श्लोक 1
अथातो जीर्णज्वरचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
देहधात्वबलत्वेन ज्वरो जीर्णोऽनुवर्तते॥
श्लोक 3
रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च।
वमनस्वेदकालाम्बुकषायलघुभोजनैः॥
श्लोक 4
यः स्यादतिबलो धातुः सहचारी सदागतिः।
तस्य संशमनं सर्पिर्दीप्तस्येवाम्बु वेश्मनः॥
श्लोक 5
वातपित्तजितामग्न्यं संस्कारमनुरुध्यते।
सुतरां तद्ध्यतो दद्याद्यथास्वौषधसाधितम्॥
श्लोक 6
विपरीतं ज्वरोष्माणं जयेत् पित्तं च शैत्यतः।
स्नेहाद्वातं घृतं तुल्यं योगसंस्कारतः कफम्॥
श्लोक 7
पूर्वे कषायाः सघृताः सर्वे योज्या यथामलम्।
त्रिफलापिचुमन्दत्वङ्मधुकं बृहतीद्वयम्।
समसूरदलं क्वाथः सघृतो ज्वरकासहा॥
श्लोक 8
निदिग्धिकातामलफीत्रायमाणाकलिङ्गकैः।
कृष्णांशुमत्यतिविषाकटुकासेव्यचन्दनैः॥
श्लोक 9
धात्रीबिल्वघनद्राक्षासारिवाभिश्च साधितम्।
हन्ति सद्यो घृतं जीर्णज्वरं कासं हलीमकम्।
अरुचिं विषमं वह्निं यक्ष्माणं च नवोत्थितम्॥
श्लोक 10
वासागुडूचीत्रिफलात्रायमाणायवासकात्।
क्वाथे क्षीरे च विपचेत् ज्वरघ्नं कल्कितैर्घृतम्।
पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागैरः॥
श्लोक 11
बलादुरालभामुस्तात्रायतीनिम्बपर्पटम्।
पञ्चमूलद्वयं यच्च क्वाथयित्वा घृतं पचेत्।
सक्षीरं कल्कितैर्द्राक्षामेदामलकपौष्करैः॥
श्लोक 12
शठीतामलकीयुक्तैस्तच्च ज्वरहरं परम्।
क्षयकासशिरःपार्श्वहृच्छूलांसाभितापनुत्॥
श्लोक 13
कुलत्थकोलत्रिफलादशमूलयवान् पचेत्।
द्विपलान् सलिलद्रोणे पूते पिष्ट्वाक्सकान् क्षिपेत्॥
श्लोक 14
पञ्चकोलकसप्ताह्ववयस्थानिम्बतुम्बुरून्।
शठीपुष्करमूलार्कमूलप्रतिविषावचाः॥
श्लोक 15
किराततिक्तकं मुस्तं कर्कटाख्यां दुरालभाम्।
नक्तमालमुभे पाठे कटुकाशिग्रुतेजनीः॥
श्लोक 16
सोमवल्कद्विरजनीकण्टकीकण्टकारिकाः।
पटोलहिङ्गुगोजिह्वाकेबुकं मदनाज्झटा॥
श्लोक 17
लवणानि पलांशानि क्षारानर्धपलोन्मितान्।
प्रस्थं चाज्यस्य तत्सिद्धं दीपनं कफवातजित्॥
श्लोक 18
हृत्प्लीहग्रहणीगुल्मकासश्वासार्शसां हितम्।
दीर्घज्वराभिभूतानां ज्वरिणाममृतोपमम्॥
श्लोक 19
मञ्जिष्ठातिविषापथ्यावचानागररोहिणीः।
देवदारु हरिद्रां च द्रोणेऽपां पालिकान् पचेत्।
क्वाथेऽस्मिन् साधयेत् पिष्टैर्घृतप्रस्थं पिचून्मितैः॥
श्लोक 20
शृङ्गवेरकणाहिङ्गुद्विक्षारपटुपञ्चकैः।
तत्कफावृतसर्वोत्थज्वरिणाममृतोपमम्॥
श्लोक 21
वर्ध्महिध्मारुचिश्वासकासपाण्डुविकारिणाम्।
गलग्रह (ग्रन्थि) प्रमेहार्शः प्लीहापस्मारशोफिनाम्।
उदावर्तपरीतानां मन्दाग्निकृमिकोष्ठिनाम्॥
श्लोक 22
गुडूच्या रसकल्काभ्यां त्रिफलाया वृषस्य च।
मृद्वीकाया बलायाश्च सिद्धाः स्नेहा ज्वरच्छिदः॥
श्लोक 23
जीर्णे घृते च भुञ्जीत मुदुमांसरसौदनम्।
बलं ह्यलं दोषहरं परं तच्च बलप्रदम्॥
श्लोक 24
कफपित्तहरा मुद्गकारवेल्लादिजा रसाः।
प्रायेण तस्मान्न हिता जीर्णे वातोत्तरे ज्वरे।
शूलोदावर्तविष्टम्भजनना ज्वरवर्धनाः॥
श्लोक 25
न शाम्यत्येवमपि चेज्ज्वरः कुर्वीत शोधनम्।
शोधनार्हस्य वमनं प्रागुक्तं तस्य योजयेत्।
आमाशयगते दोषे बलिनः पालयन् बलम्॥
श्लोक 26
सन्तर्पणोत्थे वमनं पिप्पलीलवणाम्बुना।
शर्करामाक्षिकाम्भोभिर्दाहतृष्णोल्बणे ज्वरे॥
श्लोक 27
पक्वे तु शिथिले दोषे ज्वरे वा विषमद्यजे।
मोदकं त्रिफलाश्यामात्रिवृत्पिप्पलिकेसरैः॥
श्लोक 28
ससितामधुभिर्दद्याद्व्योषाद्यं वा विरेचनम्।
द्राक्षाधात्रीरसं तद्वत्सद्राक्षां वा हरीतकीम्।
रसमामलकानां वा घृतभृष्टं ज्वरापहम्॥
श्लोक 29
लिह्याद्वा त्रिवृतश्चूर्णं कृष्णात्रिफलयोस्तथा।
सर्पिर्मधुभ्यां त्रिफलां पिबेद्राक्सारसेन वा॥
श्लोक 30
आरग्वधं वा पयसा मृद्वीकानां रसेन वा।
त्रिफलां त्रायमाणां वा पयसा ज्वरितः पिबेत्॥
श्लोक 31
सघृतं त्रिफलाक्वाथं सर्पिषा वा विना शृतम्।
पयोऽनुपानमुष्णं वा मृद्वीकास्वरसं पिबेत्।
विरिक्तानां च संसर्गी मण्डपूर्वा यथाक्रमम्॥
श्लोक 32
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा।
पक्वोऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः॥
श्लोक 33
अतिप्रवर्तमानं वा पाचयन् सङ्ग्रहं नयेत्॥
श्लोक 34
आमसङ्ग्रहणे दोषा दोषोपक्रम ईरिताः॥
श्लोक 35
पाययेद्दोषहरणं मोहादामज्वरे तु यः।
प्रसुप्तं कृष्णसर्पं स कराग्रेण परामृशेत्॥
श्लोक 36
ज्वरक्षीणस्य न हितं वमनं न विरेचनम्।
कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्॥
श्लोक 37
क्षीरोचितस्य प्रक्षीणश्लेष्मणो दाहतृङ्वतः।
क्षीरं पित्तानिलार्तस्य पथ्यमप्यतिसारिणः॥
श्लोक 38
तद्वपुर्लंघनोत्तप्तं प्लुष्टं वनमिवाग्निना।
दिव्याम्बु जीवयेत्तस्य ज्वरं चाशु नियच्छति॥
श्लोक 39
संस्कृतं शीतमुष्णं वा तस्माद्धारोष्णमेव वा।
विभज्य काले युञ्जीत ज्वरिणं हन्त्यतोऽन्यथा॥
श्लोक 40
पयः सशुण्ठीखर्जूरमृद्वीकाशर्कराघृतम्।
शृतशीतं मधुयुतं तृड्दाहज्वरनाशनम्॥
श्लोक 41
तद्वद्द्राक्षाबलायष्टीसारिबाकणचन्दनैः।
चतुर्गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत्॥
श्लोक 42
कासाच्छ्वासाच्छिरश्शूलान् पार्श्वशूलाच्चिरज्वरात्।
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः॥
श्लोक 43
शृतमरेण्डमूलेन बालविल्वेन वा ज्वरात्।
धारोष्णं वा पयः पीत्वा विबद्धानिलवर्चसः।
सरक्तपिच्छातिसृतेः सतृट्शूलप्रवाहिकात्॥
श्लोक 44
सिद्धं शुण्ठीबलाव्याघ्नीगोकण्टकगुडैः पयः।
शोफमूत्रशकृद्वातविबन्धज्वरकासजित्॥
श्लोक 45
वृश्चीवबिल्ववर्षाभूसाधितं ज्वरशोफनुत्।
शिंशिपासारसिद्धं च क्षीरमाशु ज्वरापहम्॥
श्लोक 46
निरूहस्तु बलं वह्निं विज्वरत्वं मुदं रुचिम्।
दोषे युक्तः करोत्याशु पक्वे पक्वाशयं गते॥
श्लोक 47
पित्तं वा कफपित्तं वा पक्वाशयगतं हरेत्।
स्रंसनं त्रीनपि मलान् बस्तिः पक्वाशयाश्रयान्॥
श्लोक 48
प्रक्षीणकफपित्तस्य त्रिकपृष्ठकटीग्रहे। दीप्ताग्नेर्बद्धशकृतः प्रयुञ्जीतानुवासनम्॥
श्लोक 49
पटोलनिम्बच्छदनकटुकाचतुरङ्गुलैः।
स्थिराबलागोक्षुरकमदनोशीरवालकैः॥
श्लोक 50
पयस्यर्धोदके क्वाथं क्षीरशेषं विमिश्रितम्।
कल्कितैर्मुस्तमदनकृष्णामधुकवत्सकैः।
बस्तिं मधुघृताभ्यां च पीडयेज्ज्वरनाशनम्॥
श्लोक 51
चतस्रः पर्णिनीर्यष्टीफलोशीरनृपद्रुमान्।
क्वाथयेत् कल्कयेद्यष्टीशताह्वाफलिनीफलम्।
मुस्तं च बस्तिः सगुडक्षौद्रसर्पिर्ज्वरापहः॥
श्लोक 52
त्रायमाणामृतायष्टीमदनांशुमतीद्वयैः।
सबलाचन्दनवृषैर्जाङ्गलैश्च मृगद्विजैः॥
श्लोक 53
क्वाथे कृते क्षिपेत् पिष्ट्वा फलयष्टीकणाघनम्।
स सद्यो ज्वरहा बस्तिः साज्यक्षौद्रोऽल्पसैन्धवः॥
श्लोक 54
आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पलम्।
स्वर्णगौरिकमाञ्जिष्ठामृणालाञ्जनपद्मकम्॥
श्लोक 55
क्षीरेण कल्कितं बस्तिं शीतं समधुशर्करम्।
दाहज्वरहरं दद्यात्सिद्धं तैश्चानुवासनम्॥
श्लोक 56
जीवन्तीं मदनं मेदां पिप्पलीं मधुकं वचाम्।
ऋद्धिं रास्नां बिल्वं शतपुष्पां शतावरीम्॥
श्लोक 57
पिष्ट्वा क्षीरं जलं सर्पिस्तैलं चैकत्र साधितम्।
ज्वरेऽनुवासनं कुर्यात्तथा स्नेहं यथामलम्॥
श्लोक 58
चन्दनागरुकाश्मर्यपटोलमदनोत्पलैः।
पटोलारिष्टमदनगुडूचीमधुकैरपि।
ये च सिद्धिषु वक्ष्यन्ते बस्तयो ज्वरनाशनाः॥
श्लोक 59
शिरोरुग्गौरवश्लेष्महरमिन्द्रियबोधनम्।
जीर्णज्वरे रुचिकरं दद्यान्नस्यं विरेचनम्।
स्नैहिकं शून्यशिरसो दाहार्ते पित्तनाशनम्॥
श्लोक 60
धूमगण्डूषकवलान् यथादोषं च कल्पयेत्।
प्रतिश्यायास्यवैरस्यशिरः कण्ठामयापहान्॥
श्लोक 61
अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम्।
धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत्॥
श्लोक 62
यथोपशयसंस्पर्शान् शीतोष्णद्रव्यकल्पितान्।
अभ्यङ्गालेपसेकादीन् ज्वरे जीर्णे त्वगाश्रिते।
कुर्यादञ्जनधूपांश्च तथैवागन्तुजेऽपि तान्॥
श्लोक 63
दाहे सहस्रधौतेन सर्पिषाभ्यङ्गमाचरेत्॥
श्लोक 64
सूत्रोक्तैश्च गणैस्तैस्तैर्मधुराम्लकषायकैः।
दूर्वादिभिर्वा पित्तघ्नैः शोधनादिगणोदितैः॥
श्लोक 65
शीतवीर्यैर्हिमस्पर्शैः क्वाथकल्कीकृतैः पचेत्।
तैलं सक्षीरमभ्यङ्गात्सद्यो दाहज्वरापहम्॥
श्लोक 66
चन्दनं मधुकं काला द्राक्षा मधुरसा निशा।
तत्सिद्धं पूर्ववत्तैलं दाहज्वरहरं परम्॥
श्लोक 67
शिरो गात्रं च तैरेव नातिपिष्टैः प्रलेपयेत्।
तत्क्वाथेन परीषेकमवगाहं च योजयेत्।
तथारनालसलिलक्षीरशुक्तघृतादिभिः॥
श्लोक 68
कपित्थमातुलुङ्गाम्लविदारीलोध्रदाडिमैः।
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य वा॥
श्लोक 69
कर्पूरपद्मकोशीरकालीयाम्बुकुचन्दनैः।
तुङ्गप्रियङ्गुशैवालकमलोत्पलकर्दमैः॥
श्लोक 70
वेत्राग्रलोध्रपुण्ड्राह्वैरारनालेन कल्कितैः।
लेपा व्यस्तैः समस्तैर्वा दाहघ्ना वर्णकारिणः॥
श्लोक 71
धात्रीत्वक्पत्रनलदशङ्खव्याघ्रनखोत्पलैः।
चन्दनाञ्जनमुस्तैश्च सवृक्षाम्लाम्लवेतसैः॥
श्लोक 72
सजीवकैः समधुकैः सपलाशैः सदाडिमैः।
बीजपूररसक्षौद्रशुक्तयुक्तैः प्रलेपितैः॥
श्लोक 73
शिरस्यङ्गे च तृट्छर्दिदाहमोहशिरोरुजः।
नश्यन्ति गण्डाः पिटकाः प्रलापश्च ज्वरार्तिजः॥
श्लोक 74
गौरामलककल्कश्च साम्लः साज्यश्च तद्गुणः।
मधूकमधुकोदीच्यनीलोत्पलमधूलिकाः॥
श्लोक 75
जयन्ति मधुसर्पिर्भ्यां लीढा दाहज्वरभ्रमान्।
कासासृक्पित्तवीसर्पश्वासहिध्मावमीरपि॥
श्लोक 76
वाम्यं च वामयेदाशु शीतेन मधुवारिणा।
यो वर्णितः पित्तहरो दोषोपक्रमणे क्रमः।
तं च शीलयतः शीघ्रं सदाहो नश्यति ज्वरः॥