अष्टाङ्गसंग्रहः चिकित्सितस्थानम्  1

श्लोक 1

अथातो ज्वरचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधाय यत्।
विदधाति ज्वरं दोषस्तस्मात् कुर्वीत लङ्घनम्॥

श्लोक 3

प्राग्रूपेषु ज्वरादौ वा बलं यत्नेन पालयन्।
बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः॥

श्लोक 4

लङ्घनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति।
स्वास्थ्यं क्षुत्तृङ् रुचिः पक्तिर्बलेमाजश्च जायते॥

श्लोक 5

तत्रोत्कृष्टे समुत्क्लिष्टे कफप्राये चले मले।
सहृल्लासप्रसेकान्नद्वेषकासविषूचिके॥

श्लोक 6

सद्योभुक्तस्य सञ्जाते ज्वरे सामे विशेषतः।
वमनं वमनार्हस्य शस्तं कुर्यात्तदन्यथा॥

श्लोक 7

श्वासातीसारसन्मोहहृद्रोगविषमज्वरान्॥

श्लोक 8

पिप्पलीभिर्युतां गालां कलिङ्गैर्मधुकेन वा।
पीत्वोष्णतोयेन वमेन्मध्बम्बु लवणाम्बु वा॥

श्लोक 9

पटोलनिम्बकर्कोटवेत्रपत्रजलानि वा।
पेयां मण्डं रसं चेक्षोर्मद्यं कल्पोदितानि वा॥

श्लोक 10

वमनानि प्रयुञ्जीत बलकालविभागवित्।
कृतेऽकृते वा वमने ज्वरी कुर्याद्विशोषणम्॥

श्लोक 11

दोषाणां समुदीर्णानां पाचनाय शमाय च।
आमेन भस्मनेवाग्नौ छन्नेऽन्नं न विपच्यते॥

श्लोक 12

तस्मादादोषपचनाज्ज्वरितानुपवासयेत्।
तृष्णगल्पाल्पमुष्णाम्बु पिबेद्वातकफज्वरे॥

श्लोक 13

तत् कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत्।
उदीर्य चाग्निं स्रोतांसि मृदूकृत्य विशोधयेत्॥

श्लोक 14

लीनपित्तानिलस्वेदशकृन्मूत्रानुलोमनम्।
निद्राजाङ्यारुचिहरं प्राणानामवलम्बनम्॥

श्लोक 15

विपरीतमतः शीतं दोषसङ्घातवर्धनम्॥

श्लोक 16

उष्णमेवंगुणत्वेऽपि युञ्ज्यान्नैकान्तपित्तले।
उद्रिक्तपित्ते दवथुदाहमोहातिसारिणि॥

श्लोक 17

विषमद्योत्थिते ग्रीष्मे क्षतक्षीणेऽस्रपित्तिनि।
घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम्॥

श्लोक 18

शीतं तेभ्यो हितं तोयं पाचनं तृड्ज्वरापहम्।
ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना॥

श्लोक 19

तस्मात् पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकम्।
स्नानाभ्यङ्गप्रदेहांश्च परिशेषं च लङ्घनम्॥

श्लोक 20

अजीर्ण इव शूलघ्नं सामे तीव्ररुजि ज्वरे।
न पिबेदौषधं तद्धि भूय एवाममावहेत्॥

श्लोक 21

आमाभिभूतकोष्ठस्य क्सीरं विषमहेरिव।
सोदर्दपीनसश्वासे जङ्घापर्वास्थिशूलिनि।
वातश्लेष्मात्मके स्वेदः प्रशस्तः स प्रवर्तयेत्॥

श्लोक 22

स्वेदमूत्रशकृद्वातान् कुर्यादग्नेश्च पाटवम्।
स्नेहोक्तमाचारविधिं सर्वतश्चानुपालयेत्॥

श्लोक 23

लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः।
मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा॥

श्लोक 24

शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्घनम्।
नेष्यते तेषु हि हितं शमनं यन्न कर्शनम्॥

श्लोक 25

तत्रसामज्वराकृत्या जानीयादविशोषितम्।
द्विधिधोपक्रमज्ञानमवेक्षेत च लङ्घने॥

श्लोक 26

युक्तं लङ्घितलिग्गैस्तु तं पेयाभिरुपाचरेत्।
यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः॥

श्लोक 27

षडहं वा मृदुत्वं वा ज्वरो यावदवाप्नुयात्।
तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः॥

श्लोक 28

ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः।
वातमूत्रपुरीषाणां दोषाणां चानुलोमकाः॥

श्लोक 29

स्वेदनाय द्रवोष्णत्वान्मृदुत्वात्तृट्प्रशान्तये।
आहारभावात् प्राणाय सरत्वाल्लाघवाय च॥

श्लोक 30

ज्वरघ्ना ज्वरसात्म्यत्वात् तस्मात् पेयाभिरादितः।
उपक्रमेज्ज्वरान् सर्वानृते मद्यसमुत्थितात्॥

श्लोक 31

प्राग्लाजपेयां सुजरां सशुण्ठीधान्यपिप्पलीम्।
ससैन्धवां तथाम्लार्थी तां पिबेत् सहदाडिमाम्॥

श्लोक 32

सृष्टविड्बहुपित्तो वा सशुण्ठीमाक्षिकां हिमाम्।
बस्तिपार्श्वशिरःशूली व्याघ्रीगोक्षुरसाधिताम्॥

श्लोक 33

पृश्नि पर्णीबलाबिल्वनागरोत्पलधान्यकैः।
सिद्धां ज्वरातिसार्यम्लां पेयां दीपनपाचनीम्॥

श्लोक 34

ह्रस्वेनपञ्चमूलेन हिक्कारुक्श्वासकासवान्।
पञ्चमूलेन महता कफार्तो यवसाधिताम्॥

श्लोक 35

विबद्धवर्चाः सयवां पिप्पल्यामलकैः कृताम्।
यवागूं सर्पिषा भृष्टां मलदोषानुलोमनीम्॥

श्लोक 36

चविकापिप्पलीमूलद्राक्षामलकनागरैः।
कोष्ठे विबद्धे सरुजि पिबेत्तु परिकर्तिनि॥

श्लोक 37

कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृताम्।
अस्वेदनिद्रस्तृष्णार्तः सितामलकनागरैः॥

श्लोक 38

सिताबदरमृद्वीकासारिवामुस्तचन्दनैः।
तृष्णाच्छर्दिपरीदाहज्वरघ्नीं क्षौद्रसंयुताम्॥

श्लोक 39

कुर्यात् पेयौषधैरेव रसयूषादिकानपि।
मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे॥

श्लोक 40

ग्रीष्मे तयोर्वाधिकयोस्तृट्छर्दिदाहपीडिते।
ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति तेषु तु॥

श्लोक 41

द्राक्षादाडिमकाश्मर्यपथ्या पीलुपरूषकैः।
समधूकैः सबदरैः सक्षौद्रान् ससितोपलान्॥

श्लोक 42

ज्वरघ्नैस्तोयमृदितैरद्भिर्वा लाजतर्पणान्।
पिबेत् सुसूक्ष्मरजसस्ततो जीर्णे तु तर्पणे॥

श्लोक 43

यवाग्वां वौदनं क्षुद्वानश्नीयाद्भृष्टतण्डुलम्।
दकलावणिकैर्यूषैः रसैर्वा मुद्गलावजैः॥

श्लोक 44

इत्ययं षडहो नेयो बलं दोषं च रक्षता।
ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते॥

श्लोक 45

कषायो दोषशेषस्य पाचनः शमनोऽथवा।
तिक्तः पित्ते विशेषेण प्रयोज्यः कटुकः कफे॥

श्लोक 46

पित्तश्लेष्महरत्वेऽपि कषायः स न शस्यते।
नवज्वरे मलस्तम्भात् कषायो विषमज्वरान्॥

श्लोक 47

कुरुतेऽरुचिहृल्लासहिध्माध्मानादिकानपि।
न च्यवन्ते न पच्यन्ते कषायस्तम्भिता मलाः॥

श्लोक 48

तिर्यग्गता विमार्गा वा वर्धयन्त्यपि च ज्वरम्।
बद्धामकफवातत्वाच्छूलानाहादिकानपि॥

श्लोक 49

सप्ताहादौषधं केंचिदाहुरन्ये दशाहतः।
केचिल्लघ्वन्नभुक्तस्य योज्यमामोल्बणे न तु॥

श्लोक 50

तीव्रज्वरपरीतस्य दोषवेगोदये यतः।
दोषेऽथवातिनिचिते तन्द्रास्तैमित्यकारिणि॥

श्लोक 51

अपच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम्।
यदा ज्वरो मृदुर्देहो लघुः प्रचलिता मलाः॥

श्लोक 52

अचिरज्वरितस्यापि योजयेद्भेषजं तदा।
मुस्तया पर्पटं युक्तं शुण्ठ्या दुस्पर्शयापि वा॥

श्लोक 53

पाक्यं शीतकषायं वा पाठोशीरं सवालकम्।
पिबेत्तद्वच्च भूनिम्बगुडूचीमुस्तनागरम्॥

श्लोक 54

यथायोगमिमे योज्याः कषाया दोषपाचनाः।
ज्वरारोचकतृष्णास्यवैरस्यापक्तिनाशनाः॥

श्लोक 55

पाठेन्द्रयवभूनिम्बमुस्तपर्पटकामृताः।
जयन्त्याममतीसारं ज्वरं च समहौषधाः॥

श्लोक 56

दुरालभामृतामुस्तानागरं वातजे ज्वरे।
अथवा पिप्पलीमूलगुडूचीविश्वभेषजम्॥