श्लोक 1
अथातो मदात्ययचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
यं दोषमधिकं पश्येत्तस्यादौ प्रतिकारयेत्।
कफस्थानानुपूर्व्या वा तुल्यदोषे मदात्यये।
पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः॥
श्लोक 3
हीनमिथ्यातिपीतेन यो व्याधिरुपजायते।
समपीतेन तेनैव स मद्येनोपशाम्यति॥
श्लोक 4
मद्यस्य विषसादृश्याद्विषं तूत्कर्षवृत्तिभिः।
तीक्ष्णादिभिर्गुणैर्योगाद्विषान्तरमपेक्षते॥
श्लोक 5
तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना।
मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः॥
श्लोक 6
यान् कुर्यान्मदतृण्मोहज्वरान्तर्दाहविभ्रमान्।
मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतस्सु मारुतः॥
श्लोक 7
सुतीव्रा देवना याश्च शिरस्यस्थिषु सन्धिषु।
जीर्णाममद्यदोषस्य प्रकाङ्क्षालाघवे सति।
यौगिकं विधिवद्युकं मद्यमेव निहन्ति तान्॥
श्लोक 8
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः।
मद्यमम्लेषु च श्रेष्ठं दोषविष्यन्दनादलम्॥
श्लोक 9
तीक्ष्णोष्णाद्यैः पुराप्रोक्तैर्दीपनाद्यैस्तथागुणैः।
सात्म्यत्वाच्च तदेवास्य धातुसाम्यकरं परम्॥
श्लोक 10
सप्ताहमष्टरात्रं वा कुर्यात् पानात्ययौषधम्।
जीर्यत्येतावता पानं कालेन विपथाश्रितम्॥
श्लोक 11
परं ततोऽनुबध्नाति यो रोगस्तस्य भेषजम्।
यथायथं प्रयुञ्जीत कृतपानात्ययौषधम्॥
श्लोक 12
तत्र वातोल्बणे मद्यं दद्यात् पिष्टकृतं युतम्।
बीजपूरकवृक्षाम्लकोलदाडिमदीप्यकैः॥
श्लोक 13
यवानीहपुषाजाजीव्योषत्रिलवणार्द्रकैः।
शूल्यैर्मांसैर्हरितकैः स्नेहवद्भिश्च सक्तुभिः॥
श्लोक 14
उष्णस्निग्धाम्ललवणा मेद्यमांसरसा हिताः।
आम्राम्रातकपेशीभिः संस्कृता रागषाडवाः॥
श्लोक 15
गोधूममाषविकृतीर्मृदुचित्रा मुखप्रियाः।
आर्दिकार्द्रककुल्माषशुक्तमांसादिगर्भिणीः॥
श्लोक 16
सुरभिर्लवणा शीता निगदा वाच्छवारुणी।
स्वरसो दाडिमात् क्वाथः पञ्चमूलात् कनीयसः॥
श्लोक 17
शुण्ठीधान्यात्तथा मस्तु शुक्ताम्भोच्छाम्लकाञ्जिकम्।
अभ्यङ्गोद्वर्तनस्नानमुष्णं प्रावरणं घनम्॥
श्लोक 18
घनश्चागरुजो धूपः पङ्कश्चागरुकुङ्कुमात्।
कुचोरुश्रोणिशालिन्यो यौवनोष्णाङ्गयष्टयः।
हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च॥
श्लोक 19
पित्तोल्बणे बहुजलं शार्करं मधु वा युतम्।
रसैर्दाडिमखर्जूरभव्यद्राक्षापरूषजैः॥
श्लोक 20
सुशीतं ससितासक्तु योज्यं तादृक् च पानकम्।
स्वादुवर्गकसायैर्वा युक्तं मद्यं समाक्षिकम्॥
श्लोक 21
शालिषष्टिकमश्नीयाच्छशाजैणकपिञ्जलैः।
सतीनमुद्गामलकपटोलीदाडिमैरपि॥
श्लोक 22
कफपित्तं समुत्क्लिष्टमुल्लिखेत्तृड्विदाहवान्।
पीत्वाम्बु शीतं मद्यं वा भूरीक्षुरससंयुतम्॥
श्लोक 23
द्राक्षारसं वा संसर्गी तर्पणादिः परं हिताम्।
तथाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः॥
श्लोक 24
कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च।
तृष्णायां सविदाहायां सोत्क्लेशे हृदयोरसि॥
श्लोक 25
गुडूचीभद्रमुस्तानां पटोलस्याथवा रसम्।
सनागरं योजयेत तित्तिरिप्रतिभोजनम्॥
श्लोक 26
तृष्यते चातिबलवद्वातपित्ते समुद्धते।
दद्याद्द्राक्षारसं पानं शीतं दोषानुलोमनम्॥
श्लोक 27
जीर्णेऽद्यान्मधुराम्लेन छागमांसरसेन च।
तृष्यल्पशः पिबेन्मद्यं मदं रक्षन् बहूदकम्॥
श्लोक 28
मुस्तदाडिमलाजाम्बु जलं वा पर्णिनीशृतम्।
पाटल्युत्पलकन्दैर्वा स्वभावादेव वा हिमम्॥
श्लोक 29
मद्यातिपानादब्धातौ क्षीणे तेजसि चोद्धते।
यः शुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते॥
श्लोक 30
पाययेत् कामतोऽम्भस्तं निशीथपवनाहतम्।
कोलदाडिमवृक्षाम्लचुक्रीकाचुत्रिकारसः।
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति॥
श्लोक 31
त्वचं प्राप्तश्च पानोष्मा पित्तरक्ताभिमूर्छितः।
दाहं प्रकुरुते घोरं विह्वलो येन मुह्यति॥
श्लोक 32
तृष्णादाहपरीतस्य तस्य दाहज्वरापहम्।
विधिं यथोक्तं युञ्जीत बाह्यान्तः परिमार्जनम्॥
श्लोक 33
प्रभातमारुतोद्धूताः प्रालेयजलवर्षिणः।
स्मर्यमाणा अपि घ्नन्ति दाहं मलयपादपाः॥
श्लोक 34
मुक्ताकलापाः शशिरश्मिशुभ्रा मृणालपद्मोत्पलपत्ररम्याः।
सेकावगाहाः सजला जलार्द्रा वाताः सुशीता मणयो महार्हाः॥
श्लोक 35
अलिञ्जराः पद्मपुटापिधानाः प्रवालवर्णा हिमवारिपूर्णाः।
परिस्रवन्तो दृतयो महान्तः पुत्राः प्रिया दर्पणमण्डलानि॥
श्लोक 36
नार्यश्च नेत्रोत्पलकर्णपूरा मध्यं वयः किञ्चिदिव स्पृशन्त्यः।
मनोऽनुकूला हरिचन्दनार्द्रास्तृड्दाहमूर्च्छादवथून् जयन्ति॥
श्लोक 37
करेणुकाभिः परिवारितेन विक्षोभणं वारणयूथपेन।
आस्फालनं शीकरवर्षणं च सिन्धोः स्मरन् दाहतृषोरगम्यः॥
श्लोक 38
सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम्।
मनोरमान्यापि कथाप्रवृत्ता दाहं च तृष्णां च निहन्ति सद्यः॥
श्लोक 39
लाजोत्पलोशीरकुचन्दनाम्बु शीताभिधानं मधुशर्कराढ्यम्।
मद्योद्भवां पित्तकृतां च तृष्णां सदाहशोषां विनिहन्ति पीतम्॥
श्लोक 40
प्रियङ्गुपत्रप्लवलोध्रसेव्यद्द्रीबेरकालेयकनागपुष्पैः।
शीताम्बुपिष्टैर्नवकर्परस्थैस्तृड्दाहहा सर्वशरीरलेपः॥
श्लोक 41
अशाम्यत्यथवा दाहे रसैस्तृप्तस्य जाङ्गलैः।
शाखाश्रयां यथान्यायं रोहिणीं व्यधयेत्सिराम्॥
श्लोक 42
जल्लेखनोपवासाभ्यां विजयेत कफोल्बणं।
तृषितोऽम्बु पिबेत् सिद्धं मुस्तया पर्पटेन वा॥
श्लोक 43
स्थिराशुण्ठीबलोदीच्यदुस्पर्शान्यतमेन वा।
सिद्धमेतच्च सर्वेषु पानदोषेषु शस्यते॥
श्लोक 44
निरामं क्षुधितं काले पाययेत् बहुमाक्षिकम्।
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा।
रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम्॥
श्लोक 45
यूषेण यवगोधूमं तनुनाल्पेन भोजयेत्।
उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा॥
श्लोक 46
शुष्कमूलकजैश्छागै रसैर्वा धन्वचारिणाम्।
साम्लवेतसवृक्षाम्लपटोलीव्योषदाडिमैः॥
श्लोक 47
प्रभूतशुण्ठीमरिचहरितार्द्रकपेशिकम्।
बीजपूररसाद्यम्लं भृष्टं नीरसवर्तितम्॥
श्लोक 48
करीरकरमर्दादिरोचिष्णुबहुसालनम्।
प्रव्यक्ताष्टाङ्गलवणं विकल्पितनिमर्दकम्।
यथाग्नि भक्षयन्मांसं माधवं निगदं पिबेत्॥
श्लोक 49
सितासौवर्चलाजाजीतिन्तिणीकाम्लवेतसम्।
त्वगेलामरिचार्धांशमष्टाङ्गलवणं हितम्।
स्रोतोविशुध्यग्निकरं कफप्राये मदात्यये॥
श्लोक 50
कटुस्कन्धयुतां श्वेतां मृद्वीकां निष्कुलीकृताम्।
रसेन मातुलुङ्गस्य कलकयेद्दाडिमस्य वा।
तया क्षौद्रयुतो रागाः कृतो रोचनदीपनः॥
श्लोक 51
सौवर्चलैलामरिचदीप्यकाजाजि चोचवत्।
कार्व्याः कल्पयेदेवं शूक्तं मत्स्यण्डिकान्वितम्॥
श्लोक 52
धान्यसौवर्चलाजाजीकारवीमरिचान्वितान्।
सगुडान् मधुयुक्तेन व्यक्ताम्लान् मरिचोत्कटान्॥
श्लोक 53
रूक्षोष्णोद्वर्तनोद्घर्षस्नानभोजनलङ्घनैः।
सकामाभिः सह स्त्रीभिर्युक्त्या जागरणेन च।
मदात्ययः कफप्रायः शीघ्रं समुपशाम्यति॥
श्लोक 54
यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति।
सन्निपाते दशविधे तच्छेषेऽपि विकल्पयेत्॥
श्लोक 55
त्वन्नागपुष्पमगधामरिचाजाजिधान्यकैः।
परूषकमधूकैलासुराह्वैश्च सितान्वितैः॥
श्लोक 56
सकपित्थरसं हृद्यं पानकं शशिबोधितम्।
मदात्ययेषु सर्वेषु पेयं रुच्यग्निदीपनम्॥
श्लोक 57
तद्वद्दाडिममृद्वीकाकणाकाश्मर्यदारुभिः।
सबीजपूरकरसैर्बिडसौवर्चलान्वितम्॥
श्लोक 58
फलैर्वा विविधैरम्लैः सत्रिवृच्चूर्णशर्करम्।
कच्छुदाराङ्कुरद्राक्षावर्षाभूजीरकद्वयम्॥
श्लोक 59
मधूकयष्टीत्वक्कृष्णाकेसरं श्लक्ष्णचूर्णितम्।
पिबेदालोड्य दुग्धेन सूक्ष्मतान्तवगालितम्॥
श्लोक 60
नाक्षोभ्य हि मनो मद्यं शरीरमविहन्य वा।
कुर्यान्मदात्ययं तस्मादिष्यते हर्षणी क्रिया॥
श्लोक 61
सेव्याः सर्वेन्द्रियसुखा धर्मकल्पद्रुमाङ्कुराः।
विषयातिशयाः पञ्च शराः कुसुमधन्वनः॥
श्लोक 62
संशुद्धिशमनाद्येषु मददोषः कृतेष्वपि।
न चेच्छाम्येत् कफे क्षीणे जाते दौर्बल्यलाघवे॥
श्लोक 63
तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च।
ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः॥
श्लोक 64
मद्यक्षीणस्य हि क्षीरं क्षीणमाश्वेव पुष्यति।
ओजस्तुल्यं गुणैः सर्वैर्विपरीतं च मद्यतः॥