श्लोक 1
अथातो मूत्राघातचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
वातान्मूत्रकृच्छ्रे वातहरतैलाभ्यक्तगात्रस्याधोनाभेः सर्वमङ्गं पिण्डेन सेकावगाहैश्च वातघ्नैः कुम्भीस्वेदेन च स्वेदयेत्॥
श्लोक 3
दशमूलबलैरण्डमूलपुनर्नवाशतावरीवृश्चीवपत्तूरपाषाणभेदककोलकुलत्थयवक्वाथेन तत्कल्केन च तैलं सर्पिः सूरकर्क्षवसालवणपञ्चकोपेतं सिद्धं पानाय दद्यात्।
एतान्येव चौषधान्यन्नपाने पिण्डोपनाहस्वेदयोश्च तैलफलस्नेहाम्लयुक्तानि कल्पयेत्।
प्रसन्नां च सौवर्चलाढ्यां पिबेत्॥
श्लोक 4
पित्तजे शीतसेकावगाहप्रदेहान् प्रयुञ्जीत।
तृणपञ्चमूलश्वदंष्ट्राभीरुविदारीकशेरुकक्वाथं शीतं समधु शर्करं पिबेत्।
तद्वच्च काण्डेक्षुरकमूलम्।
कमलोत्पलविदारीशृङ्गाटकानि।
द्राक्षारसेन वा त्रपुसकुसुम्भोर्वारुबीजवृषककुङ्कुमकल्कं सर्वमूत्राघातघ्नम्।
मधुकदार्व्युर्वारुबीजानि वा तण्डुलधावनेन।
समाक्षिकां वा दार्वीमामलकरसेन।
मृद्वीकाकल्कं वा पर्युषिताम्भसा॥
श्लोक 5
कफजे यथास्वं स्वेदो वमनं कटुतीक्ष्णोष्णक्षारमन्नपानं यवान्नं तक्रं च।
पिबेच्च मद्येन सूक्ष्मैलामामलकरसेन वा मधुयुतां वा कदलीरसेन कैडर्यकरसेन वा शितिवारकबीजं वा तक्रेण।
प्रवालचूर्णं वा तण्डुलाम्बुना।
धवकुटजकरञ्जामृताकेबुकैलारग्वधसप्तच्छदक्वाथं वा शीतं सक्षौद्रम्।
तत्सिद्धां वा यवागूम्।
कण्टकारिकास्वरसं वा समाक्षिकम्।
व्योषैलागोक्षुरकसारसास्थीनि वा मधुमूत्रयुक्तानि।
पाटलीक्षारं वा बहुकृत्वः परिस्रुतं तैलयुक्तम्।
तिलपाटलीपारिभद्रयावशूकक्षारोदकानुविद्धां वा त्वगेलोषकचूर्णयुक्तां प्रसन्नाम्।
तिलादीनां वा पृथक् क्षारं गुडोपदंशमश्नीयात्।
तीक्ष्णोष्णद्रव्यसिद्धं च तैलं पानाभ्यङ्गार्थे॥
श्लोक 6
सन्निपातात्मके वातादीनां स्थानानुपूर्व्या यथासन्नं प्रतिकुर्वीत।
यथोल्बणं वा सर्वेषु समस्थितेषु वा समसितं यवक्षारं भक्षयेत्।
अपि च॥
श्लोक 7
एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तण्डुलजलालुलितानि पित्वा।
तद्वद्गुडेन सहितान्युपयुज्य मासमासन्नमृत्युरपि जीवति मूत्रकृच्छ्री॥
श्लोक 8
एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुपूगैः।
क्वाथं पिबेच्छर्करयावगाढं कृच्छ्रे सदाहे सरुजे बिबन्धे॥
श्लोक 9
हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम्।
क्वाथं पिबेदश्मजतुप्रधानं सर्शकरे साश्मरिमूत्रकृच्छ्रे॥
श्लोक 10
अश्मर्यामचिरोत्थितायां वातबस्त्यादिषु च यथादोषमिदमेवाचरेत्॥
श्लोक 11
पाषाणभेदकवसुकवसिराश्मन्तकशतावरीश्वदंष्ट्राबृहतीद्वयकपोतवङ्काबलातिबलाकच्छुरोशीरगुन्धुवृक्षादनीभल्लूकवरणयवकोलकुलत्थशाकफलकतकफलक्वाथे सर्पिरूषकादिप्रतीवापं विपाच्य पीतमाशु वाताश्मरीं भिनत्ति।
एभिरेव च द्रव्यैः कषायक्षारान्नपानानि कल्पयेत्॥
श्लोक 12
सिंहीव्याघ्नीगोक्षुरकेक्षुरकोरुबूकमूलकल्कोऽमधुरेण दध्ना पीतः सप्गाहादश्मरीं भिनत्ति।
शिग्रुमूलकल्केन दधिलवणयमकसिद्धो यूषः॥
श्लोक 13
वीरतरादिगुन्द्रेत्कटपत्तूरवाराहीपाठापाटलीशिरीषशालिमूलविदारीद्विपुनर्नवक्वाथे त्रपुसकुसुम्भैर्वारुकर्करुबीजमधुकशिलाजतुप्रतीवापं सर्पिर्विपाच्य पीतमाशु पित्ताश्मरीं भिनत्ति।
पूर्ववच्च कषायादीनेभिः कल्पयेत्॥
श्लोक 14
वरणादिभद्रदार्वादिगुग्गुल्वेलाद्वयकुष्ठमरिचचित्रकमुस्तासुरसाह्वयैः कल्कीकृतैः साधितमूषकादिप्रतीवापं सर्पिः श्लेष्माश्मरीं भिनत्ति।
इति समानं पूर्वेण॥
श्लोक 15
मस्तुना बहुशः पाटलीभस्म गालयित्वा भस्म विसर्जयेत्।
ततस्तन्मस्तु गृहीत्वा कुलत्थैः सह क्वाथयेत्।
तं क्वाथं गोक्षुरकमूलैलात्रपुसकुरण्टकबीजपाषाणभेदकचूर्णं क्षौद्रेण लीढ्वानुपिबेत्।
तथा शीघ्रमेवाश्मरी भिद्यते च्यवते च॥
श्लोक 16
अश्मरीभेषजानां घृताक्तानामन्तर्धूमं दग्धानां क्षारं ग्राम्यपशुशकृत्क्षारं च गोमूत्रेण बहुकृत्वो गालयित्वा तमच्छमग्नौ साधयेत्।
घनीभवति च तस्मिंस्त्र्यूषणोषकादिचूर्णं दद्याद्दर्वीप्रलेपं चावतारयेत्।
एष क्षीराशिनः क्षारावलेहोऽश्मरीं भिनत्ति पातयति च शर्कराम्॥
श्लोक 17
तिलकदलीयवापामार्गपलाशक्षारोऽविमूत्रेण पीतः समानः पूर्वेण।
केतकपत्रक्वाथेन हिङ्गुक्रौञ्चास्थिक्षारयुक्तः पाटलीकरवीरक्षारश्च।
क्रौञ्चोष्ट्रगर्दभास्थिश्वदंष्ट्राकदम्बमूलतालपत्रिकाजमोदनागरचूर्णश्च सुरामण्डोष्णोदकान्यतरप्रयुक्तः॥
श्लोक 18
पिचुकाङ्कोलशाककतकेन्दीवरफलक्वाथश्च सुखोष्णो गुडयुक्तः।
नृत्यकुण्डकबीजचूर्णश्च समाक्षिकोऽविक्षीरयुक्तः॥
श्लोक 19
कपोतवङ्कामूलं च सुरया।
तत्सिद्धं वा पयोऽश्मरीवेदनार्तः पिबेत्।
सिद्धं वाभयास्थिभिः पुनर्नवेन वा॥
श्लोक 20
शेषेष्वेवं मूत्राघातेष्वत एव चिकित्सां विभजेत्॥
श्लोक 21
द्रस्वपञ्चमूलेन द्विगुणत्रिकण्टकेन साधितं तोयं पयो वा केवलं घृतमिश्रं वा पिबेत् सर्वमूत्राघातघ्नम्॥
श्लोक 22
गोक्षुरककण्टकारिकाकृतां वा सफाणितां यवागूम्।
ताम्रचूडरससिद्धां वा।
वीरतरादिक्वाथेन वा।
तेन वा तद्भावितं शिलाजतु।
वाजिरासभान्यतरशकृद्रसं वा।
दुरालभास्वरसं वा।
ककुभकषायं वा।
मूर्वाभयामुस्तदेवदारुमधुककल्कं वा।
वारुणीक्षीरोष्णोदकान्यतमेन।
त्रिफलाकल्कं वा ससैन्धवं सुखाम्भसा।
केवलमेव वा बिभीतक बीजं सुरया।
विहगपिशितोपदंशं वा निगदमदिरामण्डं मार्द्वीकमासवान् वा विविधान् पिबेत्।
पीतमद्यश्च शीघ्रवेगेन वाजिना रथेन वा यायात्।
एवमश्मरी शर्करा चप्रच्यवते।
सर्वेषु च मूत्राघातेषु विशेषतोऽश्मरीशर्करासु वीरतरादिः सर्वथा प्रयोज्यः।
तिल्वकघृतं च विरेकार्थम्।
बस्तिकर्म चाभीक्ष्णं विशेषेणोत्तरबस्तिः॥
श्लोक 23
तत्र श्यामादिरर्धार्धविहितो गोमूत्रसिद्धो निरूहः।
बिल्वादिमूलैश्च सुरासौवीरकादिसिद्धैस्तृणपञ्चमूलश्वदंष्ट्राशृतक्षीरवांश्च त्रपुसैर्वारुकशताह्वाबीजकर्षभकयवानीकल्कितः।
पीतदारुसिद्धं तैलमनुवासनम्॥
श्लोक 24
शतावरीगोक्षुरकबृहतीद्वयपुनर्नवोशीरमधुकद्विसारिवाश्रेयसीलोध्रतृणपञ्चमूलकषाये क्षीरचतुर्गुणं बलावृक्षकखराह्वोपकुञ्चिकावत्सकत्रपुसोर्वारुबीजशितिवारकमधुकषड्ग्रन्थाशताह्वाश्मभेदमदनहपुषाकल्कगर्भं तैलमुत्तरबस्तिः।
तद्विशुद्धस्रोतसा च पुनः शुक्राश्मर्यां शुक्राशयशोधनार्थं बलत्थेन पुंसा वृष्याण मांसानां कुक्कुटमांसस्य च तृप्तेनानुकूलाः प्रकर्षेण प्रियाः प्रमदा यथाकालमासेव्या इति॥
श्लोक 25
क्रियाभिराभिः सिद्धाभिर्नचेच्छान्तिस्ततो भिषक्।
इति राजानमापृच्छ्य शस्त्रं साध्ववचारयेत्॥
श्लोक 26
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्।
निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः॥
श्लोक 27
अथातुरमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्त स्विन्नशरीरमभुक्तवन्तं कृतमङ्गलस्वस्तिवाचनमुपकल्पितसम्भारमाश्वास्य ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपवेश्य पुरुषं तस्योत्सङ्गे सुनिषष्णपूर्वकायमुत्तानं वस्त्रचुंबलोपविष्टं सङ्कुचितजानुकूर्परमितरेण पुंसा सहबद्धं सूत्रैः शाटकेन वा ततोऽस्यस्वभ्यक्तं नाभिप्रदेशं वामपार्श्वे विमृद्य मुष्टिनावपीडयेत्।
अधोनाभेर्यावदश्मर्यधः प्रतिपन्ना ततस्तैलाभ्यक्ते कृत्तनखे वामहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसेवन्यासाद्य च प्रयत्नबलाभ्यामश्मरीं मेढ्रगुदयोरन्तरमानीय निर्वलीकमनायतमविषमं च बस्तिं सन्निवेश्य भृशमुत्पीडयेदङ्गुलीभ्यां यावत् ग्रन्थिरिवोन्नतं शल्यं भवति।
ततः सेवन्याः सव्ये पार्श्वे सेवनीं यवमात्रं मुक्त्वा निदध्याच्छस्त्रमश्मरीप्रमाणेन।
दक्षिणतो वा क्रियासौकर्यहेतोरित्येके।
यथा न विभिद्यते विचूर्ण्यते वा तथा प्रयतेत।
तच्चूर्णमल्पमप्यवस्थितं पुनः परिवृद्धिमेति।
तस्मात् समग्रामग्रवक्रेणाददीत॥
श्लोक 28
स्त्रीणां तु बस्तिः पार्श्वगतो गर्भाशयसन्निकृष्टः।
तस्मात्तासामुत्सङ्गवदधः शस्त्रं पातयेत्।
अतोऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवति पुरुषस्य च मूत्रप्रसेकक्षणनात्।
अश्मरीनिमित्तमेकतो भिन्नो बस्तिः सिध्यति।
क्रियाभ्यासाच्छास्त्रविहितच्छेदादीनष्पन्दपरिवृद्धत्वाच्च शल्यस्येति।
न तु द्विधा भिन्नबस्तिरश्मरीमानमपि॥
श्लोक 29
उद्धृतशल्यं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत्।
तथा बस्तिरसृजा नापूर्यते।
पूर्णे तु क्षीरिवृक्षकषायं पुष्पनेत्रेण विदध्यात्।
स हि तथा बस्तिगतमश्मरीचूर्णं रक्तं च निर्हरति।
मूत्रविशुद्ध्यर्थं च गुडसौहित्यं कारयेत्॥
श्लोक 30
उत्थाप्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां यवागूं सघृतां पाययेदुभयकालं त्रिरात्रम्।
त्रिरात्रादूर्ध्वं गुडप्रगाडेन पयसा मृदुमोदनमल्पं भोजयेदादशरात्रात्।
अत ऊर्ध्वं फलाम्लैर्जाङ्गलरसैः।
व्रणं च क्षीरिवृक्षकषायेण प्रक्षाल्य लोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्केन लेपयेत्।
द्वादशरात्रं चैनमप्रमत्तः स्वेदयेत्।
एतेष्वेव च हरिद्रादियुक्तेषु तैलं विपक्वं व्रणाभ्यञ्जनम्।
सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे यथोक्तमग्निना व्रणं दहेत्।
स्वमार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैर्मधुरप्रायैरुपाचरेत्॥
श्लोक 31
यदृच्छया मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसापहरेत्।
विदार्य वा नाडिं बडिशेनोद्धरेत्।
रूढव्रणश्च वर्षमङ्गनाश्च नगनागरथद्रुमात् नारोहेत्।
नाप्सु प्लवेत भुञ्जीत वा गुरूणि॥
श्लोक 32
कर्मणि तु मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तयोऽष्टौ परिहर्तव्याः।
तत्र मूत्रवहच्छेदात् मूत्रपूर्णबस्तेर्मरणम्।
शुक्रवहच्छेदान्मरणं क्लैब्यं वा।
मुष्कस्रोतसोरुपघातात् ध्वजभङ्गः।
मूत्रप्रसेकच्छेदान्मूत्रस्रवणम्।
सेवनीयोनिच्छेदनाद्रुजाप्रादुर्भावः।
गुदबस्तिविद्धस्य सद्योमरणमुक्तं प्रागिति॥
श्लोक 33
भवति चात्र।
मर्माण्यमून्यविज्ञाय स्रोतोजानि शरीरिणाम्।
शस्त्रपाणिर्ध्रुवं हन्ति साहसात् केवलो यथा इति॥
॥इति त्र्योदशोऽध्यायः॥