानादपसृते शिथिलीभूते च गुल्मे विरेकान् स्नेहवतो दाशमूलिकांश्च ब्स्तीन् विदध्यात्।
नीलिनीघृतमेनं द्विगुणप्रमाणं पाययेत्।
उदरोक्तानि च सर्पींषि॥
श्लोक 28
त्रिफलाकुम्भनिकुम्भदशमूलानां षोडशांशावशिष्टं क्वाथं घृतमेरण्डतैलं क्षीरं चैकतः साधयेत्।
अयं मिश्रकस्नेहः कफगुल्मवातविड्विबन्धोदावर्तप्लीहोदरयोनिशूलान्यपकर्षति॥
श्लोक 29
पिप्पल्यामलकद्राक्षाश्यामाद्यैः पालिकैरेरण्डतैलहविषोः प्रस्थौ षड्गुणे पयसि पचेदयं मिश्रकस्नेहो गुल्मिनां स्रंसनो वृद्धिविद्रधिगुल्मवातव्याधिषु च परममृतम्॥
श्लोक 30
दन्त्याः पलानि पञ्चविंशतिस्तावन्त्येव चित्रकस्य तावत्य एव हरीतक्यः सर्वमेकत्र सलिलकलशेऽष्टांशावशिष्टं साधयित्वा पूते च तस्मिन् रसे ताश्च हरीतकीः पञ्चविंशतिं गुडपलानि तैलार्धकुडवं चूर्णीकृतं त्रिवृताकुडवमर्धपलोन्मितां मागाधिकां महौषधं च प्रक्षिपेत्।
ततो मृद्वग्निना लेहीभूतेऽवतारिते शीते च तैलसमं मधु कर्षांशं च चतुर्जातकचूर्णं मिश्रयेत्।
एता दन्तीहरीतक्यः सावलेहाः पञ्चविंशत्यहोभिर्भक्ष्यमाणा गुल्मार्शःश्वयथुकुष्ठकामलारोचकग्रहणीपाण्डुहृद्रोगोत्क्लेशप्लीहोदरविषमज्वरानपोहन्ति।
हृद्यं सुखं च विरेचनम्॥
श्लोक 31
गुडाक्षीरभावितं वा त्रिवृताचूर्णं सर्पिर्मधुभ्यामवलिह्यात्।
गुग्गुलुं वा गोमूत्रेण पिबेत्।
तेन वा श्यामात्रिवृत्कुष्ठदन्तीगुग्गुलुक्षारहरीतकीः पीलुरसं वा समधुसर्पिर्लवणम्॥
श्लोक 32
मूत्रबस्तिक्षारांश्च तांस्तांस्तत्र तत्रोक्तान् क्षीररसस्निग्धाहारो द्व्यहमेकाहं वा विश्राम्य प्रयुञ्जीत।
क्षारो हि श्लेष्माणं स्निग्धस्थिरं मधुरमाशयात् छिन्दन् क्षरयति॥
श्लोक 33
कफरुद्धमार्गशुध्यर्थं विविधांश्च चूर्णलवणतक्रारिष्टासवानवचारयेत्।
पिप्पलीपिप्पलीमूलसैन्धवाजाजीचित्रकचूर्णयुक्तां च जीर्णसुराम्।
अपि च॥
श्लोक 34
वमनैर्लङ्घनैः स्वेदैः सर्पिष्पानौर्विरेचनैः।
बस्तिभिर्गुटिकाचूर्णक्षारारिष्टासवैरपि॥
श्लोक 35
श्लैष्मिकः कृतमूलत्वाद्यदि गुल्मो न शाम्यति।
तस्य दाहं हृते रक्ते कुर्यादन्ते शरादिभिः॥
श्लोक 36
अथ वस्त्रान्तरितं सपर्यन्तं गुल्मनिचयं प्रदीप्तेन शरलोहाग्निमन्थतिन्दुककाष्ठानामन्यतमेन नाभिबस्तिहृदयान्त्ररोमराजीः परिहरन् नातिगाढं परामृशेत्।
ततः कषायस्वादुशीतैरग्निवेगमुपशमय्य वर्णोपक्रमं कुर्वीत॥
श्लोक 37
व्यामिश्रदोषे तु व्यामिश्रमिदमेव यथोक्तं विदध्यात्॥
श्लोक 38
रक्तगुल्मे पुनरतीतप्रसवकालाया योषितः स्नेहस्वेदपूर्वकं स्नेहविरेचनं वितरेत्।
पलाशक्षारोदकसिद्धं च यमकम्।
गुल्मभेदनाय तीक्ष्णोष्णं च विधिम्॥
श्लोक 39
एवमभिद्यमाने योनौ योनिविरेचनार्थं क्षारेण महावृक्षक्षीरेण वा युक्तं पललम्।
ताभ्यां वा भावितान् कटुकमत्स्यांस्तत्पित्तभावितान् वा वराहपित्तभावितान् वा नक्तकानूर्ध्वाधोभागिकद्रव्यभावितान् वा।
सगुडक्षारं किण्वं वा।
बस्तिं च सक्षारक्षीरमूत्रं दाशमूलिकमुत्तरबस्तिं च योजयेत्॥
श्लोक 40
प्रवृत्तं तु रक्तं रसौदनाशिन्या उपेक्षेत।
अतिप्रवृत्तं तु रक्तं रक्तपित्तोपक्रमेण साधयेत्॥
श्लोक 41
सर्वेषु चान्नपानस्वरूपज्ञो गुल्मेष्वाहारमग्निबलापेक्षी प्रयुञ्जीत॥
श्लोक 42
आनाहादिष्वप्यामशुद्धवातोदावर्तानुरोधेन गुल्मवत् प्रतिकुर्यादिति।
भवति चात्र॥
श्लोक 43
मन्देऽग्नौ वर्धते गुल्मः प्रदीप्ते तु प्रशाम्यति।
शमप्रकोपौ दोषाणां सर्वेषां यत्तदाश्रयौ॥
॥इति षोडशोऽध्यायः॥