अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 6

श्लोक 1

अथातः श्वासहिध्माचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

श्वासहिध्मा यतस्तुल्यहेत्वाद्याः साधनं ततः।
तुल्यमेव तदार्तं च पूर्वं स्वेदैरुपाचरेत्॥

श्लोक 3

स्निग्धैर्लवणतैलाक्तं स्रोतस्सु ग्रथितः कफः।
तैर्लीनोऽपि विलीनोस्य कोष्ठं प्राप्तः सुनिर्हरः॥

श्लोक 4

भवेत् खेषु मृदुत्वं च मारुते चानुलोमता।
स्विन्नं च भोजयेदन्नं स्निग्धमानूपजै रसैः॥

श्लोक 5

दध्युत्तरेण वा दद्यात्ततोऽस्मै वमनं मृदु।
विशेषात् कासवमथुहृद्ग्रहस्वरसादिने॥

श्लोक 6

पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि यत्।
निर्हृते सुखमाप्रोति सकफे दुष्टविग्रहे॥

श्लोक 7

स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः।
ध्मानोदावर्ततमके मातुलुङ्गाम्लवेतसैः॥

श्लोक 8

हिङ्गुपीलुबिडयुक्तमन्नं स्यादनुलोमनम्। ससैधवं फलाम्लं वा कोष्णं दद्याद्विरेचनम्॥

श्लोक 9

एते हि कफसंरुद्धगतिप्राणप्रकोपजाः।
तस्मात्तन्मार्गशुध्यर्थमूर्ध्वाधः शोधनं हितम्॥

श्लोक 10

उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्।
यथा तथानिलस्तस्य मार्गमस्माद्विशोधयेत्॥

श्लोक 11

अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत्।
हरिद्रापत्रमेरण्मूलं लाक्षां मनःशिलाम्॥

श्लोक 12

सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्।
तां घृताक्तां पिबेद्धूमं यवान् वा घृतसंयुतान्॥

श्लोक 13

मधूच्छिष्टं सर्जरसं घृतं वा गुरुवागुरु।
चन्दनंवाजशृङ्गं वा बालान्वा स्नाव वा गवाम्॥

श्लोक 14

ऋष्यगोधकुरङ्गैणचर्मशृङ्गखुराणि वा।
गुग्गुलुं वा मनोह्वां वा सालनिर्यासमेव वा॥

श्लोक 15

सल्लकीं गुग्गुलुं लोहं पद्मकं च घृताप्लुतम्॥

श्लोक 16

अवश्यं स्वेदनीयानामस्वेद्यानामपि क्षणम्।
स्वेदयेत् ससिताक्षीरसुखोष्णस्नेहसेचनैः॥

श्लोक 17

उत्कारिकोपनाहैश्च स्वेदाध्यायोक्तभेषजैः।
उरः कण्ठं च मृदुभिः सामे त्वामविधिं चरेत्॥

श्लोक 18

अतियोगोद्धतं वातं दृष्ट्वा पवननाशनैः।
स्निग्धै रसाद्यैर्नात्युष्णैरभ्यङ्गैश्च शमं नयेत्॥

श्लोक 19

अनुत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात्।
वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्॥

श्लोक 20

कषायलेहस्नेहाद्यैस्तेषां संशमयेदतः।
क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान्॥

श्लोक 21

मधुरस्निग्धशीताद्यैर्हिध्माश्वासानुपाचरेत्।
कुलत्थदशमूलानां क्वाथे स्युर्जाङ्गला रसाः।
यूषाश्च शिग्रुवार्ताककासघ्नवृषमूलकैः॥

श्लोक 22

पल्लवैर्निम्बकुलकबृहतीमातुलुङ्गजैः।
व्याघ्रीदुरालभाशृङ्गीबिल्वमध्यत्रिकण्टकैः॥

श्लोक 23

सामृताग्निकुलत्थैश्च यूषः स्यात् क्वथितैर्जलै।
तद्वद्रास्नाबृहत्यादिबलामुद्गैः सचित्रकैः॥

श्लोक 24

पेया च चित्रकाजाजीशृङ्गीसौवर्चलैर्हिता।
दशमूलेन वा कासश्वासहिध्मारुजापहा॥

श्लोक 25

दशमूलशठीरास्नाभार्ङ्गीबिल्वर्धिपौष्करैः।
कुलीरशृङ्गीचपलातामलक्यमृतौषधैः॥

श्लोक 26

पिबेत् कषायं जीर्णेऽस्मिन् पेयां तैरेवसाधिताम्।
शालिषष्टिकगोधूमयवमुद्गकुलत्थभुक्॥

श्लोक 27

कासहृद्ग्रहपार्श्वार्तिहिध्माश्वासप्रशान्तये।
सक्तून्वार्काङ्कुरक्षीरभावितानां समाक्षिकान्।
यवानां दशमूलादिनिःक्वाथलुलितान् पिबेत्॥

श्लोक 28

अन्ने च योजयेत् क्षारहिङ्वाज्यबिडदाडिमान्।
सपौष्करशठीव्योषमातुलुङ्गाम्लवेतसान्॥

श्लोक 29

दशमूलस्य वा क्वाथमथवा देवदारुणः।
पिबेद्वा वारुणीमण्डं हिध्माश्वासी पिपासितः॥

श्लोक 30

पिप्पलीपिप्पलीमूलपथ्याजन्तुघ्नचित्रकैः।
कल्कितैर्लेपिते रूढे निक्षिपेत् घृतभाजने॥

श्लोक 31

तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित्।
पाठां मधुरसां दारु सरलं च निशि स्थितम्॥

श्लोक 32

सुरामण्डेऽल्पलवणं पिबेत् प्रसृतसम्मितम्।
शिरीषकुन्दकदलीकुसुमं पिप्पलीयुतम्॥

श्लोक 33

तण्डुलाम्बुप्लुतं हिध्माश्वासकासहरं परम्।
आरनालेन पिष्ट्वा वा मातुलुङ्गरसान्वितान्॥

श्लोक 34

हिङ्गुसौवर्चलकणाकोलमुद्गान् जलेन वा।
कोष्णेन भार्ङ्गीं शुण्ठीं च क्षारं वा मरिचान्वितम्॥

श्लोक 35

स्वक्वाथपिष्टां लुलितां बाष्पिकां पाययेत वा।
स्वरसं सप्तपर्णस्य पुष्पाणां वा शिरीषतः॥

श्लोक 36

हिध्वाश्वासे मधुकणायुक्तं पित्तकफानुगे।
उत्कारिका तुगाकृष्णामधूलीगुडनागरैः॥

श्लोक 37

पित्तानुबन्धे योक्तव्या पवने त्वनुबन्धिनि।
श्वाविट्छशामिषकणाघृतशल्यकशोणितैः॥

श्लोक 38

सुवर्चलारसव्योषसर्पिर्भिः सहितं पयः।
अनुशाल्योदनं पेयं वातपित्तेऽनुबन्धिनि॥

श्लोक 39

चतुर्गुणाम्बुसिद्धं वा छागं सगुडनागरम्।
पिप्पलीमूलमधुकगुडगोश्वशकृद्रसान्।
हिध्माभिष्यन्दकासघ्नान् लिह्यान्मधुघृतान्वितान्॥

श्लोक 40

गोगजाश्ववराहोष्ट्रखरमेषाजविड्रसान्॥

श्लोक 41

समध्वैकैकशो लिह्याद्बहुश्लेष्माथवा पिबेत्।
चतुष्पाच्चर्मरोमस्थिखुरशृङ्गोद्भवां मषीम्॥

श्लोक 42

तथैव वाजिगन्धाया लिह्याच्छ्वासी कफोल्बणः।
क्षारं वा त्रिफलापाठाबृहतीफलमूलजम्॥

श्लोक 43

मुक्ताप्रवालवैडूर्यशङ्खसौगन्धिकाञ्जनम्।
मसारगल्लस्फटिककाचैलालवणद्वयम्॥

श्लोक 44

अपामार्गफलं ताम्रमयो रूप्यं शणात् फलम्।
ज्योतीरसेन तल्लिह्यादयो वैकं मधुद्रवम्॥

श्लोक 45

शठीपौष्करधात्रीर्वा पौष्करं वा कणान्वितम्।
गैरिकाञ्जनकृष्णा वा स्वरसं वा कपित्थजम्॥

श्लोक 46

रसेन वा कपित्थस्य धात्रीसैन्धवपिप्पलीः।
घृतक्षौद्रेण वा पथ्या विडङ्गोषणपिप्पलीः॥

श्लोक 47

लिह्याद्वा पिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः।
घृतमाक्षिकतैलैर्वा त्र्यूषणं क्षारसंयुतम्।
पिप्पलीक्षौद्रयुक्तौ वा रसौ धात्रीकपित्थयोः॥

श्लोक 48

सितोपलात्वामलकी द्राक्षा गोश्वशकृद्रसम्।
कोललाजमधुद्राक्षापिप्पलीनागराणि वा॥

श्लोक 49

गुडतैलनिशाद्राक्षाकणारास्नोषणानि वा।
पिबेद्रसाम्बुमद्याद्यैर्लेहौषधरजांसि वा॥

श्लोक 50

जीवन्तीमुस्तसुरसत्वगेलाद्वयपौष्करम्।
चण्डातामलकीलोहभार्ङ्गीनागरवालकम्॥

श्लोक 51

कर्कटाख्याशठीकृष्णानागकेसरचोरकम्।
उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करम्॥

श्लोक 52

पार्श्वरुग्ज्वरकासघ्नं हिध्माश्वासहरं परम्।
जीवन्ती चोरकः शृङ्गी पौष्करं सुरसः शठी॥

श्लोक 53

पिप्पलीत्वग्बिडक्षारशुण्ठीहिङ्वम्लवेतसम्।
एलातामलकीभार्ङ्गीवृक्षाम्लं चेति चूर्णितम्॥

श्लोक 54

रसेन मातुलुङ्गस्य मद्येन हविषाथवा।
लीढं प्रयुक्तमन्ने वा केवलं चोपयोजितम्॥

श्लोक 55

हिध्माश्वासविबन्धार्शःकासहृत्पार्श्वशूलनुत्।
शठीतामलकीभार्ङ्गीचण्डावालकपौष्करम्॥

श्लोक 56

शर्कराष्टगुणं चूर्णं हिध्माश्वासहरं परम्।
तुल्यं गुडं नागरं च भक्षयेन्नावयेत वा॥

श्लोक 57

लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा।
चन्दनाद्वा रसं दद्यान्नारीक्षीरेण नावनम्॥

श्लोक 58

सशर्करां पिप्पली वा मधुकं वा मधुद्रवम्।
स्तन्येन मक्षिकाविष्ठामलक्तकरसेन वा॥

श्लोक 59

ससैन्धवं घृताच्छं वा सिद्धं स्तन्येन वा घृतम्।
कल्कितैर्मधुरद्रव्यैस्तत् पिबेन्नावयेत वा॥

श्लोक 60

सकृदुष्णं सकृच्छीतं व्यत्यासात् ससितं मधु।
तद्वत् पयस्तहासिद्धमधोभागौषधैर्घृतम्॥

श्लोक 61

कणासौवर्चलक्षारवयस्थाहिड्गुचोरकैः।
सकायस्थैर्घृतं मस्तु दशमूलरसे पचेत्॥

श्लोक 62

तत् पिबेज्जीवनीयैर्वा लिह्यात् समधु साधितम्।
तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी॥

श्लोक 63

पूकीकं पौष्करं मूलं पलाशश्चित्रकः शठी।
पटुद्वयं तामलकी जीवन्ती बैल्वपेशिका॥

श्लोक 64

वचापत्रं च तालीसं कर्षांशैस्तैर्विंपाचयेत्।
हिङ्गुपादैर्घृतप्रस्थं पीतमाशु निहन्ति तत्॥

श्लोक 65

श्वासानिलार्शोग्रहणीहिध्माहृत्पार्श्ववेदनाः।
सिद्धं वा पुरमञ्जिष्ठालाक्षासर्जरसैः पिबेत्॥

श्लोक 66

सपद्मकमनोह्वालैर्घृतप्रस्थं पिचून्मितैः।
वत्सकादिप्रतीवापं सिद्धं वा प्रथमे गणे॥

श्लोक 67

सपञ्चलवणं सर्पिः श्वासकासानपोहति।
हिंस्राविडङ्गपूतीकत्रिकटुत्रिफलाग्निकैः॥

श्लोक 68

कोलमात्रैर्घृतप्रस्थं पाचयेत् सलिलाढके।
क्षीरप्रस्थद्वयोपेतं तत् कासश्वासपीनसान्॥

श्लोक 69

अर्शांस्यरोचकं गुल्मं क्षयं हिध्मां च नाशयेत्।
सैन्धवार्धांशयुक्तं वा पुराणं पाययेद्घृतम्।
धान्वन्तरं वृषघृतं दाधिकं त्र्यूषणादि वा॥

श्लोक 70

शीताम्बुसेकः सहसा त्रासविक्षेपभीशुचः।
हर्षेर्ष्योच्छ्वासरोधाश्च हितं कीटैश्च दंशनम्॥

श्लोक 71

यत् किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम्।
तत् सेव्यं प्रायशो यच्च सुतरां मारुतापहम्॥

श्लोक 72

वातकृद्वा कफहरं कफकृद्वानिलापहम्।
कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम्॥

श्लोक 73

सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्।
नात्यर्थं शमनेऽपायो भृशोशक्यश्च कर्शने॥

श्लोक 74

शमनैर्बृंहणैश्चातो भूयिष्ठं तानुपाचरेत्।
कासश्वासक्षयच्छर्दिहिध्माश्चान्योन्यभेषजैः॥
इति षष्ठोऽध्यायः॥