अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 15

श्लोक 1

अथातो विद्रधिवृद्धिचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

सर्वमेव विद्रधिमामं शोफविधिना यथादोषमुपाचरेत्।
प्रततं च शोणितमपहरेत्।
पाकाभिमुखं चोपनाह्य पक्वं पाटयित्वा व्रणवच्चिकित्सेत्॥

श्लोक 3

आभ्यन्तरे तु विद्रधौ वरणादिक्वाथमूषकादिप्रतीवापं पिबेत्।
आभ्यामेव च वर्गाभ्यां विरेचनद्रव्यैश्च पानाय् सर्पिः प्रकल्पयेत्।
आस्थापनमनुवासनं च।
मधुशिग्रुम् च पानभोजनलेपनेषु।
शिलाह्वयं वा कल्पविधानेनोपयुञ्जीत।
गुग्गुलुं वा यथादोषं च सर्वशो गुल्मवदुपक्रमेत्॥

श्लोक 4

त्रिफलापिचुमन्दमधुककटुकापटोलानि शाणांशानि।
त्रिवृत्त्रायमाणयोः कर्षम्।
मसूरपलं चैकध्यमष्टगुणेऽम्भसि साधयित्वा पूतं रसं घृतमूर्छितं पिबेत्।
तेन विद्रधिगुल्मज्वरदाहशूलतृष्णाहृद्रोगभ्रमारतिमूर्छारक्तपित्तकामलाकुष्ठविसर्पाः प्रशाम्यन्ति॥

श्लोक 5

त्रायमाणाप्रस्थक्वाथे मुस्तकटुकातामलकीत्रायमाणाचन्दनदुरालभाजीवन्तीवीरोत्पलैः पालिकैर्घृतप्रस्थं क्षीरामलकरसप्रस्थद्वयोपेतं विपक्वं समानं पूर्वेण॥

श्लोक 6

द्राक्षामधूकखर्जूराभीरुविदारीपरूषकत्रिफलाक्वाथे क्षीरेक्षुधात्रीस्वरससमेतमभयागर्भं सर्पिर्विपाचयेत्।
तच्छीतं मधुशर्करापादयुक्तं समानं पूर्वेण।
भृशं च शृङ्गादिभिः शोणितमवसेचयेद्यथासन्नम्।
बाहुमध्ये वा सिरां व्यधेत्।
पच्यमानं च कोष्ठगतं बहिरुन्नतमुपनाहयेत्॥

श्लोक 7

तत्रैव च पिण्डिते शूले तत्पार्श्वपीडनेन लब्धसुप्तौ शस्त्रकर्मविधिनिर्दिष्टैश्च चिह्नैः पक्वमुपलक्ष्य भित्त्वा व्रणवत् साधयेत्॥

श्लोक 8

आभ्यन्तर एव च पक्वमूर्ध्वमधो वा प्रवृत्तं पूयमुपद्रवान् परिरक्षन् उपेक्षेत दशाहमात्रम्॥

श्लोक 9

असम्यग्वहति वा क्लेदे तन्निर्वाहणार्थमम्लसुरासवमैरेयोष्णोदकान्यतमेन वरणादिं मधुशिग्रुं वा पिबेत्।
तन्मूलैर्वा कृतां यवागूं यवकोलकुलत्थयूषेण चाश्नीयात्।
ऊर्ध्वं च दशाहात्तिल्वकघृतेन त्रायमाणा घृतेन वा यथाबलं शोधयेत्॥

श्लोक 10

विशुद्धश्च तिक्तकमल्पमल्पं सर्पिर्मधुनोपेतमुपयुञ्जीत।
यथा च नोपैति पाकं तथा प्रयतितव्यम्।
शीघ्रविदाहित्वात्तस्य विद्रधिरिति संज्ञा।
पक्वे तु पुनर्दैविकी सिद्धिराशुकारितरश्च सर्वामयेभ्यो विद्रधिः।
सति च प्रमेहे प्रमेहचिकित्सितमीक्षेत॥

श्लोक 11

स्तनविद्रधिमपि व्रणविधानेनोपचरेत्।
पच्यमानं यथेष्टभोजनेन पाचयेत्।
न पुनरुपनाहयेत्।
उपनद्धो हि स्तनो मृदुमांसतया शीघ्रमेव पक्वः सङ्कोथमवाप्यावदीर्येत।
पक्वं च स्तनविद्रधिं स्तन्यवाहिनीः सिराः सचूचुकं च कृष्णमण्डलं परिहरन् शस्त्रेणोपक्रमेत।
सर्वासु चामविदग्धपक्वव्रणावस्थासु स्तनं निर्दुहीत।
दन्तादिविद्रधीनामपि यथास्वमेव वक्ष्यते लक्षणं साधनं च॥
॥इति विद्रधिचिकित्सा॥

श्लोक 12

वृद्धौ तु मारुतजे त्रिवृता स्निग्धमातुरं स्विन्नं च मिश्रकसुकुमारकतिल्वकैरण्डकोशाम्रफलस्नेहानामन्यतमेन विरेचयेत्।
ततोऽनिलघ्नक्वाथकल्कैर्निरूहयेत् निरूढं च मांसरसेनाशितं यष्टीमधुकतैलेनानुवासयेत्।
स्वेदप्रलेपोपनाहांश्च प्रयुञ्जीत।
पक्वं च भित्वा व्रणमिव चिकित्सेत्॥

श्लोक 13

पित्तवृद्धिं पित्तशोफवत्।
पक्वं च पित्तव्रणवत्॥

श्लोक 14

कफवृद्धिमपि कफशोफवत्।
पिबेच्च पीतदारुकषायं मूत्रेण।
कफग्रन्थिवच्च सर्वं विम्लापनवर्ज्यमाचरेत्।
पक्वं च पाटितं श्लेष्मव्रणवत्।
रक्तजं पित्तवृद्धिवत्।
प्रततं चात्र रक्तमपहरेत्॥

श्लोक 15

मेदोवृद्धिं गवादिकरीषतुषकिण्वसुरसादिभिरुष्णरूक्षैर्मूत्रयुक्तैः स्वेदयित्वा पुनस्तद्विधैरेव सुखोष्णैः सोत्सेधं लेपयेत्।
तद्वच्छिरोविरेकद्रव्यैर्वा।
स्विन्नं चैवं फलसेवनीं परिहरन् वृद्धिपत्रेण विदार्यापनीयमेदः कासीससैन्धवमाक्षिकैः प्रतिसार्य सीव्येत्।
ततः सुमनोग्रन्थिमनःशिलैलाभल्लातकैस्तैलमभ्यङ्गार्थं कुर्यात्।
आव्रणसन्धानाच्च स्नेहस्वेदौ॥

श्लोक 16

मूत्रवृद्धिं स्निग्धैः स्वेदयित्वा वस्त्रपट्टेन वेष्टयेत्।
ततोऽधस्तात् सेवन्या दकोदरवद्व्रीहिमुखेन भित्वा नाड्या स्रावयेत्।
ततः स्थगिकाबन्धं कुर्यात्।
व्रणे च शोधनरोपणानि॥

श्लोक 17

आन्त्रवृद्धिं फलकोशमसंप्राप्तं वातवृद्धिवदुपचरेत्।
पुनर्नवशतपलं दशपलानि च पृथक् दशमूलपयस्याश्वगन्धाशतावर्येरण्डमूलान्यपां वहेऽष्टांशावशेषं साधयेत्।
पूतशीते च तस्मिन् निर्यूहे त्रिंशद्गुडपलान्येरण्डतैलप्रस्थं घृतद्विप्रस्थं क्षीरद्विप्रस्थं कल्कीकृतानि च द्विपलिकानि द्राक्षानागरपिप्पलीपिप्पलीमूलयवानीयवक्षारचित्रकमधुकसैन्धवान्यावाप्यैकध्यं विपचेत्।
एतत् सर्वयन्त्रणास्वपरिक्लेशेन मुकुमाराख्यं सुकुमाराणामीश्वराणां नारीणां क्षीणरेतसामप्रजानामल्पाग्नीनां विषमाग्नीनां च कामतोन्नपाने वा प्रयुक्तमलक्ष्मीघ्नं कान्तिकरं बल्यं बृंहणं वयस्थापनं वर्ध्मविद्रधिप्लीहगुल्मोदावर्तशोफोदरार्शोमेढ्रयोनिरोगेषु महावातव्याधिषु च परममौषधम्।
गन्धर्वहस्तमूलतुलां यवाढकं नागरार्धकुडवं च सलिलद्रोणे पादशेषं विपचेत्।
तेन द्विगुणक्षीरेणैरण्डतैलप्रस्थं साधयेत्।
कल्कपिष्टं चात्र दद्यात् पुनर्गन्धर्वहस्तमूलकुडवं शुण्ठीपलं च।
एतत् गन्धर्वहस्ततैलं तुल्यं पूर्वेण।
भवति चात्र॥

श्लोक 18

यायाद्वर्ध्म न चेच्छातिं स्नेहरेकानुवासनैः।
बस्तिकर्म पुरः कृत्वा वङ्क्षणस्थं ततो दहेत्।
अग्निना मार्गरोधार्थं मरुतोऽर्धेन्दुवक्रया॥

श्लोक 19

अङ्गुष्ठस्योपरि स्नाव पीतं तन्तुसमं च यत्।
उत्क्षिप्य सूच्या तत्तिर्यक् दहेच्छित्वा यतो गदः॥

श्लोक 20

ततोऽन्यपार्श्वेऽन्ये त्वाहुर्दहेद्वानामिकाङ्गुलेः॥

श्लोक 21

गुल्मेऽन्यैर्वातकफजे प्लीह्नि चायं विधिः स्मृतः।
कनिष्ठिकानामिकयोर्विश्वभ्यां तु यतो गदः॥