श्लोक 1
अथातोऽर्शसां निदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
श्लोक 2
अरिवद्विशसन्तीत्यर्शांसि तानि पुनर्बहुप्रकाराणि सुबहूपद्रवाणि च पायुमेढ्रादिसंश्रया मांसकीलाः।
समासतस्तु द्विविधान्यर्शांसि सहजानि जन्मोत्तरकालजानि च।
पुनश्च द्विविधानि शुष्काण्यार्द्राणि च।
सर्वेषां पुनरधिष्टानं मेदो मांसं त्वक् च।
स्थूलान्त्रप्रतिबद्धोऽर्धपञ्चाङ्गुलो हि गुदः।
तस्मिन् पूर्व मुक्ता वलीसंज्ञास्तिस्रः पेश्योऽध्यर्धाङ्गुलाः।
ताः प्रवाहिणी विसर्जनी संवरणी च।
रोमान्तादध्यर्धयवं गुदौष्ठमाहुः।
प्रथमा तु गुदौष्ठादङ्गुलमात्रो॥
श्लोक 3
तत्र सहजानां गुदवलीबीजोपतप्तिरायतनम्।
तस्या द्विविधो हेतुः मातापित्रोरपचारो दैवं च।
ताभ्यां सन्निपातप्रकोपः।
तस्मात्तान्यसाध्यानि।
एतेन कुलजाः सर्वे विकारा व्याख्याताः॥
श्लोक 4
विशेषतस्तु सहजानि दुर्दर्शनपरुषपाण्डूपचितदारुणान्यन्तर्मुखानि बहूपद्रवोपद्रुतानि भवति॥
श्लोक 5
अथेतराणि षड्विधानि पृथग्दोषैः संसृष्टैः सन्निपतितैः शोणितेन च।
तत्र वातश्लेष्मोत्तराणि शुष्काणि रक्तपित्तोत्तराण्यार्द्राणि॥
श्लोक 6
दोषप्रकोपहेतुस्तु प्रागुक्तः।
स यदा मलोपचयमादधाति पुनश्चोत्कटकविषमकठिनासनसेवनादुद्भ्रान्तयानोष्ट्रादिप्रयाणादतिव्यवायद्बास्तिनेत्रासम्यक्प्रणिधानादिना गुदक्षणनादभीक्ष्णं शीताम्बुसंस्पर्शाच्चैललोष्टतृणादिसङ्घर्षात् प्रततातिप्रवाहणाद्वातमूत्रपुरीषवेगोदीरणधारणात् स्त्रीणां चमगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतेरेवंविधश्चापरः कुपितो वायुरपानस्तं मलमुपचितमधोगतमासाद्य गुदवलीष्वाधत्ते।
ततस्तास्वभिष्यण्णास्वर्शांसि सम्भवन्ति॥
श्लोक 7
तेषां पूर्वरूपाणि कृच्छ्रात् पक्तिरान्त्रकूजनमुद्गारबाहुल्यमम्लकोऽन्नाश्रद्धाविष्टम्भोश्मगर्भाभनाभित्वमाटोपोऽधस्तात् कृच्छ्रेण सशब्दस्य च वायोः प्रवृत्तिर्बहुमूत्रत्वमल्पपुरीषता गुदपरिकर्तनं सक्थिरदनमक्ष्णोः श्वयथुरविमलेन्द्रियत्वमालस्यं तन्द्रा कार्श्यं दौर्बल्यमाशङ्का ग्रहणीदोषशोफोदरपाण्डुरोगगुल्मेषु।
जातेषु चैतानि लिङ्गानि प्रव्यक्ततराणि भवन्ति॥
श्लोक 8
तैः खल्वधोमार्गोपरोधाद्वायुरपानो निवर्तमानः समानव्यानोदानप्राणान् पित्तश्लेष्माणौ च प्रकोपयन्नन लमुपमृद्नाति॥
श्लोक 9
अथ सर्व एवार्शसो भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुरविबद्धवातमूत्रपुरीषोऽश्मरीशर्करावाननियतविबद्धमुक्तामपक्वभिन्नशुष्कवर्चास्तथान्तराश्वेतपाण्डुहरितपीतरक्तारुणतनुसान्द्रीपच्छिलोपवेशी नाभिवङ्क्षणोद्देशप्रचुरपरिकर्तिकान्वितः सगुदशूलप्रवाहिकाप्रहर्षप्रमोहोऽल्पशुक्रप्रजोऽल्पभुक् सिरासन्ततगात्रः क्रोधनो दुरुपचारः क्रोधनो दुरुपचारः कासश्वासपीनसतृष्णारोचकपाणिपादवदनाक्षिकूटश्चयथुक्षवथुवेपथुवमथुपरीतस्तैमिरिकः शिरःशूली क्षामभिन्नस्वरः कर्णरोगी सज्वरः साङ्गमर्दः सर्वपर्वास्थिशूलोऽन्तरान्तरा हृदयकुक्षिपार्श्वपृष्ठबस्तित्रिकग्रहोपतप्तः प्रध्यानपरः परमलसश्च॥
श्लोक 10
तत्र वातोल्बणानि शुष्कम्लानकठिनपरुषरूक्षश्यावारुणानि तीक्ष्णस्फुटितमुखानि विषममध्यानि कदम्ब पुष्पतुण्डिकेरीकर्कन्धुसिद्धार्थविम्बीखर्जूरफलप्रमाणानि वक्राणि मिथो विसदृशानि कटीपार्श्वादिष्वधिकवेदनानि सशूलोदावर्तकराणि गुल्माष्ठीलाप्लीहोदराणि चास्य तन्निमित्तान्येव।
कृष्णत्वङ्नखनयनवदनमलाश्च भवन्ति॥
श्लोक 11
पित्तोल्बणानि नीलाग्राणि रक्तपीतकृष्णानि मृदुशिथिलानि स्पर्शासहानि विस्रगन्धीनि तनूनि तनुरक्तस्रावीणि दाहपाकवन्ति ज्वरमोहारुचिकराणि यकृत्प्रकाशानि शुकजिह्वाजलौकावक्त्रसदृशानि यवमध्यानि प्रक्लिन्नानि भिन्नपीतवर्चांसि हारिद्रत्वङ्नखादिकराणि च॥
श्लोक 12
श्लेष्मोल्बणानि महामूलानि स्थिरस्निग्धपाण्डुवृत्तोपचितानि गुरुस्तब्धश्लक्ष्णपिच्छिलानि सुप्तसुप्तानि स्पर्शक्षमाणि करीरपनसास्थिगोस्तनाकाराण्यतिमात्रोत्थानप्रवाहिकावङ्क्षणानाहनाभिपरिकर्तिकाहृल्लासप्रसके कासश्वासपीनसारुचिच्छर्दिकृछ्रमूत्रप्रमेहशीतज्वरशोफशिरोगौरवेन्द्रियोपलेपाग्निमार्दवक्लैब्यामविकारप्रबलानि न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि सश्लेष्मवसाप्रकाशातिमलोपवेशीनि शुक्लत्वङ्नखादि कराणिच।
लक्षणसङ्करात् संसर्गसन्निपातजानि विभजेत्॥
श्लोक 13
रक्तोल्बणानि तु वटप्ररोहविद्रुमकाकनन्दिकाफलाभानि पित्तलक्षणानि च तथा गाढपुरीषप्रतिपीडितान्यत्यर्थं दुष्टमुष्णमसृक् सहसा विसृजन्ति।
तस्यातिप्रवृत्तौ रक्तक्षयोपद्रवा भवन्तीति।
भवति चात्र श्लोकः॥
श्लोक 14
मुद्गकोद्रवजूर्णाह्वकरीरचणकादिभिः।
रूक्षैः सङ्ग्राहिभिर्वायुः स्वे स्थाने कुपितो बली॥
श्लोक 15
अधोवहानि स्रोतांसि संस्रुध्याधः प्रशोषयन्।
पुरीषं वातविण्मूत्रसङ्गं कुर्वीत दारुणम्॥
श्लोक 16
तेन तीव्ररुजा कोष्ठपृष्ठहृत्पार्श्वगा भवेत्।
आध्मानमुदरावेष्टो हृल्लासः परिकर्तनम्॥
श्लोक 17
बस्तौ च सुतरां शूलं गण्डे श्वयथुसम्भवः।
पवनस्योर्ध्वगामित्वं ततश्छर्द्यरुचिज्वराः॥
श्लोक 18
हृद्रोगग्रहणीदोषमूत्रसङ्गप्रवाहिकाः।
बाधिर्यतिमिरश्वासशिरोरुक्कासपीनसाः॥
श्लोक 19
मनोविकारस्तृष्णास्रपित्तगुल्मोदरादयः।
ते ते च वातजा रोगा जायन्ते भृशदारुणाः॥
श्लोक 20
दुर्नाम्नामित्युदावर्तः परमोऽयमुपद्रवः।
वाताभिभूतकोष्ठानां तैर्विनापि स जायते॥
श्लोक 21
सहजानि त्रिदोषाणि यानि चाभ्यन्तरे बलौ।
स्थितानि तान्यसाध्यनि याप्यन्तेग्निबलादिभिः॥
श्लोक 22
द्वन्द्वजानि द्वितीयायां बलौ यान्याश्रितानि च।
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च॥
श्लोक 23
बाह्यायां तु बलौ जातान्येकदोषोल्बणानि च।
अर्शांसि सुखसाध्यानि नचिरोत्पतितानि च॥
श्लोक 24
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि तु।
गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च॥
श्लोक 25
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः।
कीलोपमं स्थिरखरं चर्मकीलं तु तं विदुः॥
श्लोक 26
वातेन तोदपारुष्यं पित्तादसितरक्तता।
श्लेष्मणा स्निग्धता तस्य ग्रथितत्वं सवर्णता॥
श्लोक 27
अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान्।
तान्याशु हि गुदं बध्वा कुर्युर्बद्धगुदोदरम्॥
इति सप्तमोऽध्यायः॥