श्लोक 1
अथातो वातव्याधिनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
सर्वार्थानर्थकरणे विश्वस्यास्यैककारणम्।
अदुष्टदुष्टः पवनः शरीरस्य विशेषतः॥
श्लोक 3
स विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः।
स्रष्टा धाता विभुर्विष्णुः संहर्ता मृत्युरन्तकः॥
श्लोक 4
तददुष्टौ प्रयत्नेन यतितव्यमतः सदा।
तस्योक्तं दोषविज्ञाने कर्म प्राकृतवैकृतम्॥
श्लोक 5
समासाद्व्यासतो दोषभेदीये नाम धाम च।
प्रत्येकं पञ्चधा चारो व्यापारश्चेह वैकृतम्॥
श्लोक 6
तस्योच्यते विभागेन सनिदानं सलक्षणम्।
असङ्ख्यमपि सङ्ख्यायै यदशीत्या पुरेरितम्॥
श्लोक 7
धातुक्षयकरैर्वायुः कुप्यत्यतिनिषोवितैः।
चरन् स्रोतःसु रिक्तेषु भृशं तान्येव पूरयन्॥
श्लोक 8
तेभ्योऽन्यदोषपूर्णेभ्यः प्राप्य वावरणं बली।
तत्र पक्वाशयं क्रुद्धः शूलानाहान्त्रकुजनम्॥
श्लोक 9
मलरोधाश्मवर्ध्मार्शस्त्रिकपृष्ठकटीग्रहम्।
करोत्यधरकाये च तांस्तान् कृच्छ्रानुपद्रवान्॥
श्लोक 10
आमाशये तृड्वमथुश्वासकासविषूचिकाः।
कण्ठोपरोधमुद्गारान् व्याधीनूर्ध्वं च नाभितः॥
श्लोक 11
श्रोत्रादिष्विन्द्रियवधं त्वचि स्फुटनरूक्षते।
रक्ते तीव्रां रुजां स्वापं तापं रागं विवर्णताम्॥
श्लोक 12
अरुंष्यन्नस्य विष्टम्भमरुचिं कृशतां भ्रमम्।
मांसमेदोगतो ग्रन्थींस्तोदाढ्यान् कर्कशान् भ्रमम्॥
श्लोक 13
गुर्वङ्गं चातिरुक् स्तब्धं मुष्टिदण्डहतोपमम्।
अस्थिस्थः सक्थिसन्ध्यस्थिशूलं तीव्रं बलक्षयम्॥
श्लोक 14
मज्जस्थोऽस्थिषु सौषिर्यमस्वप्नं सन्ततं रुजम्।
शुक्रस्य शीघ्रमुत्सर्गं सङ्गं विकृतिमेव वा॥
श्लोक 15
तद्वद्गर्भस्य शुक्रस्थः सिरास्वाध्मानरिक्तते।
तत्स्थः स्नावस्थितः कुर्यात्गृध्रस्यायामकुब्जताः॥
श्लोक 16
वातपूर्णदृतिस्पर्शं शोफं सन्धिगतोऽनिलः।
प्रसारणाकुञ्चनयोः प्रवृत्तिं च सवेदनाम्॥
श्लोक 17
सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम्।
स्तम्भनाक्षेपणस्वापसन्ध्याकुञ्चनकम्पनम्॥
श्लोक 18
यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः।
तदाङ्गमाक्षिपत्येष व्याधिराक्षेपकः स्मृतः॥
श्लोक 19
अधःप्रतिहतो वायुर्व्रजन्नूर्ध्वं हृदाश्रिताः।
नाडीः प्रविश्य हृदयं शिरः शङ्खौ च पीडयन्॥
श्लोक 20
आक्षिपेत् परितो गात्रं धनुर्वच्चास्य नामयेत्।
कृच्छ्रादुच्छ्वसिति स्तब्धस्रस्तमीलितदृक् ततः॥
श्लोक 21
कपोत इव कूजेच्च निस्संज्ञः सोऽपतन्त्रकः॥
श्लोक 22
स एव चापतानाख्यो मुक्ते तु मरुता हृदि।
अश्नुवीत मुहुः स्वास्थ्यं मुहुरस्वास्थ्यमावृते॥
श्लोक 23
गर्भपातसमुत्पन्नः शोणितातिस्रवोत्थितः।
अभिघातसमुत्थश्च दुश्चिकित्स्यतमो हि सः॥
श्लोक 24
मन्ये संस्तभ्य वातोऽन्तरायच्छन् धमनीर्यदा।
व्याप्नोति सकलं देहं जत्रुरायम्यते तदा॥
श्लोक 25
अन्तर्धनुरिवाङ्गं च वेगैः स्तम्भं च नेत्रयोः।
करोति जृम्भां दशनं दशनानां कफोद्वमम्॥
श्लोक 26
पार्श्वयोर्वेदनां वाक्यहनुपृष्ठशिरोग्रहत्।
अन्तरायाम इत्येष बाह्यायामश्च तद्विधः॥
श्लोक 27
देहस्यबहिरायामात् पृष्ठतो ह्रियते शिरः।
उरश्चेत्क्षिप्यते तत्र कन्धरा चावमृद्यते॥
श्लोक 28
दन्तेष्वास्ये च वैवर्ण्यं प्रस्वेदः स्तब्धगात्रता।
बाह्यायामं धनुष्कम्पं ब्रुवते वेगिनं च तम्॥
श्लोक 29
व्रणं मर्माश्रितं प्राप्य समीरणसमीरणात्।
व्यायच्छन्ति तनुं दोषाः सर्वामापादमस्तकम्॥
श्लोक 30
तृष्यतः पाण्डुगात्रस्य व्रणायामः स वर्जितः।
गते वेगे भवेत् स्वास्थ्यं सर्वेष्वाक्षेपकेषु तु॥
श्लोक 31
जिह्वातिलेखनाच्छुष्कभक्षणादभिघाततः।
कुपितो हनुमूलस्थः स्रंसयित्वानिलो हनू॥
श्लोक 32
करोति विवृतास्यत्वमथवा संवृतास्यताम्।
हनुस्रंसः स तेन स्यात् कृच्छ्राच्चर्वणभाषणम्॥
श्लोक 33
वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः।
जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता॥
श्लोक 34
शिरसा भारभरणादतिहास्यप्रभाषणात्।
उत्त्रासवक्रक्षवथुखरकार्मुककर्षणात्॥
श्लोक 35
विषमादुपधानाच्च कठिनानां च चर्वणात्।
वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्ध्वमास्थितः॥
श्लोक 36
वक्रीकरोति वक्त्रार्धमुक्तं हसितमीक्षितम्।
ततोऽस्य कम्पते मुर्धा वाक्सङ्गः स्तब्धनेत्रता॥
श्लोक 37
दन्तचालः स्वरभ्रंशः श्रुतिहानिः क्षवग्रहः।
गन्धाज्ञानं स्मृतेर्मोषस्त्रासः सुप्तस्य जायते॥
श्लोक 38
निष्ठीवः पार्श्वतो यायादेकस्याक्ष्णोर्निमीलनम्।
जत्रोरूर्धवं रुजास्तीव्राः शरीरार्धेऽधरेऽपि वा॥
श्लोक 39
तमाहुरर्दितं केचिदेकायाममथापरे।
रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः॥
श्लोक 40
रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्यात् सिराग्रहः।
गृहीत्वार्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च॥
श्लोक 41
पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन्।
कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः॥
श्लोक 42
एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः।
सर्वाङ्गरोगं तद्वच्च सर्वकायाश्रितेऽनिले॥
श्लोक 43
शुद्धवातहतः पक्षः कृच्छ्रसाध्यतमो मतः।
कृच्छ्रस्त्वन्येन संसृष्टो विवर्ज्यः क्षतहेतुकः॥
श्लोक 44
आमबद्धायनः कुर्यात् संस्तभ्याङ्गं कफान्वितः।
असाध्यं हतसर्वेहं दण्डवद्दण्डकं मरुत्॥
श्लोक 45
अंसमूलस्थितो वायुः सिराः सङ्कोच्य तत्रगाः।
बाहुप्रस्पन्दितहरं जनयत्यपवाहुकम्॥
श्लोक 46
तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः।
बाहुचेष्टापहरणी विश्वाची नाम सा स्मृता॥
श्लोक 47
वायुःकट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा।
तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोरपि॥
श्लोक 48
कम्पते गमनारम्भे खञ्जन्निव च याति यः।
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्॥
श्लोक 49
शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः।
जीर्णाजीर्णे तथायाससङ्क्षोभस्वप्नजागरैः॥
श्लोक 50
सश्लेष्ममेदःपवनमाममत्यर्थसञ्चितम्।
अभिभूयेतरं दोषमुरू चेत् प्रतिपद्यते॥
श्लोक 51
सक्थ्यास्थना प्रपूर्यान्तः श्लेष्मणा स्तिमितेन तत्।
तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ॥
श्लोक 52
परकीयाविव गुरू स्यातामतिभृशव्यथौ।
ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्द्यरुचिज्वरैः॥
श्लोक 53
संयुतः पादसदनकृच्छ्रोद्धरणसुप्तिभिः।
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे॥
श्लोक 54
वातशोणितजः शोफो जानुमध्ये महारुजः।
ज्ञेयः क्रोष्टुकणीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत्॥
श्लोक 55
रुक् पादे विषमन्यस्ते श्रमाद्वा जायते यदा।
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम्॥
श्लोक 56
पार्ष्णि प्रत्यङ्गुलीनां या कण्डरा मारुतार्दिता।
सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते॥
श्लोक 57
विश्वाची गृद्ध्रसी चोक्ता खल्ली तीव्ररुजान्विता।
हृष्येते चरणौ यस्य भ्वेतां च प्रसुप्तवत्॥
श्लोक 58
पादहर्षः स विज्ञेयः कफमारुतकोपजः।
पादयोः कुरुते दाहं पित्तासृकसहितोऽनिलः॥
श्लोक 59
विशेषतश्चङ्क्रमिते पाददाहं तमादिशेत्॥
इति पञ्चदशोऽध्यायः॥