श्लोक 1
अथातोऽतीसारग्रहणीदोषनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
अतीसारः स सुतरां जायतेऽत्यम्बुपानतः॥
श्लोक 3
कृशशुष्कामिषासात्म्यतिलपिष्टविरूढकः।
मद्यरूक्षातिमात्रान्नैरर्शोभिः स्नेहविभ्रमात्॥
श्लोक 4
कृमिभ्यो वेगरोधाच्च तद्विधैः कुपितोऽनिलः।
विस्रंसयत्यधोब्धातुं हत्वा तेनैव चानलम्॥
श्लोक 5
व्यापद्यानुशकृत् कोष्ठं पुरीषं द्रवतां नयन्।
प्रकल्पतेऽतिसाराय लक्षणं तस्य भाविनः॥
श्लोक 6
तोदो हृद्गुदकोष्ठेषु गात्रसादो मलग्रहः।
आध्यानमविपाकश्च तत्र वातेन विज्जलम्॥
श्लोक 7
अल्पाल्पं शब्दशूलाढ्यं विबद्धमुपवेश्यते।
रूक्षं सफेनमच्छं च ग्रथितं वा मुहुर्मुहुः॥
श्लोक 8
तथा दग्धगुडाभासं सपिच्छापरिकर्तिकम्।
शुष्कास्यो भ्रष्टपायुश्च हृष्टरोमा विनिष्टनन्॥
श्लोक 9
पित्तेन पीतमसितं हारिद्रं शाद्वलप्रभम्।
सरक्तमतिदुर्गन्धं तृण्मूर्च्छास्वेददाहवान्॥
श्लोक 10
सशूलः पायुसन्तापपाकवान् श्लेष्मणा घनम्।
पिच्छिलं तन्तुमच्छ्वेतं स्निग्धमामं कफान्वितम्॥
श्लोक 11
अभीक्ष्णं गुरु दुर्गन्धं विबद्धमनुबद्धरुक्।
निद्रालुरलसोऽन्नद्विडल्पाल्पं सप्रवाहिकम्॥
श्लोक 12
सरोमहर्षः सोत्क्लेशो गुरुबस्तिगुदोदरः।
कृतेऽप्यकृतसंज्ञश्च सर्वात्मा सर्वलक्षणः॥
श्लोक 13
भयेन क्षोभिते चित्ते सपित्तो द्रावयेच्छकृत्।
वायुस्ततोऽतिसार्येत क्षिप्रमुष्णं द्रवं प्लवम्॥
श्लोक 14
वातपित्तसमं लिङ्गैराहुस्तद्वच्च शोकतः।
अतीसारः समासेन द्वेधा सामो निरामकः॥
श्लोक 15
सासृङ्निरस्रस्तत्राद्ये गौरवादप्सु मज्जति।
शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः॥
श्लोक 16
विपरीतो निरामस्तु कफात् पक्वोऽपि मज्जति॥
श्लोक 17
अतीसारेषु यो नातियत्नवान् ग्रहणीगदः।
तस्य स्यादग्निविध्वंसकरैरन्यस्य सेवितैः॥
श्लोक 18
सामं शकृनिरामं वा जीर्णे येनातिसार्यते।
सोऽतिसारोऽतिसरणादाशुकारी स्वभावतः॥
श्लोक 19
सामं सान्नमजीर्णेऽन्ने जीर्णे पक्वं तु नैव वा।
अकस्माद्वा मुहुर्बद्धमकस्माच्छिथिलं मुहुः॥
श्लोक 20
चिरकृद्ग्रहणीदोषः सञ्चयाच्चोपवेशयेत्॥
श्लोक 21
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते।
प्राग्रूपं तस्य सदनं चिरात् पचनमम्लकः॥
श्लोक 22
प्रसेको वक्त्रवैरस्यमरुचिस्तृट् क्लमो भ्रमः।
आनद्धोदरता छर्दिःकर्णक्ष्वेडान्त्रकूजनम्॥
श्लोक 23
सामान्यलक्षणं कार्श्यं धूमकस्तमको ज्वरः।
मूर्छा शिरोरुग्विष्टम्भः श्वयथुः करपादयोः॥
श्लोक 24
तत्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः।
पार्श्वोरुवङ्क्षणग्रीवारुजाभीक्ष्णं विषूचिका॥
श्लोक 25
रसेषु गृद्धिः सर्वेषु क्षुत्तृष्णा परिकर्तिका।
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते॥
श्लोक 26
वातहृद्रोगगुल्मार्शः प्लीहपाण्डुत्वशाङ्कितः।
चिराद्दुःखं द्रवं शुष्कः तन्वामं शब्दफेनवत्॥
श्लोक 27
पुनःपुनः सृजेद्वर्चः पायुरुक्श्वासकासवान्।
पित्तेन नीलं पीताभं पीताभः सृजति द्रवम्॥
श्लोक 28
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः।
श्लेष्मणा पच्यते दुःखमन्नं छर्दिररोचकः॥
श्लोक 29
आस्योपदेहनिष्ठीवकासहृल्लासपीनसाः।
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु॥
श्लोक 30
उद्गारो दुष्टमधुरः सदनं स्त्रीष्वहर्षणम्।
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्॥
श्लोक 31
अकृशस्यापि दौर्बल्यं सर्वजे सर्वसङ्करः॥
श्लोक 32
सिराविभागे ये चोक्ता विषमाद्यास्त्रयोऽग्नयः।
तेऽपि स्युर्ग्रहणीदोषाः समस्तु स्वास्थ्यकारणम्॥
श्लोक 33
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः।
अर्शासि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः॥
इति अष्टमोऽध्यायः॥