अष्टाङ्गसंग्रहः चिकित्सितस्थानम् 4

श्लोक 1

अथातः कासचिकित्सितं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

केवलानिलजं कासं स्नेहैरादावुपाचरेत्।
वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः॥

श्लोक 3

लेहैर्धूमैस्ततहाभ्यङ्गस्वेदसेकावगाहनैः।
बस्तिभिर्बद्धविड्वातं सपित्तं त्वौर्ध्वभक्तिकैः॥

श्लोक 4

गुडूचीकण्टकारीभ्यां पृथक् त्रिंशत्पलाद्रसे।
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः॥

श्लोक 5

क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः।
द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत्॥

श्लोक 6

दशमूलस्य निर्यूहे पीतं मण्डानुपायिना।
सकासश्वासहृत्पार्श्वग्रहणीरोगगुल्मनुत्॥

श्लोक 7

काश्मर्यत्रिफलाव्योषशठीद्राक्षापरूषकम्।
द्वे पाठे देवदार्वृद्धिस्वगुप्ताग्निकगोक्षुरम्॥

श्लोक 8

व्याघ्नीतामलकीमेदाकाकनासाशतावरीः।
विदारी च घृतप्रस्थः कर्षांशैस्तैर्विपाचितः॥

श्लोक 9

क्षीरेण च जयत्याशु ज्वरकासहलीमकान्।
गुल्मारुचियकृत्प्लीहशिरोहृत्पार्श्ववेदनाः॥

श्लोक 10

कामलार्शोनिलाष्ठीलाक्षतशोफक्षयांश्च सः।
द्रोणेऽपां साधयेद्रास्नादशमूलशतावरीः।
पलोन्मिता द्विकुडवं कुलत्थं बदरं यवम्॥

श्लोक 11

तुलार्धं चाजमांसस्य तेन साध्यं घृताढकम्।
समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत्॥

श्लोक 12

प्रयुक्तं वातरोगेषु पाननावनबस्तिभिः।
पञ्चकासान् शिरःकम्पं योनिवङ्क्षणवेदनाम्।
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलान् जयेत्॥

श्लोक 13

विदार्यादिगणक्वाथकल्कसिद्धं च कासजित्।
अशोकबीजक्षवकजन्तुघ्नाञ्जनपद्मकैः॥

श्लोक 14

सबिडैश्च घृतं सिद्धं तच्चूर्णं वा घृताप्लुतम्।
लिह्यात् पयश्चानुपिबेदाजं कासाभिपीडितः॥

श्लोक 15

विडङ्गं नागरं रास्नां पिप्पली हिङ्गु सैन्धवम्।
भाङ्गर्क्षीरश्च तच्चूर्णं पिबेद्वा घृतमात्रया।
सकफेऽनिलजे कासे श्वासहिध्माहताग्निषु॥

श्लोक 16

दुरालभां शृङ्गवेरं शठीं रास्नां सितोपलाम्।
लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे॥

श्लोक 17

दुस्पर्शां पिप्पलीं मुस्तं भार्ङ्गीं कर्कटकीं शठीम्।
पुराणगुडतैलाभ्यां चूर्णितान्यवलेहयेत्॥

श्लोक 18

तद्वत् सकृष्णां शुण्ठीं च सभार्ङ्गीं तद्वदेव च।
पिबेत् कृष्णां च कोष्णेन सलिलेन ससैन्धवाम्॥

श्लोक 19

मुस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाः।
पिबेत् बदरमज्ञो वा मदिरादधिमस्तुभिः।
अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम्॥

श्लोक 20

कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत्।
हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः॥

श्लोक 21

ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्।
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्॥

श्लोक 22

यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः।
रास्नाजाजीपृथक्पर्णीपलाशशाठिपौष्करैः॥

श्लोक 23

सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत्।
कटीहृत्पार्श्वकोष्ठार्तिश्वासहिध्माप्रणाशिनीम्॥

श्लोक 24

दशमूलरसे तद्वत् पञ्चकोलगुडान्विताम्।
पिबेत् समतिलां पेयां क्षैरेयीं वा ससैन्धवाम्।
मात्स्यकौक्कुटवाराहैर्मांसैर्वा साज्यसैन्धवाम्॥

श्लोक 25

वास्तुको वायसीशाकं कासघ्नः सुनिषण्णकः।
कण्टकार्याः फलं पत्रं बालं शुष्कं च मूलकम्॥

श्लोक 26

स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः।
दधिमस्त्वारनालाम्लफलाम्बुमदिराः पिबेत्॥

श्लोक 27

पित्तकासे तु सकफे वमनं सर्पिषा हितम्।
तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः।
फलयष्ट्याह्वकल्कैर्वा विदारीक्षुरसाप्लुतैः॥

श्लोक 28

पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम्।
युञ्ज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः॥

श्लोक 29

हृतदोषो हिमं स्निग्धं स्वादु संसर्जनं भजेत्।
घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम्॥

श्लोक 30

पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम्।
लाकामृताफलद्राक्षात्वक्क्षीरीपिप्पलीसिताः॥

श्लोक 31

दुस्पर्शाकर्कटीशुण्ठीशठीद्राक्षासिताबलाः।
निदिग्धिकामूलफलं वटबीजं रसाञ्जनम्॥

श्लोक 32

खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते।
घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम्।
पयोऽनुपानां शृङ्गीं वा लिह्यात्साज्यसितामधु॥

श्लोक 33

लेहः पैत्ते सिताधात्रीक्षौद्रद्राक्षाहिमोत्पलैः।
सकफे साब्दमरिचः सघृतः सानिले हितः॥

श्लोक 34

मृद्वीकार्धशतं त्रिंशत् पिप्पलीः शर्करापलम्।
लेहयेन्मधुना गोर्वा क्षीरपस्य शकृद्रसम्॥

श्लोक 35

त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः।
लाजमुस्तशठीरास्नाधात्रीफलबिभीतकैः।
शर्कराक्षौद्रसर्पिर्भिर्लेहो हृद्रोगकासहा॥

श्लोक 36

पिप्पल्यामलकद्राक्षालाजलाक्षासितोपलाः।
सञ्चूर्ण्य पक्त्वा पयसा लिह्यात् क्षौद्राष्टभागिकाः॥

श्लोक 37

विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम्।
पिबेत् क्षौद्रेण संयोज्य पित्तकासमपोहति॥

श्लोक 38

मधुरैर्जाङ्गलरसैर्यवश्यामाककोद्रवाः।
मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः॥

श्लोक 39

घनश्लेष्मणि लेहाश्च तिक्तका मधुसंयुताः।
शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः।
शर्कराम्भोऽनुपानार्थं द्राक्षेक्षुस्वरसः पयः॥

श्लोक 40

काकोलीबृहतीमेदाद्वयैः सवृषनागरैः।
पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत्॥

श्लोक 41

द्राक्षां कणां पञ्चमूलं तृणाख्यं च पचेज्जले।
तेन क्षीरं शृतं शीतं पिबेत् समधुशर्करम्॥

श्लोक 42

साधितां तेन पेयां वा सुशीतां मधुनान्विताम्।
शठीद्द्रीबेरबृहतीशर्कराविश्वभेषजम्।
पिष्ट्वा रसं पिबेत् पूतं वस्त्रेण घृतमूर्छितम्॥

श्लोक 43

महिष्यजावीगोक्षीरधात्रीफलरसैः समैः।
सर्पिः सिद्धं पिबेत् तद्वन्मधुरेण गणेन वा॥

श्लोक 44

क्वाथीकृतेनेक्षुरसे क्षीरयुक्तेन साधितम्।
सशर्करं पिबेत् प्रातर्लिह्याद्वा माक्षिकान्वितम्॥

श्लोक 45

क्षीरिवृक्षाड्कुरक्वाथे पक्वं क्षीरसमं घृतम्।
पाययेत् पित्तकासार्तं मधुना वावलेहयेत्॥

श्लोक 46

मेदां विदारीं काकोलीं स्वयंगुप्ताफलं बलाम्।
शर्करां जीवकं मुद्गमाषपर्ण्यौ दुरालभाम्॥

श्लोक 47

कल्कीकृत्य पचेत् सर्पिः क्षीरेणाष्टगुणेन तत्।
पानभोजनलेहेषु प्रयुक्तं पित्तकासजित्॥

श्लोक 48

लिह्याद्वा चूर्णमेतेषां कषायमथवा पिबेत्।
कफकासी पिबेदादौ सुरकाष्ठात् प्रदीपितात्॥

श्लोक 49

स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितम्।
स्निग्धं विरेचयेदूर्ध्वमधो मूर्ध्नि च युक्तितः॥

श्लोक 50

तीक्ष्णैर्विरेकैर्बलिनं संसर्गीं चास्य योजयेत्।
यवमुद्गकुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः॥

श्लोक 51

कासमर्दकवार्ताकव्याघ्नीक्षारकणान्वितैः।
धान्वबैलरसैःस्नेहौस्तिलसर्षपनिम्बजैः॥

श्लोक 52

दशमूलाम्बु घर्माम्बु मद्य मध्वम्बु वा पिबेत्।
मूलैः पौष्करशम्याकपटोलैरन्वितं निशाम्॥

श्लोक 53

पिबेद्वारि सहक्षौद्रं कालेष्वन्नस्य वा त्रिषु।
पिप्पलीपिप्पलीमूलं शृङ्गवेरं बिभीतकम्॥

श्लोक 54

देवदार्वभया मुस्तं पिप्पलीविश्वभेषजम्।
गुडूची पिप्पलीभाङ्र्गीशृङ्गीकर्कटकस्य च॥

श्लोक 55

व्योषदारुचिडङ्गानि त्रिफलाशर्कराबलाः।
निदिग्धिकाया मूलत्वङ्मरिचैः सह योजिता॥

श्लोक 56

शिखिकुक्कुटपिञ्छानां मषी क्षारो यवोद्भवः।
विशाला पिप्पलीमूलं त्रिवृता च मधुद्रवाः॥

श्लोक 57

कफकासहरा लेहाः सप्त श्लोकार्धयोजिताः।
मधुना मरिचं लिह्यान्मधुनैव च जोङ्गकम्॥

श्लोक 58

पृथग्रसांश्च मधुना व्याघ्रीवार्ताकभृङ्गजान्।
कासघ्नस्याश्वशकृतः सुरसस्यासितस्य च॥

श्लोक 59

देवदारुशठीरास्नाकर्कटाख्यादुरालभाः।
पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः॥

श्लोक 60

मधुतैलयुतावेतौ लेहौ वातानुगे कफे।
विडङ्गं सैन्धवं हिङ्गु कुष्ठं व्योषं मनःशिलाम्॥

श्लोक 61

कासे श्वासे च हिध्मायां लिह्यात् क्षौद्रघृताप्लुतम्।
गुडक्षारोषणकणादाडिमं श्वासकासजित्।
क्रमात्पलद्वयार्धाक्षकर्षार्धाक्षपलोन्मितम्॥

श्लोक 62

द्वे पले दाडिमादष्ट्Aउ गुडाद्व्योषात् पलत्रयम्।
रोचनं दीपनं स्वर्यं पीनसश्वासकासजित्॥

श्लोक 63

पाठाशुण्ठीशठीमूर्वागवाक्षीपिप्पलीघनम्।
पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतं पिबेत्।
तद्वन्मुस्ताशठीशुण्ठीनागरातिविषभयाः॥

श्लोक 64

पिबेज्ज्वरोक्तं पथ्यादि सशृङ्गीकं च पाचनम्।
अथवा दीप्यकत्रिवृद्विशालाघनपौष्करम्॥

श्लोक 65

सकणं क्वथितं मूत्रे कफकासी जलेऽपि वा।
तैलभृष्टं च वैदेहीकल्काक्षं ससितोपलम्॥

श्लोक 66

पाययेत् कफकासघ्नं कुलत्थसलिलाप्लुतम्।
सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम्॥

श्लोक 67

चूर्णितं सर्पिषा वातकफकासहरं पिबेत्।
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्॥

श्लोक 68

पुष्कराह्वशठीविल्वसुरसव्योषहिङ्गुभिः।
पेयानुपानं तत् सर्ववातश्लेष्मामयापहम्॥

श्लोक 69

निर्गुण्डीपत्रनिर्याससाधितं कासजिद्घृतम्।
घृतं रसे विडङ्गानां व्योषगर्भं च साधितम्॥

श्लोक 70

पुनर्नव्सिताटिकासुरसकासमर्दामृता।
पटोलबृहतीफणिज्जकरसैः पयःसंयुतैः।
घृतं त्रिकटुना च सिद्धमुपयुज्य सञ्जायते।
न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम्॥

श्लोक 71

समूलफलपत्रायाः कण्टकार्या रसाढके।
घृतप्रस्थं बलाव्योषविडङ्गशठिदाडिमैः॥

श्लोक 72

सौवर्चलयवक्षारमूलामलकपौष्करैः।
वृश्चीवबृहतीपथ्यायवानीचित्रकर्धिभिः॥

श्लोक 73

मृद्वीकाचव्यवर्षाभूदुरालम्भाम्लवेतसैः।
शृङ्गीतामलकीभार्ङ्गीरास्नागोक्षुरकैः पचेत्॥

श्लोक 74

कल्कैस्तत् सर्वकासेषु श्वासहिध्मासु चेष्यते॥

श्लोक 75

कण्टकार्यास्तुलां क्षुण्णां पक्त्वा द्रोणेऽम्भसः पचेत्।
तेनाढकेन क्वाथस्य घृतप्रस्यं पिचून्मितैः॥

श्लोक 76

रास्नादुस्पर्शषङ्ग्रन्थापिप्पलीद्वयचित्रकैः।
सौवर्चलयवक्षारकृष्णामूलैश्च तज्जयेत्॥

श्लोक 77

कासश्वासकफष्ठीवहिध्मारोचकपीनसान्।
पचेद्व्याघ्नीतुलां क्षुण्णां वहेऽपामाढकस्थिते॥

श्लोक 78

क्षिपेत् पूते तु सञ्चूर्ण्य व्योषरास्नामृताग्निकान्।
शृङ्गीर्भार्ङ्गीघनग्रन्थिधन्वयासान् पलार्धकान्॥

श्लोक 79

सर्पिषः षोडशपलं चत्वारिंशत्पलानि च।
मत्स्यण्डिकायाः शुद्धायाः पुनश्च तदधिश्रयेत्॥

श्लोक 80

दर्वीलेपिनि शीते च पृथक् द्विकुडवं क्षिपेत्।
पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च॥

श्लोक 81

लेहोऽयं गुल्महृद्रोगदुर्नामश्वासकासजित्।
त्रिफलापिप्पलीपाठासारिवाबृहतीद्वयम्।
मरिचं पद्मकं मुस्तमुशीरं चाक्षसम्मितम्॥

श्लोक 82

पक्त्वा जलाढके पादशेषे क्षीरपलाष्टकम्।
दत्वा गुडस्य च पलं पचेदादर्विलेपनात्॥

श्लोक 83

लेहः कफोल्बणं कासं सर्वमेव नियच्छति।
साधितं क्षीरमेभिर्वा तिलक्षौद्रयुतं पिबेत्॥

श्लोक 84

शमनं च पिबेद्धूमं शोधनं बहले कफे॥

श्लोक 85

मनःशिलालमधुकमांसीमुस्तेऽङ्गुदीत्वचः।
धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेदनु॥

श्लोक 86

निष्ठ्यूतान्ते गुडयुतं कोष्णं धूमो निहन्ति सः।
वातश्लेष्मोत्तरान् कासानचिरेण चिरन्तनान्॥

श्लोक 87

प्रपौण्डरीकं मधुकं शार्ङ्गेष्टालं मनःशिलाम्।
मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम्॥

श्लोक 88

कृत्वा वर्तिं पिबेद्धूमं क्षौमचैलानुवर्तिनी।
घृताक्तामनु च क्षीरं पिबेत् तद्वत् गुडाम्बु वा॥

श्लोक 89

नेपालीतालमरिचलाक्षाञ्जनकुटन्नटैः।
उशीररोहिषफलद्रामिलीवंशलेखनैः॥

श्लोक 90

पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते।
कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः।
कोशातकीफलान्मध्यैः पिबेद्वा समनःशिलैः॥

श्लोक 91

तमकः कफकासे तु स्याच्चेत् पित्तानुबन्धजः।
पित्तकासक्रियां तत्र यथावस्थं प्रयोजयत्॥

श्लोक 92

कफानुबन्धे पवने कुर्यात् कफहरां क्रियाम्।
पित्तानुबम्धयोर्वातकफयोः पित्तनाशिनीम्॥

श्लोक 93

वातश्लेष्मात्मके शुष्के स्निग्धमार्द्रे विरूक्षणम्।
कासे कर्म सपित्ते तु कफजे तिक्तसंयुतम्॥
इति चतुर्थोऽध्यायः॥