अष्टाङ्गसंग्रहः निदानस्थानम् 13

श्लोक 1

अथातः पाण्डुशोफविसर्पनिदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

श्लोक 2

पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः।
तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम्॥

श्लोक 3

धमनीलेन सम्प्राप्य व्याप्नुवत्सकलां तनुम्।
श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम्॥

श्लोक 4

त्वङ्मांसयोस्तत् कुरुते त्वचि वर्णान्पृथग्विधान्।
पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम्॥

श्लोक 5

यतोऽतः पाण्डुरित्युक्तः स रोगः तेन गौरवम्।
धातूनां स्याच्च शैथिल्यमोजसश्च गुणक्षयः॥

श्लोक 6

ततोऽल्परक्तमेदस्को निःसारः स्याच्छ्लथेन्द्रियः।
मृद्यमानैरिवाङ्गैर्ना द्रवता हृदयेन च॥

श्लोक 7

शूनाक्षिकूटवदनः कोपनः ष्ठीवनोल्पवाक्।
अन्नद्विट्शिशिरद्वेषी शीर्णरोमा हतानलः॥

श्लोक 8

सन्नसक्थी ज्वरी श्वासी कर्णक्ष्वेडी श्रमी भ्रमी।
स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्॥

श्लोक 9

प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि।
अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पवाह्निता॥

श्लोक 10

सादः श्रमोऽनिलात्तत्र गात्ररुक्तोदकम्पनम्।
कृष्णरूक्षारुणसिरानखविण्मूत्रनेत्रता॥

श्लोक 11

शोफानाहास्यवैरस्यविट्शोषाः पार्श्वमूर्धरुक्।
पित्ताद्धरितपीताभसिरादित्वं ज्वरस्तमः॥

श्लोक 12

तृट्स्वेदमूर्च्छा शीतेच्छा दौर्गन्ध्यं कटुवक्त्रता।
वर्चोभेदोऽम्लको दाहः कफाच्छुक्लसिरादिता॥

श्लोक 13

तन्द्रा लवणवक्त्रत्वं रोमहर्षः स्वरक्षयः।
कासश्छर्दिश्च निचयान्मिश्रलिङ्गोऽतिदुस्सहः॥

श्लोक 14

मृत् कषायानिलं पित्तमूषरा मधुरा कफम्।
दूषयित्वा रसादींश्च रौक्ष्याद्भुक्तं विरूक्ष्य च॥

श्लोक 15

स्रोतांस्यपक्वैवापूर्य कुर्याद्रुध्वा च पूर्ववत्।
पाण्डुरोगं ततः शूननाभिपादास्यमेहनः॥

श्लोक 16

पुरीषं कृमिवन्मुञ्चेद्भिन्नं सासृक्कफं नरः।
यः पाण्डुरोगी सेवेत पित्तलं तस्य कामलाम्॥

श्लोक 17

कोष्ठशाखाश्रयं पित्तं दग्ध्वासृङ्मांसमावहेत्।
हारिद्रनेत्रमूत्रत्वङ्नखवक्त्रशकृत्तया॥

श्लोक 18

दाहाविपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः।
भवेत् पित्तोल्बणस्यासौ पाण्डुरोगादृतेऽपि च॥

श्लोक 19

उपेक्षया च शोफाढ्या सा कृछ्रा कुम्भकामला।
हरितश्यावपीतत्वं पाण्डुरोगे यदा भवेत्॥

श्लोक 20

वातपित्ताद्भ्रमस्तृष्णा स्त्रीष्वहर्षो मृदुज्वरः।
तन्द्राबलानलभ्रंशो लोढरं तं हलीमकम्॥

श्लोक 21

अलसं चेति शंसन्ति तेषां पूर्वमुपद्रवाः।
शोफप्रधानाः कथिताः स एवातो निगद्यते॥

श्लोक 22

पित्तरक्तकफान् वायुर्दुष्टो दुष्टान् बहिःसिराः।
नीत्वा रुद्धगतिस्तैर्हि कुर्यात् त्वङ्मांससंश्रयम्॥

श्लोक 23

उत्सेधं संहतं शोफं तमाहुर्निचयादतः।
सर्वम् हेतुविशेषैस्तु रूपभेदान्नवात्मकम्॥

श्लोक 24

दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि।
द्विधा वा निजमागन्तुं सर्वाङ्गैकाङ्गजं च तम्॥

श्लोक 25

पृथून्नतग्रथितताविशेषैश्च त्रिधा विदुः।
सामान्यहेतुः शोफानां दोषजानां विशेषतः॥

श्लोक 26

व्याधिकर्मोपवासादिक्षीणस्य भजतो द्रुतम्।
अतिमात्रमथान्यस्य गुर्वम्लस्निग्धशीतलम्।
लवणक्षारतीक्ष्णोष्णशाकाम्बुस्वप्नजागरम्॥

श्लोक 27

मृद्ग्राम्यमांसवल्लूरमजीर्णश्रममैथुनम्।
पदातेर्मार्गगमनं यानेन क्षोभिणापि वा॥

श्लोक 28

श्वासकासातिसारार्शोजठरप्रदरज्वराः।
विषूच्यलसकच्छर्दिगर्भवीसर्पपाण्डवः॥

श्लोक 29

अन्ये च मिथ्योपक्रान्तास्तैर्दोषा वक्षसि स्थिताः।
ऊर्ध्वं शोफमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः॥

श्लोक 30

सर्वाङ्गाः सर्वगतं प्रत्यङ्गेषु तदाश्रयाः।
तत्पूर्वरूपं दवथुः सिरायामोऽङ्गगौरवम्॥

श्लोक 31

वाताच्छोफश्चलो रूक्षः खररोमारुणासितः।
सङ्कोचस्पन्दहर्षार्तितोदभेदप्रसुप्तिमान्॥

श्लोक 32

क्षिप्रोत्थानशमः शीघ्रमुन्नमेत् पीडितस्तनुः।
स्निग्धोष्णमर्दनैः शाम्येद्रात्रावल्पो दिवा महान्॥

श्लोक 33

त्वक्च सर्षपलिप्तेव तस्मिंश्चिमिचिमायते।
पीतरक्तासिताभासः पित्तादाताम्ररोमकृत्॥

श्लोक 34

शीघ्रानुसारप्रशमो मध्ये प्राग्जायते तनोः।
सतृड्दाहज्वरस्वेददवक्लेदमदभ्रमः॥

श्लोक 35

शीताभिलाषी विड्भेदी गन्धी स्पर्शासहो मृदुः।
कण्डूमान् पाण्डुरोमत्वक्कठिनः शीतलो गुरुः॥

श्लोक 36

स्निग्धः श्लक्ष्णः स्थिर स्त्यानो निद्राच्छर्द्यग्निसादकृत्।
आक्रान्तो नोन्नमेत् कृच्छ्रशमजन्मा निशाबलः॥

श्लोक 37

स्रवेन्नासृक् चिरात् पिच्छां कुशशस्त्रादिविक्षतः।
स्पर्शोष्णकाङ्क्षी च कफाद्यथास्वं द्वन्द्वजास्त्रयः॥

श्लोक 38

सङ्कराद्धेतुलिङ्गानां निचयान्निचयात्मकः।
अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः॥

श्लोक 39

हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः।
रसैश्शूकैश्चसंस्पर्शाच्छ्रवयथुः स्याद्विसर्पवान्॥

श्लोक 40

भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः॥

श्लोक 41

विषजः सविषप्राणिपरिसर्पणमूत्रणात्।
दंष्ट्रादन्तनखापातादविषप्राणिनामपि॥

श्लोक 42

विण्मूत्रशुक्रोपहतमलवद्वस्त्रसङ्करात्।
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात्॥

श्लोक 43

मृदुश्चलोऽवलम्बी च शीघ्रदाहरुजाकरः।
नवोऽनुपद्रवः शोफः साध्योऽसाध्यः पुरेरितः॥

श्लोक 44

स्याद्विसर्पोऽभिघातान्तैर्दोषैर्दूष्यैश्च शोफवत्।
त्र्यधिष्ठानं च तं प्राहुर्बाह्यान्तरुभयाश्रयात्॥

श्लोक 45

यथोत्तरं च दुःसाध्यास्तत्र दोषा यथायथम्।
प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः॥

श्लोक 46

देहे शीघ्रं विसर्पन्ति तेऽन्तरन्तःस्थिता बहिः।
बहिःस्था द्वितये द्विस्थाः विद्यात्तत्रान्तराश्रयम्॥

श्लोक 47

मर्मोपतापात्सम्मोहादयनानां विघट्टनात्।
तृष्णातियोगाद्वेगानां विषमं च प्रवर्तनात्॥

श्लोक 48

आशु चाग्निबलभ्रंशादतो बाह्यं विपर्ययात्।
तत्र वातात् परीसर्पो वातज्वरसमव्यथः॥

श्लोक 49

शोफस्फुरणनिस्तोदभेदायामार्तिहर्षवान्।
पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः॥

श्लोक 50

कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्।
स्वदोषलिङ्गैश्चीयन्ते सर्वे स्फोटैरुपेक्षिताः॥

श्लोक 51

ते पक्वभिन्नाः स्वं स्वं च बिभ्रति व्रणलक्षणम्।
वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः॥

श्लोक 52

अस्तिभेदाग्निसदनतमकारोचकैर्युतः।
करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत्॥

श्लोक 53

यं यं देशं विसर्पश्च विसर्पति भवेत्स सः।
शान्ताङ्गारासितो नीलो रक्तो वाशु च चीयते॥

श्लोक 54

अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतञ्च सः।
मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः॥

श्लोक 55

व्यथेताङ्गं हरेत्संज्ञां निद्रां च श्वासमीरयेत्।
हिध्मां च स गतोऽवस्थामीदृशीं लभते न ना॥

श्लोक 56

क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु।
चेष्टमानस्ततः क्लिष्टो मनोदेहश्रमोद्भवाम्॥

श्लोक 57

दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते॥

श्लोक 58

कफेन रुद्धः पवनो भित्वा तं बहुधा कफम्।
रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नावमांसगम्॥

श्लोक 59

दूषयित्वा च दीर्घाणुवृत्तस्थूलखरात्मनाम्।
ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम्॥

श्लोक 60

श्वासकासातिसारास्यशोषहिध्मावमिभ्रमैः।
मोहवैवर्ण्यमूर्च्छाङ्गभङ्गाग्निसदनैर्युताम्॥

श्लोक 61

इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः॥

श्लोक 62

कफपित्तात् ज्वरः स्तम्भो तन्द्रानिद्राशिरोरुजः।
अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः॥

श्लोक 63

मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम्।
आमोपवेशनं लेपः स्रोतसां स च सर्पति॥

श्लोक 64

प्रायेणामाशये गृह्णन्नेकदेशञ्च नातिरुक्।
पिटकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः॥

श्लोक 65

मेचकाभोऽसितःस्निग्धो मलिनःशोफवान् गुरुः।
गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्याते॥

श्लोक 66

पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः।
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम्॥

श्लोक 67

सर्वजो लक्षणैः सर्वैः सर्वधात्वभिदर्पणः।
बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन्॥

श्लोक 68

विसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम्।
स्फोटैः शोफज्वररुजादाहाढ्यं श्यावलोहितम्॥

श्लोक 69

असाध्यौ क्षतसर्वोत्थौ सर्वे चाक्रान्तमर्मकाः॥

श्लोक 70

शीर्णस्नायुसिरामांसाः प्रक्लिन्नाः शवगन्धयः॥
इति त्रयोदशोऽध्यायः॥